SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६८ व्याश्रयमहाकाव्ये [ मूलराज: ] 3 प्रतीहारे । किंभूते । जनेषु विज्ञापकलोकेषु विषये वक्तरि वदति । किमि - त्याह । किमात्थ किमिति ब्रूषेधुना विज्ञापनाय नावसर इति तूष्णीं तिष्ठेत्यर्थ इति । निषेध्यानां जनानां बहुत्वेपि प्रत्येकं निषेधस्य विवक्षितत्वादात्थेत्यत्रैकवचनम् । कीदृक् सः । भक्तिभाग्विनयान्विता वाग्वाणी येषां तैस्तथाभूतैर्नृपैर्नद्धाः परिहिता ये मौलयो नृपचिह्नमुकुटानि तत्र यानि रत्नानि तैरञ्चिते पूजिते उपानहौ पादुके यस्य स तथा । मुकुटबद्धनृपैः कृतप्राभातिकसेवावसर इत्यर्थः ॥ नद्ध । उपानत् । आत्थ । इत्यत्र “नहाहोर्धतौ” [८५] इति धतौ ॥ वक्तरि । वाकूँ । ॐः । भक्ति । भाग् । इत्यत्र “चजः कगम्” [८६ ] इति कौ ॥ विप्रेद् स यष्टेव शतं ऋतूनां मार्श गुणानां गुणराष्टिटगयाम् । सम्राडमूभ्यामरिवर्गभृद्भ्यां स्रष्टेव विभ्राविधिकंसमृद्भ्याम्॥५७॥ ५७. स सम्राड् नृपेशोमूभ्यां जम्बकजेहुलाभ्यां सह विभ्राट् शोभमानोभूत् । कीदृक् । ऋतूनां शतं यष्ठेव शतक्रतुरिव विप्रान् यजते पूजयति क्विपि विट् । यथेन्द्रः ऋतूनां शतं कारयन्विप्रानिष्टवांस्तथा यजन् । तथा गुणानां भीमत्वकान्तत्वादीनां माष्टी यथोचितं व्यापारन निर्मलीकारकः । कीदृग्भ्याममूभ्याम् । गुणराष्ट्रिसृड्भ्यां गुणै राष्टिं राजनं शोभां सृजतः कुरुतो यौ ताभ्यां गुणैः शोभनाभ्यामित्यर्थः । अत एवारिवर्ग स्वस्य राज्ञश्च बाह्यमान्तरं च शत्रुसमूहं भृज्जत: १ डी येषु व. २ एफ यानव ३ सी डी षेधाय वि. ४ एफ ये मूल.. ५ सी चिह्ना मु. डी 'चिह्नानि मु. ६ डी क् इ. एफ् क् भ . ७ सीज क ८ एफू मका. ९ एफ चितव्यापारेण नि . “ह्यमभ्यन्त ं. १० एफू Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003628
Book TitleDvyasrayakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani, Abaji V Kathavate
PublisherGovernment Central Press Mumbai
Publication Year1915
Total Pages828
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy