________________
२८६
संदर्भसूची :
१.
२.
जैन श्वेताम्बर गच्छों का संक्षिप्त इतिहास
नवपदपटीका प्रोक्ता श्रावकानन्दकारिणी नाम्ना ।
श्रीदेवगुप्तसूरिभिर्भावयितव्या प्रयत्नेन ॥ साधूपयोगाय मया प्रयासः कृतः स्वपुण्याय च एष धर्मः । अतोत्र मात्सर्यमभिप्रपद्य मा कोपि कार्षीन्मम पुण्यविघ्नं ॥
I
त्रिसप्तत्यधिकसहस्रे मासे कार्तिकसंज्ञिते । श्रीपार्श्वनाथचैत्ये तु दुर्गमये च पत्तने ॥ श्रावकानन्दटीकेयं नवपदस्य प्रकीर्तिता । जिनचन्द्रगणिनाम्ना तु गच्छे ऊकेशसंज्ञिते ॥ कक्काचार्यस्य शिष्येण कुलचन्द्रसंज्ञितेन । तेनैषा रचिता टीका निर्जरार्थं तु कर्म॑णां ॥ शिष्य-प्रशिष्यवंशस्योपकाराय जायते । टीकेयं नवपदस्यास्तु यथार्थेयं प्रवर्तिता ॥
C. D. Dalal, A Descriptive Catalogue of Manuscripts in the Jain Bhandars at Pattan, (Baroda - 1937 A. D.) Pp. 2-3. उत्सूत्रमत्र रचितं यदनुपयोगान्मया कुबोधाय ।
तच्छोधयन्तु सुधियः सदाशया मयि विधाय कृपाम् ॥ १ ॥ विलसद्गुणमणिनिकरः, पाठीनविराजितो नदीनश्च । जलनिधिरिवास्ति गच्छः श्रीमानूकेशपुरनिसृतः ॥ २ ॥
तत्रासीदतिशायिबुद्धिविभवश्चारित्रिणामग्रणीः, सिद्धान्तार्णवपारगः स भगवान् श्रीदेवगुप्ताभिधः ।
सूरिर्भूरिगुणान्वितो जिनमतादुद्धृत्य येन स्वयं,
श्रोतॄणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥ ३ ॥ तेनैव स्वपदप्रतिष्ठिततनुः श्रीकक्कसूरिप्रभुर्नानाशास्त्रप्रबोधबन्धुरमतिर्जज्ञे स विद्वानिह ।
मीमांसां जिनचैत्यवन्दनविधिं पञ्चप्रमाणीं तथा, बुध्वा यस्य कृतिं भवन्ति कृतिनः सद्बोधशुद्धाशयाः ॥ ४ ॥ तत्पादपद्मद्वयचञ्चरीकः, शिष्यस्तदीयोऽजनि सिद्धसूरिः । तस्माद्वभूवोज्ज्वलशीलशाली, त्रिगुप्तिगुप्तः खलु देवगुप्तः ॥ ५ ॥ अपिच-यं वीक्ष्य निःसीमगुणैरुपेतं, श्रीसिद्धसूरिः स्वपदे विधातुम् । श्रीमत्युपाध्यायपदे निवेश्य, प्रख्यापयामास जनस्य मध्ये ॥ ६ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org