SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतांग सूत्र वा मतेन वा विज्ञातेन वा अनेन वा सुचरिततपोनियमब्रह्मचर्यवासेन वा अनेन वा यात्रामात्रावृत्तिना धर्मेण इतश्च्यतः प्रेत्य देवः स्याम् । कामभोगाः वशवर्तिनः सिद्धो वा अदुःखः अशुभो वा अत्राऽपि स्यादत्राऽपि न स्यात् । स भिक्ष : शब्देषु अमूच्छितः रूपेषु अमूच्छितः गन्धेषु अमूच्छितः रसेषु अमूच्छितः स्पर्शेषु अमूच्छितः, विरतः क्रोधात् मानात् मायायाः लोभात् प्रेम्णः द्वषात् कलहात् अभ्याख्यानात् पैशुन्यात् परपरिवादात् अरतिरतिभ्याम् मायामृषाभ्याम् मिथ्यादर्शनशल्याद इति स महत: आदानात उपशान्तः उपस्थितः प्रतिविरतः स भिक्षुः । ये इमे त्रसस्थावराः प्राणा: भवन्ति, तान् न स्वयं समारभते, नाऽन्यैः समारम्भयति, अन्यान् समारभतोऽपि न समनुजानाति, इति स महत: आदानात् उपशान्तः उपस्थितः प्रतिविरतः स भिक्षुः । ये इमे कामभोगाः सचित्ता वा अचित्ता वा तान् न स्वयं प्रतिग्रह्णाति नाऽन्येन प्रतिग्राहयति, अन्यमपि पतिगृह्णन्तं न समनुजानाति इति स महतः आदानात् उपशान्तः उपस्थितः प्रतिविरतः स भिक्षः । यदपि चेदं साम्परायिकं कर्म क्रियते, न तत् स्वयं करोति, नाऽन्येन कारयति, अन्यमपि कुर्वन्तं न समनुजानाति, इति स महतः आदानात् उपशान्तः उपस्थितः प्रतिविरतः । स भिक्ष : जानीयाद् अशनं वा पानं वा खाद्य वा स्वाद्यं वा एतत्प्रतिज्ञाया एकं सार्मिकं समुद्दिश्य प्राणान् भूतानि जीवान् सत्त्वान् समारभ्य समुद्दिश्य क्रीतं उद्यतकं आच्छेद्यं अनिसृष्टम् अभ्याहृतम् आहृत्योद्देशिकं तच्चेद्दत्त स्यात् तन्नो स्वयं भुंजीत नाऽन्येन भोजयेत्, अन्यमपि भुंजानं न समनुजानीयात् इति स महतः आदानात् उपशान्तः उपस्थितः प्रतिविरतः। स भिक्षुः अथ पुनरेवं जानीयात् तद् विद्यते तेषां पराक्रमे यदर्याय ते इमे स्युः । तद्यथा आत्मनः पुत्राद्यर्थाय यावदादेशाय पृथक् प्रग्रहणार्थं श्यामाशाय प्रातराशाय सन्निधिसन्निचयः क्रियते एतेषां मानवानां भोजनाय तत्र भिक्षुः परकृतं, परनिष्ठितमुद्गमोत्पादनैषणाशुद्ध शस्त्रातीतं शस्त्रपरिणामितं अविहिसितम् एषितं वैषिकं सामुदानिकं प्राप्तमशनं कारणार्थाय प्रमाणयुक्तम् अक्षोपाङजनवणलेपनभूतं संयमयात्रामात्रावृत्तिकं बिलमिव पन्नगभूतेनाऽत्मना आहारमाहरेत् । अन्नमन्नकाले पानं पानकाले वस्त्रं वस्त्रकाले लयनं लयनकाले शयनं शयनकाले । स भिक्षुः मात्राज्ञः अन्यतरां दिशमनुदिशं वा प्रतिपन्नो धर्ममाख्यापयेत् विभजेत् कोर्तयेत् । उपस्थितेषु वा अनुपस्थितेषु वा शुश्रूषमाणेषु प्रवेदयेत् शान्ति विरतिम् उपशमं निर्वाणं शौचम् आर्जवं मार्दवं लाघवं अनतिपातिकम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003600
Book TitleAgam 02 Ang 02 Sutrakrutang Sutra Part 02 Sthanakvasi
Original Sutra AuthorSudharmaswami
AuthorHemchandraji Maharaj, Amarmuni, Nemichandramuni
PublisherAtmagyan Pith
Publication Year1981
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_sutrakritang
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy