SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ३६ संस्कृत छाया ' इह खलु प्राच्यां वा प्रतीच्यां वा उदीच्यां वा दक्षिणस्यां वा सन्त्येकेमनुष्या भवन्ति, आनुपूर्व्या लोकमुपपन्नाः, तद्यथा आर्या एके, अनार्या एके, उच्चगोत्रा एके, नीचगोत्रा एके, कायवन्तः एके, ह्रस्ववन्तः एके, सुवर्णाः एके, दुर्वर्णा: एके, सुरूपाः एके, दुरूपाः वा एके । तेषां च मनुजानामेको राजा भवति, महाहिमवन्मलय मन्दर महेन्द्रसारः अत्यन्तविशुद्धराजकुलवंशप्रसूतः निरन्तर - राजलक्षणविराजितांगोपांग: बहुजनबहुमानपूजितः सर्वगुणसमृद्धः, क्षत्रियः, मुदितः, मूर्धाभिषिक्तः, मातृपितृसुजातः, दयाप्रियः, सीमाकर:, सीमाधरः, क्षेमं - करः, क्षेमंधरः, मनुष्येन्द्रः, जनपदपिता, जनपदपुरोहितः, सेतूकरः, केतुकरः, नरप्रवरः, पुरुषप्रवरः, पुरुषसिंहः, पुरुषाशीविषः पुरुषवरपुण्डरीकः, पुरुषवरगन्धहस्ती, आढ्यः, दीप्तः, वित्तः, विस्तीर्णविपुलभवनशयनासनयानवाह्नाकीर्णः, बहुधनबहुजातरूपरजतः आयोगप्रयोगसम्प्रयुक्तः, विच्छदितप्रचुर भक्तपान:, बहुदासीदास गोमहिषगवेलकप्रभूतः प्रतिपूर्णकोशकोष्ठागारायुधागारः, बलवान्, दुर्बलमित्रः, अवहतकंटकं निहतकंटकं, मर्दितकण्टकम्, उद्धतकण्टकं, अकण्टकं अवहतशत्रु, निहतशत्रु, मदितशत्रु, उद्धृतशत्रु, निर्जितशत्रु पराजितशत्रु व्यपगतदुर्भिक्ष मारीभयविप्रमुक्त, राजवर्णकः यथा औपपातिके यावत् प्रशान्त डिम्बडम्बरं राज्यं प्रसाधयन् विहरति । तस्य राज्ञः परिषद् भवति उग्रा:, उग्रपुत्राः, भोगाः, भोगपुत्राः, इक्ष्वाकवः, इक्ष्वाकुपुत्रा, ज्ञाताः, ज्ञातपुत्राः, कौरव्याः, कौरव्यपुत्राः, भट्टा:, भट्टपुत्राः, ब्राह्मणाः, ब्राह्मणपुत्राः, लेच्छिणः, लेच्छ्पुित्राः, प्रशास्तार:, प्रशास्तृपुत्राः, सेनापतयः, सेनापतिपुत्राः । तेषां च एकतमः श्रद्धावान् भवति कामं तं श्रमणाः वा ब्राह्मणाः वा सम्प्रधार्षुः, गमनाय, तत्र अन्यतरेण धर्मेण प्रज्ञापयितारः, वयमनेन धर्मेण प्रज्ञापयिष्यामः, तदेवं जानीहि भयत्रातः, यथा मया एष धर्मः स्वाख्यातः सुप्रज्ञप्तो भवति, तद्यथाऊर्ध्वं पादतलाद् अधः केशाग्रमस्तकात् तिर्यक् त्वक्पर्यन्तो जीवः एष आत्म पर्यवः कृत्स्नः । अस्मिन् जीवति जीवति, एष मृतः नो जीवति, शरीरे धरति धरति, विनष्टे च नो धरति । एतदन्तं जीवितं भवति । आदहनाय परैर्नीयते, अग्निध्मापिते शरीरे कपोतवर्णान्यस्थीनि भवन्ति । आसन्दीपंचमाः पुरुषाः ग्रामं प्रत्यागच्छन्ति । एवमसन् असंवेद्यमानः येषां स असत् असंवेद्यमानस्तेषां तत् स्वाख्यातं भवति । अन्यो भवति जीवं अन्यत् शरीरम, तस्मात् ते एवं ना विप्रतिवेदयन्ति अयमायुष्मन् ! आत्मा दीर्घ इति वा, ह्रस्व इति वा, J Jain Education International " सूत्रकृतांग सूत्र For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy