SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ द्वितीय अध्ययन : क्रियास्थान शकटरथयानयुग्यगिल्लिथिल्लिस्यन्दनशयनासनयानवाह्नभोग्य भोजनप्रविस्तर विधितः अप्रतिविरताः यावज्जीवनम् । सर्वतः क्रय-विक्रय माषार्धमाषरूपक संव्यवहारादप्रतिविरता यावज्जीवनम् । सर्वस्मात् हिरण्यसुवर्णधनधान्यमणिमौक्तिकशंखशीलप्रवालादप्रतिविरताः यावज्जीवनम् । सर्वस्मात्कूटतुलकूटमानादप्रतिविरताः यावज्जीवनम् । सर्वस्मादारम्भसमारम्भादप्रतिविरताः यावज्जीवनम् । सर्वतः पचनपाचनतोऽप्रतिविरताः यावज्जीवनम् । सर्वतः कुट्टनपिट्टनतर्जनताडन वधबन्धन परिक्लेशादप्रतिविरताः यावज्जीवनम् । ये याव दन्ये तथाप्रकाराः सावद्याः अबोधिकाः कर्मसमारम्भाः परप्राणपरितापनकराः य अनार्यः क्रियन्ते ततोऽप्रतिविरताः यावज्जीवनम् । १७५ तद्यथानाम केचित्पुरुषाः कलममसूरतिलमुद्गमाषनिष्पावकुलत्थालिसन्दकपरिमन्थादिकेषु अत्यन्त क्रूरा: मिथ्यादण्डं प्रयुञ्जते, एवमेव तथाप्रकाराः पुरुषजाताः तित्तिरवर्ती कलावक कपोत कपिंजल मृगमहिषवराहग्राहगोधाकूर्मसरिसृपादिकेषु अत्यन्त क्रूरा: मिथ्यादण्डं प्रयुञ्जन्ति । याऽपि च तेषां बाह्य परिषद् भवति, तद्यथा - दासो वा प्रेष्यो वा, भृतको वा, भागिको वा, कर्मकरो वा, भोगपुरुषो वा, तेषां चान्यतरस्मिन् लघुकेऽप्यपराधे स्वयमेव गुरुकं दण्डं निर्वर्तयन्ति तद्यथा - इमं दण्डयत, इमं मुडयत, इमं तर्जयत, इमं ताडयत, इमं पृष्ठबन्धनं कुरुत, इमं निगडबन्धनं कुरुत इमं हाडीबन्धन कुरुत, इमं चारकबंधनं कुरुत, इमं निगडयुगलं संकोचितमोटितं कुरुत, इमं हस्तछिन्नकं कुरुत इमं पादछिन्नकं कुरुत इमं कर्णछिन्नकं कुरुत, इमं नासिकोष्ठशीर्षमुखच्छिन्नकं कुरुत, इमं वेदक च्छिन्नांगच्छिन्नकं पक्षस्फोटितं कुरुत, इम नयनोत्पाटितं कुरुत इमं दशनोत्पाटितं वृषणोत्पाटितं जिह्वोत्पाटितं अवलम्बितं कुरुत धर्षितं कुरुत, घोलितं कुरुत, शूलार्पितं कुरुत, शूलाभिन्नकं कुरुत, क्षारवर्तिनं कुरुत, वध्यवर्तिनं कुरुत, सिंहपुच्छितकं कुरुत, वृषभपुच्छितकं कुरुत, दावाग्नि दग्धांगं कुरुत, काकालीमांसखादितांगं भक्तपान निरुद्धकं यावज्जीवनम् वधबन्धनं कुरुत, इममशुभेन कुमारेण मारयत । याऽपि च तस्य आभ्यन्तरिकी परिषद् भवति तद्यथा - माता वा, पिता वा भ्राता वा, भगिनी वा भार्या वा, पुत्राः वा, दुहितरो वा, स्नुषा वा तेषां च अन्यतरस्मिन् लघुकेऽप्यपराधे स्वयमेव गुरुक दण्डं निर्वर्तयन्ति, शीतोदकविकटे उत्क्षेप्तारो भवन्ति, यथा मित्रदोषप्रत्ययिके यावत् अहिताः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy