________________
चतुर्थ अध्ययन : प्रत्याख्यान-क्रिया
२८६
ऽप्रत्याख्यातपापकर्मा चाऽपि भवति एवं यावत् त्रसकायेष्वपि भणितव्यम् । स एकतयः षड्जीवनिकायैः कृत्यं करोत्यपि, कारयत्यपि, तस्य खल्वेवं भवतिएवं खलु षड्जीवनिकायैः कृत्यं करोम्यपि कारयाम्यपि, नो चैव खलु तस्यैवं भवति–एभिवा एभिर्वा, स च तैः षड्भिर्जीवनिकायैः यावत् कृत्यं करोत्यपि कारयत्यपि। स च तेभ्यः षड्जीनिकायेभ्यः असंयताविरताप्रतिहताप्रत्याख्यातपापकर्मा तद्यथा-प्राणातिपाते यावद मिथ्यादर्शनशल्ये। एष खलु भगवता आख्यातोऽसंयतोऽविरतोऽप्रतिहताऽप्रत्याख्यातपापकर्मा स्वप्नमपि अपश्यन् पापं च स करोति । स संज्ञिदृष्टान्तः ।
स कः असंज्ञिदष्टान्तः ? ये इमे असंज्ञिनः प्राणाः तद्यथा-पृथिवीका यकाः यावद् वनस्पतिकायिकाः षष्ठा एकतये त्रसाः प्राणाः येषां न तर्क इति वा, संज्ञा इति वा, प्रज्ञा इति वा, मन इति वा, वाग्वा, स्वयं वा कर्तु मन्यैर्वाकारयितु, कुर्वन्तं वा समनुज्ञातु, तेऽपि बाला: सर्वेषां प्राणानां यावत् सर्वेषां सत्त्वानां दिवा वा रात्रौ वा सुप्ताः वा जाग्रतो वा अमित्रभताः मिथ्यासंस्थिताः नित्यं प्रशठव्यतिपातचित्तदण्डा:, तद्यथा-प्राणातिपाते यावन्मिथ्यादर्शनशल्ये, इत्येवं यावन् नो चैव मनो, नो चैव वाक् प्राणानां यावत् सर्वेषां सत्त्वानां दुःखनतया, शोचनतया, जूरणतया, तेपनतया, पिट्टनतया, परितापनतया, ते दु:खन-शोचन यावत् परितापन-वध-बन्धन-परिक्लेशेभ्योऽप्रतिविरताः भवन्ति । इति खलु तेऽसंज्ञिनोऽपि सत्त्वाः अहनिशं प्राणातिपाते उपाख्यायन्ते यावदनिशं परिग्रहे उपाख्यायन्ते यावन्मिथ्यादर्शनशल्ये उपाख्यायन्ते, (एवं भूतवादी) सर्वयोनिकाः अपि खलु सत्त्वाः संज्ञिनो भूत्वा असंज्ञिनो भवन्ति, असंज्ञिनो भूत्वा संज्ञिनो भवन्ति । भूत्वा संज्ञिनोऽथवाऽसंज्ञिनस्तत्र तेऽविविच्य अविधूय असमुच्छिद्य, अननुताप्य, असंज्ञिकायाद् वा संज्ञिकायं संक्रामन्ति, संज्ञिकायाद् वा असंज्ञिकायं संक्रामन्ति, संज्ञिकायाद् वा संज्ञिकायं संक्रामन्ति, असंज्ञिकायाद् वा असंज्ञिकायं संक्रामन्ति । ये एते संज्ञिनो वा असंज्ञिनो वा सर्वे ते मिथ्याचाराः नित्यं प्रशठव्यतिपातचित्तदण्डाः तद्यथा प्राणातिपाते यावन् मिथ्यार्शनशल्ये । एवं खलु भगवताऽऽख्यातोऽसंयतोऽविरतोऽप्रतिहताऽप्रत्याख्यातपापकर्मा सक्रियोऽसंवृतः एकान्तदण्डः, एकान्तबालः, एकान्तसुप्त: । स बालः अविचारमनोवचनकायवाक्यः स्वप्नमपि न पश्यति, पापं च स कर्म करोति ।। सू० ६६ ।।।
अन्वयार्थ (आयरिए आह) आचार्यश्री पूर्वोक्त प्रश्न का उत्तर देते हुए कहते हैं-(तत्थ खलु भगवया दुवे दिलैंते पण्णत्ते, तं जहा-सन्निदिहते य असन्निदिळेंते य) इस विषय में तीर्थंकरदेव ने दो दृष्टान्त कहे हैं । वे इस प्रकार हैं-एक तो संज्ञिदृष्टान्त है और
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org