SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १७६ घ्याश्रयमहाकाव्ये [मूलराजः] तथोग्रदोषि प्रचण्डबाहुपराक्रमेत एवासनि पीठेनासीने सदा शत्रूनास्कन्दति चेत्यर्थः । मास्मायं छलास्कन्दनेन मामुपद्रवदित्यस्माद्विभ्यद्विभीषणः कुत्राप्यवस्थितिं न बनातीत्यहं संभावयामीत्यर्थः ॥ दुष्टो हृदा क्ष्माहृदयस्य शल्यं पदार्धपादेन स रावणोनः। उद्गां निधेरप्युदकैररोध्यः प्रियासृजोसावपूणविडस्ना ॥ ६७॥ ६७. स प्रसिद्धोसौ ग्राहारिः प्रियमसृग् रुधिरं येषां तान् राक्षसान् द्विडना शत्रुरक्तेनापृणदप्रीणयत्। कीदृक् । हृदा चेतसा दुष्टो मायावी। अत एव क्ष्माया हृदयं चित्तमेव हृदयं वक्षस्तस्य शल्यमिव शल्यं लोकानां हृदये निविष्टः शल्यमिव व्यथाकारीत्यर्थः । तथा स्वाभाविकबलेन विद्याबलेन चोद्गां जलानां निधेः समुद्रस्योदकैरप्यरोध्यो रोद्भुमशक्योत एव पदा चतुर्थभागेनार्धपादेनाष्टमभागेन वा रावणादूनो हीनो रावणोनः । सापेक्षत्वेपि गमकत्वात्समासः । रावणतुल्य इत्यर्थः । सोप्येवंविधः ॥ लुलद्यकृत्युच्छकृति विडै भे नत्रुच्चदन्ते यमदद्भिरः। समद्ययूषेण नु रक्तयूष्णा यनापशनामदयत्पिशाचीः॥६८॥ ६८. स ग्राहरिपू रक्तयूष्णा रुधिररसेन मद्ययूषेण नु सुरारसेनेव तथापगतं निर्गतं शकृद्विष्ठा यस्मात्तेन यता कालखण्डेन पिशाचीळन्तरीविशेषानमदयन्मत्तीचक्रे । यतो यमदद्भिरतिरौद्रत्वात् शत्रूणां मृत्युहेतुत्वाच्चान्तकदन्ततुल्यैरखैः कृत्वोच्चदन्त उन्नतदशने द्विडेभे शत्रूणां गजौघे नन्प्रहरन् । अत एव किंभूते द्विडेभे । लुलत्तीव्रप्रहारवशात्पतद्यकृत्कालेयं यस्य तस्मिन् । तथा भयेनोद्गतं शकृद्विष्ठा यस्य त १ एफ् स्माद्विभी. २ सी ६७ प्र. ३ एफ तुर्भागे . ४ एफ महाभा. ५ एफ मासेरा. ६ सी वणेतु डी वणेन तु. ७ बी सेणम. ८ एफ ल्यैः शस्त्रैः. ९ सी उकृत. डी उच्चैः कृत. १० एफ नन्हर'. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy