________________
२८७
उपकेश गच्छ
तद्वचनेनारब्धा तस्यान्तेवासिना विवृतिरेषा । तत्रैवाचार्यपदं विशदं पालयति सन्नीत्या ॥ ७॥ लोकान्तरिते तस्मिस्तस्य विनेयेन निजगुरुभ्रात्रा । श्रीसिद्धसूरिनाम्ना, भणितेन समर्थिता चेति ॥ ८ ॥ उपाध्यायो यशोदेवो, धनदेवाद्यनामकः । जडोऽपि धाष्टर्यतञ्चक्रे, वृत्तिमेनां सविस्तराम् ॥ ९॥ एकादशशतसंख्येष्वब्देष्वधिकेषु पञ्चषष्टयेयम् । अणहिल्लपाटकपुरे सिद्धोकेशीयवीरजिनभवने ॥ १० ॥ नवपदप्रकरणबृहवृत्ति की प्रशस्ति, प्रकाशक-देवचन्दलालभाई जैन पुस्तकोद्धार;
ई० सन् १९२७. ३. प्रसिद्ध ऊकेशपुरीयगच्छे श्रीकर्कसूरिविदुषां वरिष्ठः।
साहित्यतर्कागमपारदृश्वा बभूव सल्लक्षणलक्षिताङ्गः ॥ १॥ तदीयशिष्योऽजनि सिद्धसूरिः सद्देशनाबोधितभव्यलोकः । निर्लोभतालङ्कृतचितवृत्तिः सज्ज्ञानचारित्रदयान्वितश्च ॥ २ ॥ श्रीदेवगुप्तसूरिस्तच्छिष्योऽभूद्विशुद्धचारित्रः । वादिगजकुम्भभेदनपटुतरनखरायुधसमानः ॥ ३ ॥ तच्छिष्यसिद्धसूरिः क्षेत्रसमासस्य वृत्तिमयमकरोत् । गुरुभ्रातृयशोदेवोपाध्यायज्ञातशास्त्रार्थः ॥ ४ ॥ उत्सूत्रमत्र किञ्चिन्मतिमान्द्याज्ञानतो मयाऽलेखि । निर्व्याजं विद्वद्भिस्तच्छोध्यं मयि विधाय दयाम् ॥ ५ ॥
खैः षण्णवत्याङ्कश्चतुःषष्ट्या द्वात्रिंशताक्षरैः । श्लोकमानेन चैवं त्रिसहस्रा ग्रन्थसङ्ख्याऽत्र ॥६॥ अब्दशतेष्वेकादशसु द्विनवत्याधिकेषु ११९२ विक्रमतः । चैत्रस्य शुक्लपक्षे समर्थिता शुक्लत्रयोदश्याम् ॥ ७ ॥ यावज्जैनेश्वरो धर्मः समेरुवर्तते भुवि । भव्यैः पापठ्यमानोऽयं तावन्नन्दतु पुस्तकः ॥ ८ ॥ Muni Punyavijaya, Ed. New Catalogue of Sanskrit & Prakrit Manuscripts : Jesalmer Collection. (Ahmedabad - 1972 A.D.) P.68.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org