SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ द्वितीय अध्ययन : क्रियास्थान १५६ ___ स एकतयः केनाप्यादानेन विरुद्धः सन् अथवा खलदानेन सुरास्थालकेन श्रमणानां वा, माहनानां वा, छत्रकं वा, दण्डकं वा, भाण्डकं वा, मात्र वा, यष्टिकां वा, वृसी वा, चेलकं वा, प्रच्छादनपटी वा, चर्मकं वा, छेदनकं वा, चर्मकोशिकां वा, स्वयमेव अपहरति यावत् समनुजानाति, इति समहद्भिः यावद् उपख्यापयिता भवति । स एकतय: नो विमर्षति, तद्यथा-गाथापतीनां वा, गाथापतिपुत्राणां वा, स्वयमेवाग्निकायेन ओषधीः धमति यावद् धमन्तमप्यन्यं समनुजानाति, इति स महद्भिर्यावदुपख्यापयिता भवति । स एकतयः नो विमर्षति, तद्यथा--गाथापतीनां वा, गाथापतिपुत्राणां वा, उष्ट्राणां गवां घोटकानां गर्दभाणां वा स्वयमेव अवयवान् कल्पयति, अन्येनापि कल्पयति अन्यमपि कल्पयन्तं समनुजानाति । स एकतयः नो विमर्षति, तद्यथा-गाथापतीनां वा, गाथापतिपुत्राणां वा, उष्ट्रशालाः वा यावद् गर्दभशालाः वा कण्टकशाखाभिः परिपिधाय स्वयमेव अग्निकायेन ध्मापयति यावत् समनुजानाति । ___ स एकतय: नो विमर्षति, तद्यथा-गाथापतीनां वा, गाथापतिपुत्राणां वा यावद् मौक्तिकं स्वयमेवापहरति यावत् समनुजानाति । स एकतयः नो विमर्षति, तद्यथा-श्रमणानां वा, माहनानां वा, छत्रक वा, दण्डकं वा, यावत् चर्मच्छेनकं वा स्वयमेव अपहरति यावत् समनुजानाति इति स महद्भिर्यावदुपख्यापयिता भवति । ___ स एकतयः श्रमणं वा, माहनं वा दृष्ट्वा नानाविधैः पापकर्मभिरात्मानमुपख्यापयिता भवति, अथवा अप्सरसः आस्फालयिता भवति अथवा परुषं वदिता भवति कालेनापि तस्यानुप्रविष्टस्य अशनं वा पानं वा यावन्नो दापयिता भवति । ये इमे भवन्ति व्युन्न मन्तः भाराकान्ता: अलसका: वृषलका: कृपणका: श्रमणकाः प्रव्रजन्ति । ते इदमेव जीवितं धिग्जीवितं सम्प्रतिवृहन्ति । नापि ते परलोकस्य अर्थाय किञ्चिदपि श्लिष्यन्ति, ते दुःख्यन्ति, ते शोचन्ते, ते जूरयन्ति, ते तिप्यन्ति, ते पिट्टन्ति, ते परितप्यन्ति, ते दु:खनजूरणशोचनतेपनपिट्टन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy