________________
सूत्रकृतांग सूत्र
इच्चेयस ठाणस्स उट्ठिया वेगे अभिगिज्झति अणुट्ठिया वेगे अभिगिज्झति अभिझंझाउरा वेगे अभिगिज्झंति, एस ठाणे अणारिए अकेवले अप्प - sy अया असुद्ध असलगत्तणे असिद्धिमग्गे अमुत्तिमग्गे अनिव्वाणमग्गे अणिज्जाणमग्गे असण्यदुक्खपहीणमग्गे एगंतमिच्छे असाहू एस खलु पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे एवमाहिए | सू० ३२ ॥
१५८
संस्कृत छाया
स एकतयः पर्षन्मध्यादुत्थाय अहमेतं हनिष्यामीति कृत्वा तित्तिरं वा, वर्तकं वा, लावकं वा, कपोतकं वा, कपिञ्जलं वा, अन्यतरं वा, त्रसं प्राणं हंता यावद् उपख्यापयिता भवति ।
स एकतयः केनाप्यादानानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गृहपतेरथवा गृहपतिपुत्राणां वा स्वयमेव अग्निकायेन शस्यानि ध्मापयति, अन्येनापि अग्निकायेन शस्यानि ध्मापयति, अग्निकायेन शस्यानि ध्मापयन्तमन्यं वा समनुजानाति, इति स महद्भिः पापैः कर्मभिरात्मानमुपख्यापयिता भवति ।
स एकतयः केनाप्यादानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां गाथापतिपुत्राणां वा, उष्ट्राणां, गवां, घोटकानां, गर्दभाणां स्वयमेव अंगादीन् कल्पयति, अन्येनापि कल्पयति, कल्पयन्तं वा अन्यं समनुजानाति, इति महद्भिर्यावद् भवति ।
स एकतयः केनाप्यादानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां वा, गाथापतिपुत्राणां वा, उष्ट्रशाला: वा, गोशाला: वा, घोटकशाला: वा, गर्दभशाला: वा, कण्टकशाखाभिः परिपिधाय स्वयमेवाग्निकायेन धमति, अन्येनापि ध्मापयति, धमन्तमप्यन्यं समनुजानाति, इति स महद्भिर्यावद् भवति ।
स एकतयः केनाप्यादानेन विरुद्धः सन् अथवा खलदानेन अथवा सुरास्थालकेन गाथापतीनां वा गाथापतिपुत्राणां वा कुण्डलं वा, मणि वा, मौक्तिकं वा स्वयमेव अपहरति अन्येनाप्यपहारयति अपहरन्तमप्यन्यं समनुजानाति इति स महद्भिः यावद् भवति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org