________________
परिशिष्ट - ५ : श. १६ : उ. ८ : सू. १३३-११५
एकेन्द्रियषूत्पित्सुर्मारणान्तिक-समुद्घातं गतस्तमाश्रित्यायं विकल्प इति । ' एवं जहे' त्यादि, यथा दशमशते आग्नेयीं दिशमाश्रित्योक्तं तथेह पूर्वचरमान्त- माश्रित्य वाच्यं, तच्चेदम्- 'अहवा एगिंदियदेसा य बेइंदियस्स य देसा अहवा एगिंदियदेसा य बेइंदियाण य देसा अहवा एगिंदियदेसा य तेइंदियरस य देसे' इत्यादि, यः पुनरिह विशेषस्तद्दर्शनायाह'नवरं अनिंदियाण' मित्यादि, अनिन्द्रियसम्बन्धिनि देशविषये भङ्गकत्रये 'अहवा एगिंदियदेसा य अणिदियस्स देसे' इत्येवंरूपः प्रथमभङ्गको दशमशते आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो, यतः केवलिसमुद्घाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृत लोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्म्मा काशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा अरूपिण उक्ताः लोकस्य पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षड्विधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत्र एव तद्भावात्, अत एवाह - 'जे अरूवी अजीवा ते छव्विहा अद्धासमयो नत्थि' त्ति । १६ / ११३. 'उवरिल्ले चरिमंते' त्ति, अनेन सिद्धोपलक्षित उपरितनचरिमान्तो विवक्षितस्तत्र चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह - 'जे जीवे' त्यादि, इहायमेको द्विकसंयोगः, त्रिकसंयोगेषु च द्वौ द्वौ कार्यौ, तेषु हि मध्यमभङ्गः 'अहवा एगिंदियदेसा य अणिदियदेसा य बेइंदियस्स य देसा' इत्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्, यतो द्वीन्द्रियस्योपरितनचरिमान्ते मारणान्तिकसमुद्घातेन गतस्यापि देश एवं तत्र संभवति न पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः, उपरितनचरिमान्तस्यैकप्रतररूपतया लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत एवाह - ' एवं मज्झिल्लविरहिओ' त्ति त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमान्तापेक्षया जीवप्रदेशप्ररूपणायामेवं 'आइल्लविरहिओ' त्ति यदुक्तं तस्यायमर्थः - इह पूर्वोक्ते भङ्गकत्रये प्रदेशापेक्षया ' अहवा एगिदियपएसा य अनिंदियप्पएसा य बेइंदियस्सप्पएसे' इत्ययं प्रथमभङ्गको न वाच्यो, द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात्, तदसम्भवश्च लोकव्यापकावस्थानिन्द्रियवर्ज्जजीवानां यत्रैकप्रदेशस्तत्रा- सङ्ख्यातानामेव तेषां भावादिति, 'अजीवा जहा दसमसए तमाए' त्ति अजीवानाश्रित्य यथा दशमशते 'तमाए' त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितनचरमान्तमाश्रित्य वाच्यं तच्चैवं जे अजीवा ते दुविहा पण्णत्ता, तं जहा - रूवी अजीवा य अरूविअजीवा य, जे रूविअजीवा ते चउव्विहा पण्णत्ता, तं जहा खंधा जाव परमाणु पोग्गला, जे अरूविअजीवा ते छव्विहा पण्णत्ता, तं जहा -नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्सप्पएसा' एवमधर्म्माकाशास्तिकाययोरपीति ।
Jain Education International
भगवती वृत्ति
१६/११४. 'लोगस्स णं भंते! हिट्ठिल्ले' इत्यादि, इह पूर्वचरमान्तवद्भङ्गाः कार्याः, नवरं तदीयस्य भङ्गकत्रयस्य मध्यात् 'अहवा एगिंदियदेसा य बेइंदियस्स य देसा' इत्येवंरूपो मध्यमभङ्गकोऽत्र वर्जनीयः, उपरितनचरिमान्तप्रकरणोक्तयुक्तेस्तस्यासम्भवाद्, अत एवाह - 'एवं मज्झिल्लविरहिओ' त्ति देशभङ्गका दर्शिताः अथ प्रदेशभङ्गकदर्शनायाह- 'पएसा आइल्लविरहिया सव्वेसिं जहा पुरच्छिमिल्ले चरिमंते' त्ति, प्रदेशचिन्तायामाद्यभङ्गकरहिता प्रदेशा वाच्या इत्यर्थः आद्यश्च भङ्गक एकवचनान्तप्रदेशशब्दोपेतः स च प्रदेशानामधचरमान्तेऽपि बहुत्वान्न संभवति संभवति च 'अहवा एगिंदियपएसा य बेइंदियस्स पएसा अहवा एगिंदियप्पएसा य बेइंदियाण य पएसा' इत्येतद्द्द्वयं, 'सव्वेसिं' ति द्वीन्द्रियादीनाम-निन्द्रियान्तानाम् 'अजीवे' त्यादि व्यक्तमेव । चरमान्ताधिकारादेवेदमाह
४८०
१६ / ११५. 'इमीसे ण' मित्यादि । 'उवरिल्ले जहा दसमसए विमला दिसा तहेव निरवसेसं' ति दशमशते यथा विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्तो वाच्यो निरवशेषं यथा भवतीति, स चैवम् -' इमीसे णं भंते! रयणप्पभाए पुढवीए उवरिल्ले चरिमन्ते किं जीवा० ६१, गोयमा ! नो जीवा' एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् 'जीवदेसावि ५, जे जीवदेसा ते नियमा एगिंदियदेसा' सर्वत्र तेषां भावात् 'अहवा एगिंदियदेसा य इंदियस य देसे १ अहवा एगिंदियदेसा य बेइंदियस्स य देसा २ अहवा एगिंदियदेसा य बेइंदियाण य देसा ३, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयः ते चैकेन्द्रियापेक्षयाऽतिस्तोकास्ततश्च तदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्याद्देशा वेति, एवं त्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु, तथा 'जे जीवप्पएसा ते नियमा एगिंदियपएसा अहवा एगिंदियपएसावि बेइंदियस्स पएसा १ अहवा एगिंदियपएसा बेइंदियाण य पएसा २' एवं त्रीन्द्रियादिष्वप्यनीन्द्रियान्तेषु तथा 'जे अजीवा ते दुविहा पन्नत्ता, तं जहा - रूविअजीवा य अरूविअजीवा य, जे रूविअजीवा ते चउव्विहा पन्नत्ता, तं जहा-खंधा जाव परमाणुपोग्गला, जे अरूवी अजीवा ते सत्तविहा पन्नत्ता, तं जहा -नो धम्मत्थिका धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा एवमधम्मत्थिकायस्सवि आगासत्थिकायस्सवि अद्धासमए' त्ति अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्त्तिनि रत्नप्रभोपरितनचरिमान्तेऽस्त्येवेति, 'हेट्ठिले चरिमंते' इति यथाऽधश्चरमान्तो लोकस्योक्तः एवं रत्नप्रभापृथिव्या अप्यसाविति स चानन्तरोक्त एव, विशेषस्त्वयं-लोकाधस्तनचरमान्ते द्वीन्द्रियादीनां देशभङ्गकत्रयं मध्यमरहितमुक्तं इह तु रत्नप्रभाऽधस्तनचरमान्ते पञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यं, शेषाणां तु द्वीन्द्रियादीनां मध्यमरहितमेव, यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां गमागमद्वारेण देशो देशाश्च संभवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमेवास्ति,
For Private & Personal Use Only
www.jainelibrary.org