________________
१५८
व्याश्रयमहाकाव्ये
[ मूलराजः
युङ् शीकरैः प्राङ् मरुदुन्मदक्रुङ् सजू रजोभिः स्फुटमम्बुजानाम् । आदावहः स्वेष जडत्वदस्तद्रविः कृताहा अकृताह एव ॥ ४३ ॥
I
४३. अहः सु दिनेष्वादौ प्रभात एष मरुद्वातो जडत्वं शैत्यं ददाति जडत्वदोस्ति । कीदृक्सन् । शीकरैर्जलकणैर्युङ् युक्तोत एवोन्मदा उन्मत्ता: क्रुश्च: सारसा यस्मात्सः । प्रातः शीतवातस्पर्शे हि कौचा माद्यैन्ति । तथा प्रशस्तं मृद्वञ्चति गच्छति प्राङ् । तथा विकसितत्वादम्बुजानां रजोभिः स्फुटं व्यक्तं सजूः संबद्धः । तत्तस्माद्धेतो रविः कृताहा अपि । अपिरत्राध्याहार्यः । अकृताह एव । दिने हि रविकिरणैर्जाड्यं खण्ड्यते तच प्राभातिके शीतले वाते वाति तदवस्थमेवे - त्यर्केण दिनं कृतमप्यकृतमेवेत्यर्थः ॥
५
युङ् । प्राङ् । क्रुङ् । इत्यत्र " युजज्" [ ७१] इत्यादिना ङः ॥
1
रविः । रजोभिः । इत्यत्र " सो रुः” [ ७२ ] इति रुः ॥
1
सजूः । इत्यत्र “सजुषः " [ ७३] इति रुः
॥
कृताहाः । अहःसु । इत्यत्र " अह्नः " [ ७४ ] इति रुः ॥ कृताहाः । इत्यत्र रुत्वस्यासत्त्वान्नान्तलक्षणो दीर्घो भवति । कश्चित्तु दीर्घ नेच्छति । तन्मते कृताहः ॥
1
जयत्यहोरनमहर्विधित्सु स्फूर्जत्य होरूपमथ प्रवृत्ताः ।
9
भवत्यहोरात्रकृताशिषोहो रथन्तरं सामविदश्च गातुम् ॥ ४४ ॥
८
४४. हे राजन्नहर्विधित्सु दिनं चिकीर्ष्वहोरत्नं दिनमणि: सूर्यो १ सी होरथं'.
१ ए क्रुसा. २ सी 'स्माद्धे डी स्माद्धेतोस्स उन्मदक्रुङ् तथा स्फुटं प्रकटमम्बुजानां रजोभिः सजू: सहित एतेन शीतो मन्दः सुरभिश्च | त्रिधा वायुरुदाहृत इति । तत्तस्माद्धे. ३ एफ् द्यन्ते । त ४ ए अकृ. ५ सी डी 'पिर. ६ सी एफ च प्रभा ७ ए सी डी त्यर्थः ८ए दिनीचि .
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org