________________
परिशिष्ट - ५ : श. १६ : उ.१०, ११ : सू.१२३ - १२५ ४८२
धानानन्तरं प्राकारतद्द्द्वारोपकारिकालयनप्रासादावतंसकसुधर्मसभाचैत्यभवनो पपातसभाहदाभिषेकसभाऽलङ्कारिकसभाव्यवसायसभादीनां प्रमाणं स्वरूपं च तावद्वाच्यं यावद्वलिपीठस्य, तच्च स्थानान्तरादवसेयं, 'उववाओ' त्ति उपपातसभायां बलेरुपपातवक्तव्यता वाच्या, सा चैवं - 'तेणं कालेणं तेणं समएणं बली वइरोयणिंदे २ अहुणोववन्नमेत्तए समाणे पंचविहार पज्जत्तीए पज्जत्तिभावं गच्छइ' इत्यादि, 'जाव आयरक्ख' त्ति इह यावत्करणादभिषेकोऽलङ्कारग्रहणं पुस्तकवाचनं सिद्धायतनप्रतिमाद्यर्चनं सुधर्मसभागमनं तत्रस्थस्य च तस्य सामानिका अग्रमहिष्यः पर्षदोऽनीकाधिपतयः आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यं । एतद्वक्तव्यताप्रतिबद्धसमस्तसूत्रातिदेशायाह -'सव्वं तहेव निरवसेसं' ति, सर्वथा साम्यपरिहारार्थमाह- 'नवर' मित्यादि, अयमर्थः - चमरस्य सागरोपमं स्थितिः प्रज्ञप्सेत्युक्तं बलेस्तु सातिरेकं सागरोपमं स्थितिः प्रज्ञप्तेति वाच्यमिति ॥
षोडशशते नवमः ॥ १६-९॥
Jain Education International
दशम उद्देशकः
नवमोद्देशके बलेर्वक्तव्यतोक्ता, बलिश्चावधिमानित्यवधेः स्वरूपं दशमे उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्१६ / १२३. 'कविहे ण' मित्यादि, 'ओहीपयं' ति प्रज्ञापनायास्त्रयस्त्रिंशत्तमं तच्चैवं- 'तं जहा - भवपच्चइया खओवसमिया य, दोहं भवपच्चइया, तं जहा - देवाण य नेरइयाण य, दोन्ह खओवसमिया, तं जहा - माणुस्साणं पंचिंदियतिरिक्खजोणियाण य, इत्यादीति ।
षोडशशते दशमः ॥ १६-१०॥
एकादशम उद्देशकः
दशमेऽवधिरुक्तः, एकादशे त्ववधिमद्विशेष उच्यते - इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् -
१६/ १२५. 'दीवे' त्यादि ।
[]
भगवती वृत्
एवमन्यदप्युद्देशकत्रयं पाठयितव्यमिति ॥ षोडशशतं वृत्तितः परिसमाप्तमिति ॥
सम्यक् श्रुताचारविवर्जितोऽप्यहं, यदप्रकोपात्कृतवान् विचारणाम् । अविघ्नमेतां प्रति षोडशं शतं, वाग्देवता सा भवताद्वरप्रदा ॥ १ ॥
For Private & Personal Use Only
www.jainelibrary.org