SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ प्रथम अध्ययन : पुण्डरीक परिमण्डल इति वा, वर्तुल इति वा, त्र्यंस्र इति वा, चतुरस्र इति वा, आयत इति वा, षडंश इति वा, अष्टांश इति वा, कृष्ण इति वा, नील इति वा, लोहित इति वा, शुक्ल इति वा, सुरभिगन्ध इति वा, दुरभिगन्ध इति वा, तिक्त इति वा, कटुक इति वा, कषाय इति वा, आम्ल इति वा, मधुर इति वा, कर्कश इति वा, मृदुरिति वा, गुरुक इति वा, लघुक इति वा, शीत इति वा, उष्ण इति वा, स्निग्ध इति वा, रुक्ष इति वा, एवम् असन् असंवेद्यमानः येषां तत् स्वाख्यातं भवति । अन्यो जीवः, अन्यत् शरीरं, तस्मात् ते नो एवं उपलभन्ते, तद्यथानामकः कश्चित् पुरुषः कोशाद् असि अभिनिर्वर्त्य उपदर्शयेत्, अयम् आयुष्मन् ! असिः, अयं कोशः, एवमेव नास्ति कोऽपि पुरुषः अभिनिर्वर्त्य उपदर्शयिता अयमायुष्मन् ! आत्मा, इदं शरीरम् । तद्यथानामकः कोऽपि पुरुषः मुञ्जाद् ईषिकाम् अभिनिर्वर्त्य खलु उपदर्शयेद् अयमायुष्मान् ! मुजः, इयमीषिकाम् एवमेव नास्ति कोऽपि पुरुष: उपदर्शियताः अयमायुष्मन् ! आत्मा इदं शरीरम्, तद्यथानामकः कोऽपि पुरुषो मांसाद् अस्थि अभिनिवर्त्य खलु उपदर्शयेद् अयम् आयुष्मन् ! मांसः इदम् अस्थि एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अयमायुष्मन् ! आत्मा इदं शरीरम् । तद्यथानामकः कोऽपि पुरुषः करतलादामलकमभिनिर्वर्त्य उपदर्शयेद् इदम् आयुष्मन् ! करतलम् इदम् आमलकम्, एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता, अयमायुष्मन् ! आत्मा इदं शरीरम् । तद्यथानामकः कश्चित् पुरुषः दध्नः नवनीतम् अभिनिर्वर्त्य उपदर्शयेद् इदमायुष्मन् ! नवनीतम् इदं दधि एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अयमायुष्मन् आत्मा इदं शरीरम् । तद्यथा नामकः कोऽपि पुरुषः तिलेभ्यस्तैलमभिनिवर्त्य उपदर्शयेद् इदमायुष्मन् ! तैलम्, अयं पिण्याकः, एवमेव नास्ति कोऽपि पुरुषः उपदर्शयिता अयमायुष्मन् ! आत्मा इदं शरीरम्। तद्यथानामकः कोऽपि पुरुषः इक्षुतः क्षोदरसम् अभिनिर्वयं उपदर्शयेद् अयम् आयुष्मन् क्षोदरस: अयं क्षोद: एवमेव यावत् शरीरम् । तद्यथानामकः कोऽपि पुरुषः अरणितः अग्निम् अभिनिवर्त्य उपदर्शयेद् इयम् आयुष्मन् ! अरणिः, अयम् अग्निः एवमेव यावत् शरीरम् । एवमसन् असंवेद्यमानः येषां तत् स्वाख्यातं भवति, तद्यथा-अन्यो जीवः, अन्यत् शरीरम् तस्मात्ते मिथ्या। स हन्ता तं घातयत, क्षिणुत, दहत, पचत, आलुम्पत, विलुम्पत, सहसा कारयत, विपरामृशत, एतावान् जीव: नास्ति परलोकः । ते नो एवम् प्रतिसंवेदयन्ति, तद्यथा-क्रियां वा, अक्रियां वा, सुकृतं वा, दुष्कृतं वा, कल्याणं वा, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy