________________
१६०
सूत्रकृतांग सूत्र परितापनबधबन्धनपरिक्लेशेभ्योऽप्रतिविरता: भवन्ति, ते महता आरंभेण महता समारंभेण ते महद्भ्यामारम्भासमारम्भाभ्यां विरूपरूपैः पापकर्मकृत्यैः उदाराणां मानुष्यकानां भोगानां भोक्तारो भवन्ति, तद्यथा-अन्नमन्नकाले, पानं पानकाले, वस्त्रं वस्त्रकाले, लयनं लयनकाले, शयनं शयनकाले सपूर्वापरञ्च स्नातः कृतबलिकर्मा कृतकौतुकमंगलप्रायश्चित्तः शिरसा स्नातः कण्ठे मालाकृत् आबिद्धमणिसुवर्णः कल्पितमालामुकुटी प्रतिवद्धशरीरः प्रतिलम्बितश्रोणिसूत्रकमाल्यदामकलापः अहत वस्त्रपरिहितःचन्दनोक्षितगात्रशरीरःमहत्यां विस्तीर्णायां कूटागारशालायां महति विस्तीर्णे सिंहासने स्त्रीगुल्मसंपरिवृतः सार्वरात्रेण ज्योतिषा ध्यायमानेन महताहतनाट्यगीतवादित्रतंत्रीतलतालत्रुटिकघनमृदंगपटु प्रवादितरवेण उदारान् मानुष्यकान् भोगान् भुंजानो विहरति ।
तस्यैकमप्याज्ञापयतः यावच्चत्वारः पञ्च वा जनाः अनुक्ताश्चैवाभ्युत्तिष्ठन्ति । भणत देवानुप्रिया: ! किं कुर्मः, किमाहरामः, किमुपनयामः, किमातिष्ठामः, किं भवतां हितमिष्टं, किं भवत: आस्यस्य स्वदते ? तमेव दृष्ट्वा अनार्याः एवं वदन्ति–देवः खलु अयं पुरुषः, देवस्नातकः खलु अयं पुरुषः, देवजीवनीयः खलु अयं पुरुषः, अन्येऽप्यन्येनमुपजीवन्ति । तमेव दृष्ट्वा आर्या वदन्ति-अभिक्रान्तक्रूरकर्मा खलु अयं पुरुषः, अतिधर्तः, अत्यात्म रक्षः, दक्षिणगामी नैरयिकः कृष्णपाक्षिकः आगमिष्यति दुर्लभबोधिकोऽपि भविष्यति ।
___ इत्येतस्य स्थानस्य उत्थिता वैके अभिगृध्यन्ति, अनुत्थिताः वैके अभिगृध्यन्ति, अभिझंझाकुलाः, वैके अभिगृध्यन्ति । एतत् स्थानमनार्यमकेवलमप्रतिपूर्णमनैयायिकमसंशुद्धमशल्यकर्त्तनम् असिद्धिमार्गममुक्तिमार्गमनिर्वाणमार्गमनिर्याणमार्गमसर्वदुःखप्रहीणमार्गम् एकान्तमिथ्या असाधु एष खल प्रथमस्य स्थानस्य अधर्मपक्षस्य विभंग एवमाख्यातः ।।सू०३२।।
अन्वयार्थ (से एगइओ परिसामझाओ उत्तिा अहमेयं हणामीत्ति कटु तित्तिरं वा, वट्टगं वा, लावगं वा, कवोयगं वा, कविजलं वा अन्नयर वा तसं पाणं हता जाव उवक्खाइत्ता भवइ) कोई व्यक्ति सभा में से उठकर प्रतिज्ञा करता है कि 'मैं इसी प्राणी को मारूंगा।' तत्पश्चात् वह तीतर, बतक, लावक, कबूतर, कपिजल या किसी अन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org