SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ [ है ० २.३.११.] - तृतीयः सर्गः । २६५ द्धम् । कृतकृत्यमित्यर्थः । चक्षुर्लोचनं फलितं सफलमूहितं वितर्कितम् । किं कृत्वा उष्णगो रवेर्ज्योतिस्तेजः खर्वयल्लघयत्तस्य राज्ञो वपुः प्रेक्ष्य || रोचिष्कवलयङ्गानोर्हग्ज्योतिष्फल्गयन्नृणाम् । सर्वार्चिष्पिदधत्खेगाद्वर्हिः पाण्डुरयद्रजः ॥ ९६ ॥ 1 ९६. रजः सैन्यपादधातोत्था धूलि: खेगात् । कीदृक्सत् । बर्हिः । जातावेकवचनम् । दर्भान्पाण्डुरयत् । पृथ्वीस्थं वनगहनादि व्यामुवदित्यर्थः । तथोर्ध्व प्रसृमरत्वाद्धानो रोचि: किरणान्कवलयद्भसमानम् । तथातिनिबिडत्वात्सर्वेषां दीपादीनामचिः कान्तिः सर्वार्चिस्तत्पिद्धदत एव नृणां दृग्ज्योतिर्लोचनदीप्तिं फल्गयन्निष्फलयच्च । रजोतिनिबिडं रोदसी व्यापेत्यर्थः ॥ रोचिष्कवलयत् । ज्योतिष्वर्वयत् । सर्वार्चिष्पिदधत् । हग्ज्योतिष्फलगयत् । आयुष्काम्यम् । जनुष्ख्यातम् । वपुष्प्रेक्ष्य । चक्षुष्फलितम् । इत्यत्र "वेस" [११] इत्यादिना वा षः ॥ पक्षे । बर्हिः पाण्डुरयत् इत्यादि ॥ I अर्चि पारश्वधं ज्योतिन्तं च रुरुचे तदा । २ तन्वदैन्द्रं धनुष्खण्डमीक्ष्यमाणं धनुष्करैः ॥ ९७ ॥ ९७. तदा मेघतुल्ये रजसि नभोव्यापिनि सतीत्यर्थः । पारश्वधं परशुशस्त्र संबन्ध्यचिदप्तिः कौन्तं प्राससंबन्धि ज्योतिश्च रुरुचे । कीदृशम् । स्वर्णमण्यादिखचितत्वेनोल्लसदनेकवर्णप्रभाजालत्वादैन्द्रं शक्रसंबन्धि धनुष्खण्डं तन्वदेत एवं धनुष्करैर्धानुष्कैरद्भुतधनुर्भ्रान्त्येक्ष्यमाणम् ॥ १ बी 'तिफ २ बी 'मीक्षमा १ बी नं च फ २ए ददए. Jain Education International ३ सीडी व चध. For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy