SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ है०२.१.११३.] द्वितीयः सर्गः। १८३ ___ ७६. प्लीहोदररोगभेदः । पृथ्व्याः प्लीह्नि प्लीहव्याधिवजनानां दुःखकेत्र ग्राहरिपौ शतघ्न्यायुधविशेषेण द्विजान् द्राग् घ्नति हिंसत्यत एव मखन्नि यागोच्छित्तिकारिणि सति मन्येहमद्यैव सांप्रतमेव न त्वपि बलारिरिन्द्रः क्षुधितः । यतो हविर्य इन्द्रोद्देशेन संप्रदेयमन्त्रपूतहव्यवस्तुभ्यः स्पृहयन् । तस्मात्कुमतौ पापबुद्धावस्मिन् ग्राहरिपो विषये विधातुः स्रष्टुः सृष्टिं निर्माणं धिग्गर्हामहे ॥ शतघ्या । मखन्नि । नति । इत्यन्त्र "हनो ह्रो भ्" [११२] इति न् ॥ हन इति किम् । प्लीहि ॥ स्पृहयन् । मन्ये । इत्यत्र “लुगस्य" [११३] इत्यादिनास्य लुक् ॥ अपद इति किम् । बलारिः अद्यैव ॥ कुमतौ । विधातुः । इत्यत्र “ङित्यन्त" [११४] इत्यादिनान्त्यस्वरादेर्लुक् ॥ भाती प्रथिम्ना मदतो विभान्ती सुगन्मिषन्ती मिषती यमेन । गलिष्यती द्यां नु भुवं गलिष्यन्ती न्वस्य नेत्रे सदृशी तनुश्च ॥७७॥ ७७. अस्य ग्राहरिपोनेंत्रे सदृशी समाने प्रस्तावात्तन्वा । तनुश्च मूर्तिः सदृशी समाना प्रस्तावान्नेत्राभ्याम् । तथा हि नेत्रे तावत्प्रथिना विस्तारेण भाती शोभमाने । तथा मदतः क्षीबतया घूर्णमानत्वारक्तत्वादिनेत्यर्थः । विभान्ती तथा समुन्मिषन्ती मदवशादेवान्तरोन्तरी विकरालं विकसन्ती । अत एव यमेन सह मिषती स्पर्धमाने यमवद्भीष्मे इत्यर्थः । अत एवोत्प्रेक्ष्यते । न स्वभावतो यमेन मिषती किं तु द्यां स्वर्ग गलिष्यती नु संहरिष्यमाणे इव तथा भुवं गलिष्यन्ती नु । तनुरपि प्रथिम्ना स्थौल्यजनितविस्तारेण भाती तथा मदतोहंकारात्स्फु १ डी दुःखकेत्र altered into दु:खकारकेत्र. २ सी तहतव्य. डी तहोतव्य'. ३ एफ सृष्टिनिर्मा. ४ डी 'नत्वर. ५ सी रालं विककारस. एफ रा विकारा'. ६ डी रालम्बिविकारमन्ती ।. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy