SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांग सूत्र अहाबीएणं अहावगासेणं इत्थोए जहा उरपरिसप्पाणं नाणतं ते जोवा डहरासमाणा माउगात्तसिणेहमाहारेंति, आणुपुव्वेणं वुड्ढा वणस्सइकायं तस थावरे य पाणे ते जीवा आहारेंति पुढविसरीरं जाव संतं । अवरेऽवि य गं तेसि णाणाविहाणं खचरपंचिदियतिरिक्खजोणियाणं चम्मपक्खीणं जावमक्खायं ॥ सू० ५७ ॥ संस्कृत छाया अथाऽपरं पुराख्यातम् नानाविधानां जलचराणां पंचेन्द्रियतिर्यग्योनिकानाम् । तद्यथा--मत्स्यानां यावत् सुसुमाराणां, तेषां च खलु यथाबीजेन यथाऽवकाशेन स्त्रियाः पुरुषस्य च कर्मकृतस्तथैव यावत् ततः एकदेशेन ओजमाहारयन्ति । आनुपूर्व्या वृद्धाः परिपाकमनुप्रपन्नास्ततः कायादभिनिवर्तमानाः अण्डमेके जनयन्ति पोतमेके जनयन्ति, तस्मिन् अण्डे उद्भिद्यमाने स्त्रियमेके जनयन्ति, पुरुषमेके जनयन्ति, नपुंसकमेके जनयन्ति । ते जीवाः दहराः सन्तः अपां स्नेहमाहारयन्ति आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रसस्थावरांश्च प्राणान् ते जीवाः आहारयन्ति पृथिवीशरीरं यावत् । अपराण्यपि च खलु तेषां नानाविधानां जलचरपंचेन्द्रियतिर्यग्योनिकानां मत्स्यानां यावत् सुसुमाराणां शरीराणि नानावर्णानि यावदाख्यातानि। अथाऽपरं पुराख्यातम् नानाविधानां चतुष्पदस्थलचरपंचेन्द्रियतिर्यग्योनिकानां, तद्यथा-एकखुराणां द्विखुराणां गण्डीपदानां सनखपदानां, तेषाञ्च यथाबीजेन यथाऽवकाशेन स्त्रियाः परुषस्य च कर्मकृतः यावन्मथनप्रत्ययिकः संयोगः समुत्पद्यते । ते द्वयोरपि स्नेहं संचिन्वन्ति, तत्र जीवाः स्त्रीतया पुरुषतया यावत् विवर्तन्ते। ते जीवाः मातुरातवं पितुः शुक्रमेवं यथा मनुष्याणां स्त्रियमप्येके जनयन्ति, पुरुषमपि नपुंसकमपि । ते जीवाः दहराः सन्तः क्षीरं सपिराहारयन्ति । आनुपूर्व्या वृद्धाः वनस्पतिकायं त्रसस्थावरांश्च प्राणान् । ते जीवा आहारयन्ति पृथिवीशरीरं यावत् । अपराण्यपि च खलु तेषां नानाविधानां चतुष्पद-स्थलचर-पंचेन्द्रियतिर्यग्योनिकानाम् एकखुराणां यावत् सनखपदानां शरीराणि नानावर्णानि यावदाख्यातानि । __ अथाऽपरं पुराख्यातम् - नानाविधानामुरःपरिसर्पस्थलचरपंचेन्द्रिय तिर्यग्योनिकानाम् तद्यथा-अहीनामजगराणामाशालिकानां महोरगाणाम् । तेषां च यथाबीजेन यथाऽवकाशेन च स्त्रियाः पुरुषस्य यावद् अत्र मैथुनमेवं तच्चैवाज्ञप्तम् । अण्डमेके जनयन्ति, पोतमेके जनयन्ति । तस्मिन् अण्डे उद् For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy