________________
२६९
[है० २.३.१७.] तृतीयः सर्गः। श्वासितः । यतो वत्सलत्वादिनातिक्रान्ते मातुःष्वसृपितुःष्वसारौ यया तया ॥
मातुःखम्रा पितुःस्वस्रा मुन्नदीनाः सह व्रजाः।
क्रीडानिष्णानदीष्णातॄनत्वरन्तेक्षितुं द्विपान् ॥ १०४ ॥ १०४. मातुःस्वस्रा पितुःखस्रोपलक्षणार्थत्वान्मातृपक्षेण पितृपक्षण च सह व्रजा गोकुलस्था जना द्विपानीक्षितुमत्वरन्त ससंभ्रमं चेलुः । यतो मुद्धर्षः सैव पूरेणाप्लावकत्वानदी तत्र स्नान्ति के मुन्नदीनाः । कुतूहलपूराप्लाविता इत्यर्थः । यतः किंभूतान् । नदीष्णातॄन्कौशलान्नद्यां स्नायकान् । एतदपि कुत इत्याह । यतः क्रीडानिष्णान् जलकेलिकरणचतुरान् । गजो हि जलकेलिं कुर्वन्तोत्यद्भुतत्वाद्देश्याः स्युः ॥
खासिन्धाविव निस्नानप्रतिस्नाताः समुच्छ्रयात् । प्रतिष्णातप्रतिष्णानव्यूता ध्वजपटा बभुः ॥ १०५॥ १०५. रथादिस्था ध्वजपटा बभुः । यतः प्रतिष्णातं क्षालनेन शुद्धं यत्प्रतिष्णानं सूत्रं तेन व्यूता निर्मलसूत्रमयाः । उत्प्रेक्ष्यन्ते । समुच्छ्रयादौन्नत्याद्धेतोः स्वःसिन्धौ व्योमगङ्गायाँ निस्नानप्रतिस्नाता इव निनानेन निश्चितस्नानेन कृत्वा प्रतिस्नाता इव निर्मलीभूता इव । येपि प्रतिष्णातमतिव्यात्यादिदोषाभावेन शुद्धं यत्प्रतिष्णानं वेदादिसूत्रं तेन व्यूताः पाठेनात्यन्तं वासिताशयाः स्वःसिन्धौ निश्चितं स्नाताश्च स्युस्ते समुच्छ्रयाँल्लोकमध्य औन्नौद्धजपटा इव भान्तीत्युक्तिः ।।
१ वी दीना स.
१ ए सी तुः स्वसा. २ सी °जा दि ज. ३ सी दृशाः स्युः ॥ . ४ सीयां न खा. ५ ए सी °तिज्ञाता. ६ सी ल्याः स्वासि. ७बी °या लोक. ८पया ध्वज.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org