________________
१८४ व्याश्रयमहाकाव्ये
[मूलराजः] रस्फुरायमाणात एव समुन्मिषन्त्युच्छसन्ती । शेषविशेषणानामर्थ एकवचनेन प्राग्वत् ॥ यदास्य पार्चे धुनती दलन्ती स्यन्ती परांश्चापलताथ तूणे । तदैव सा द्यौर्दिविषत्सु मुक्तधुषु घुसघूर्युभवेत्कथं नु ॥ ७८ ॥
७८. यदास्य ग्राहारेः पार्श्वे चापलता स्यात् । कीदृक् । धुनती ज्याकर्षवशेन कम्पमाना तथा परान् शत्रून् दलन्ती शरक्षेपिकात्वेन विदारयन्ती स्यन्ती परानेवान्तं नयन्ती च । अर्थ तथा यदा तूणे तूणीरौ धुनती शराकर्षवशात्कम्पमाने शरक्षेपहेतुत्वात्परान् दलन्ती स्यन्ती च स्यातां तदैव दिविषत्सु मुक्तधुषु भयवशात्त्यक्तस्वर्गेषु सत्सु द्युसदो देवान् दीव्यतीच्छति क्विपि ऊटि च द्युसर्देवानिच्छन्ती सती सा दीव्यति क्रीडति देवैरित्यन्वर्थेन प्रसिद्धा द्यौः स्वर्लोकः कथं न्वद्यौद्यौर्भवेत् शुभवेहीव्यति देवैरित्यन्वर्थयुक्ता कथं नाम स्यात् । न स्यादेवेत्यर्थः ॥
समुन्मिषन्ती । मिषती । गलिष्यन्ती गलिष्यती । विभान्ती भाती । अत्र "अवर्णाद्' [११५] इत्यादिना वातुरन्तादेश ईड्योः ॥ अश्न इति किम् । धुनती॥ स्यन्ती। दलन्ती । अत्र “इयशवः" [११६] इत्यतुरन्तादेशः ईड्योः ॥
द्यौः । इत्यत्र "दिव औः सौ" [११७] इत्यौः ॥ “निरनुबन्धग्रहणे न सानुबन्धकस्य" [न्या० सू० ३२] इति धातोर्न स्यात् । घुसह्यूः ॥
मुक्तधुषु । घुसत् । इत्यत्र “उ” [११८] इत्यादिना उः ॥ पदान्त इति किम् । दिविषत्सु ॥ अनूदिति किम् । द्यु भवेत् । अत्र “दीर्घश्वि" [४.३.१०८] इत्यादिना च्वौ दीर्घत्वं न स्यात्॥
पञ्चमः पादः ॥ १ बीय यथा. २ एफ °न्ती सा. ३ सी डी त् ॥ इति श्रीप. एफ त् ॥ इति पञ्चमः पादः समर्थितः समाप्तः ॥.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org