________________
२६६
व्याश्रयमहाकाव्ये
[मूलराजः]]
धनुष्फलकयोग्याभिस्तबारुष्पाणयो बभुः । सर्पिष्पाः सुभटा बर्हिष्खननैाह्मणा इव ॥ ९८ ॥ ९८. सर्पिष्पा घृतपायिनोतिबलिष्ठा इत्यर्थः । सुभटा विशेषतो दानसन्मानपात्रत्वाद्वभुः । यतो धनुष्फलकयोश्चापस्फरयोर्या योग्या निरन्तराभ्यासास्ताभिः कृत्वारुणं पाणी येषां ते धनुर्विद्यायां खड्गविद्यायां च कुशला इत्यर्थः । यथा सर्पिष्पा जातिस्वभावेनात्यन्तं घृतप्रियत्वाद् घृतपायिनो ब्राह्मणा भान्ति । यतो बहिष्खननैः पवित्रिकाद्यर्थ दर्भच्छेदनैररुष्पाणयो दर्भाणां तीक्ष्णाग्रत्वाद्वणितहस्ताः क्रियानैष्ठिका इत्यर्थः ॥
नृपो ज्योतिष्लम छ्यद्भिश्छन्नश्छत्रैश्छदिष्फलैः। भ्रातुष्पुत्रं दंढकस्य कस्कोसेविष्ट नानुयान् ॥ ९९ ॥
९९. कस्को नृपोनुयाँननुव्रजन्सन् दंढकस्य देंढक्काख्यपितृव्यस्य भ्रातुष्पुत्रं भ्रातृजं मूलराजं नासेविष्ट । कीदृक् । छत्रैश्छन्नः सर्वतोप्यावृतो महर्द्धिक इत्यर्थः । कीदृशैः । छदिः पटलं तद्वदवनतप्रान्ततया सर्वतश्छायाकारितया च फलन्ति संपद्यन्ते यानि तैइछदिष्फलैरत एव ज्योतिष्क्लमं सूर्यातपखेदं छयद्भिरपनयद्भिः । सर्वोपि नृपवर्गोमुं महाभजदित्यर्थः ॥ राजिबीजदँढक्कास्त्रयो भ्रातर आदिपुरुषाः । राजेरपत्यं मूलराजो बीजढकयोस्तु भ्रातुष्पुत्रः ।
... १ बी
दिष्पलैः. २ बी दड क.
१ डी पस्फुर'. २ सी दनै'. ३ ए सी डी यान् म. ४ बी दडक्की. ५ बी दडका. ६ सी दिष्पलै'. ७ बी दडका. ८बी दडक.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org