SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति द्वीन्द्रियाणां तु रत्नप्रभाऽधस्तनचरिमान्ते मारणान्तिकसमुद्घातेन गतानामेव तत्र देश एव संभवति न देशाः तस्यैकप्रतररूपत्वेन देशानेकत्वाहेतुत्वादिति तेषां तत्तत्र मध्यमरहितमेवेति, अत एवाह - 'नवरं देसे' इत्यादि, ' चत्तारि चरमांत' त्ति पूर्वपश्चिमदक्षिणोत्तररूपाः 'उवरिमहेट्ठिल्ला जहा रयणप्पभाए हेट्ठिल्ले' त्ति शर्कराप्रभाया उपरितनाधस्तनचरमान्तौ रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तेर्मध्यमभङ्गरहितं पञ्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रयं, प्रदेशचिन्तायां तु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयं अजीवचिन्तायां तु रूपिणां चतुष्करूपिणां त्वद्वासमयस्य तत्राभावेन षट्कं वाच्यमिति भावः । अथ शर्कराप्रभातिदेशेन शेषपृथिवीनां सौधर्मादिदेवलोकानां ग्रैवेयक विमानानां च प्रस्तुतवक्तव्यतामाह-' एवं जाव अहेसत्तमाए' इत्यादि, ग्रैवेयकविमानेषु तु यो विशेषस्तं दर्शयितुमाह- 'नवर' मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावात् उपरितनाधस्तनचरमान्तयोः पञ्चेन्द्रियेषु देशानाश्रित्य भङ्गकत्रयं संभवति, ग्रैवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद् द्वीन्द्रियादिष्विव पञ्चेन्द्रियेष्वपि मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति । ४८१ चरमाधिकारादेवेदमपरमाह--- १६ / ११६. 'परमाणु' इत्यादि, इदं च गमनसामर्थ्यं परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति । इति क्रिया अनन्तरं परमाणोः क्रियाविशेष उक्त धिकारादिदमाह१६/११७. 'पुरिसे ण मित्यादि, 'वासं वासइ' वर्षो मेघो वर्षीत नो वा वर्षो वर्षतीति ज्ञापनार्थमिति शेषः, अचक्षुरालोके हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यते इतिकृत्वा हस्तादिकं आकुण्टयेद्वा प्रसारयेद्वाऽऽदित एवेति । आकुण्टनादिप्रस्तावादिदमाह १६/११८,११९. 'देवे ण' मित्यादि, 'जीवाणं आहारोवचिया पोग्गल' त्ति जीवानां जीवानुगता इत्यर्थः आहारोपचिता-आहाररूपतयोपचिताः 'बोंदिचिया पोग्गल' त्ति अव्यक्तावयवशरीररूपतया चिताः ' कडेवरचिया पोग्गल' त्ति शरीररूपतया चिताः, उपलक्षणत्वाच्चास्य उच्छासचिताः पुद्गला इत्याद्यपि द्रष्टव्यं, अनेन चेदमुक्तं - जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात्, तथा ' पुग्गलामेव पप्प' त्ति पुद्गलानेव 'प्राप्य' आश्रित्य जीवानां च 'अजीवाण य' पुद्गलानां च गतिपर्यायो गतिधर्मः 'आहिज्जइ' ति आख्यायते, इदमुक्तं भवति यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके नैव सन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानां गतिर्नास्ति, Jain Education International परिशिष्ट-५ : श. १६ : उ. ६ : सू. ११६- १२१ तदभावाच्चालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वा न प्रभुरिति ॥ षोडशशतेऽष्टमः ॥ १६-८ ॥ नवम उद्देशकः अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्१६ / १२१. 'कहि ण' मित्यादि, 'जहेव चमरस्स' त्ति यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्म्मसभास्वरूपाभिधायकं सूत्रं तथा बलेरपि वाच्यं तच्च तत एवावसेयम्, 'एवं पमाणं जहेव तिगिच्छिकूडस्स' त्ति यथा चमरसत्कस्य द्वितीयशताष्टमोद्देशकाभिहितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापि रुचकेन्द्रस्य वाच्यं, एतदपि तत एवावसेयं, 'पासायवडेंसगस्सवि तं चेव पमाणं' ति यत्प्रमाणं चमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोत्पातपर्वतोपरिवर्त्तिनः प्रासादावतंसकस्य तदेव बलिसत्कस्यापि रुचकेन्द्राभिधानोत्पातपर्वतोपरिवर्त्तिनस्तस्य तदपि द्वितीयशतादेवावसेयं, 'सिंहासणं सपरिवारं बलिस्स परिवारेणं' ति प्रासादावतंसकमध्यभागे सिंहासनं बलिसत्कं बलिसत्कपरिवारसिंहासनोपेतं वाच्यमित्यर्थः तदपि द्वितीयशताष्टमोद्देशक विवरणोक्तचमरसिंहासनन्यायेन वाच्यं केवलं तत्र चमरस्य सामानिकासनानां चतुःषष्टिः सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणान्युक्तानि बस्तु सामानिकासनानां षष्टिः सहस्राणि आत्मरक्षासनानां तु तान्येव चतुर्गुणानीत्येतावान् विशेषः, 'अट्ठो तहेव नवरं रुयगिंदप्पभाई' ति यथा तिगिच्छिकूटस्य नामान्वर्थाभिधायकं वाक्यं तथाऽस्यापि वाच्यं केवलं तिगिच्छिकूटान्वर्थप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाण्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तं इह तु रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यं, रुचकेन्द्रस्तु रत्नविशेष इति तत्पुनरर्थतः सूत्रमेवमध्येयं - ' से केणद्वेणं भंते! एवं वुच्चइ रुयगिंदे २ उपायपव्वए ?, गोयमा! रुयगिंदे णं बहूणि उप्पलाणि पउमाई कुमुयाई जाव रुयगिंदवण्णाई रुयगिंदलेसाइं रुयगिंदप्पभाई, से तेणट्टेणं रुयगिंदे २ उप्पायपव्वए' त्ति 'तहेव जाव' त्ति यथा चमरचञ्चाव्यतिकरे सूत्रमुक्तमिहापि तथैव वाच्यं, तच्चेदं - ' पणपन्नं कोडीओ पन्नासं च सयसहस्साई पन्नासं च सहस्साई वीइवइत्ता इमं च रयणप्पभं पुढविं' ति 'पमाणं तहेव' त्ति यथा चमरचञ्चायाः, तच्चेदम्- 'एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई सोलस य सहस्साई दोन्निय सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसं च धणुस तेरस य अंगुलाई अर्द्धगुलयं च किंचिविसेसाहियं परिक्खेवेणं पण्णत्तं' 'जाव बलिपेढस्स' त्ति नगरीप्रमाणाभि For Private & Personal Use Only www.jainelibrary.org
SR No.003596
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy