________________
भगवती वृत्ति
४७६
'संवेल्लियमिति अप्पाणं मन्नइ' त्ति संवेल्लितान्तामित्यात्मना मन्यते विभक्तिपरिणामादिति ।
१६/९५. 'उग्गोवेमाणे' त्ति उद्गोपयन् विमोहयन्नित्यर्थः । १६/९८. जहा तेयनिसग्ग' त्ति यथा गोशालके, अनेन चेदं सूचितं'पत्तरासीति वा तयारासीति वा भुसरासीति वा तुसरासीति वा गोमयरासीति व' त्ति ।
१६/१०१. ‘सुरावियडकुंभं' ति सुरारूपं यद् विकटं-जलं तस्य कुम्भो यः स तथा 'सोवीरगवियडकुंभं व' त्ति इह सौवीरकंकाञ्जिकमिति ।
अनन्तरं स्वप्ना उक्तास्ते चाचक्षुर्विषया इत्यचक्षुर्विषयितासाधर्म्येण गन्धपुद्गलवक्तव्यतामभिधातुमाह१६/१०६. ‘अहे' त्यादि, 'कोट्ठपुडाण व' त्ति कोष्ठे यः पच्यते वास
समुदायः स कोष्ठ एव तस्य पुटाः - पुटिकाः कोष्ठपुटास्तेषां, यावत्करणादिदं दृश्यं–‘पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वे' त्यादि, तत्र पत्राणि - तमालपत्राणि 'चोय' त्ति त्वक् तगरं चगन्धद्रव्यविशेषः 'अणुवायंसि अनुकूलो वातो यत्र देशे सोऽनुवातोऽस्त यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः 'उब्भिज्जमाणाण व ' त्ति प्राबल्येनो वा दीर्यमाणानाम्, इह यावत्करणादिदं दृश्यं - 'निब्भिज्जमाणाण वा' प्राबल्याभावेनाधो वा दीर्यमाणानां 'उक्किरिज्जमाणाण वा विक्किरिज्जमाणाण वा' इत्यादि प्रतीतार्थाश्चैते शब्दाः, 'किं कोट्ठे वाइ' त्ति कोष्ठोवाससमुदायो वाति–दूरादागच्छति, आगत्य घ्राणग्राह्यो भवतीति भाव: 'घाणसहगय' त्ति घ्रायत इति घ्राणो-गन्धो गन्धोपलम्भक्रिया वा तेन सह गताः - प्रवृत्ता ये पुद्गलास्ते घाणसहगताः गन्धगुणोपेता इत्यर्थः ।
षोडशशते षष्ठः ।। १६-६॥
सप्तम उद्देशः
षष्ठोद्देशकान्ते गन्धपुद्गला वान्तीत्युक्तं, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यते इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्
१६ / १०८. 'कविहे ण' मित्यादि, 'एवं जहे' त्यादि, उपयोगपदं प्रज्ञापनायामेकोनत्रिंशत्तमं तच्चैवं - 'तं जहा - सागारोवओगे य अणागारोवओगे य । सागारोवओगे णं भंते! कतिविहे पण्णत्ते ?, गोयमा ! अट्ठविहे पण्णत्ते, तं जहा- आभिणिबोहियणाणसागारोवओगे सुयणाणसागारोवओगे एवं ओहिणाण मणपज्जवनाण केवलनाणसागारोवओगे, मतिअन्नाणसागारोवओगे सुयअन्नाणसागारोवओगे विभंगनाणसागारोवओगे । अणागारोवओगे णं भंते! कतिविहे पण्णत्ते ? गोयमा ! चउव्विहे पण्णत्ते, तं जहा - चक्खुदंसणअणागारोवओगे अचक्खुदंसणआणागारोवओगे ओहिदंसण- अणागारोवओगे केवलदंसणअणागारोवओगे' इत्यादि, एतच्च व्यक्तमेव, 'पासणयापयं च
Jain Education International
परिशिष्ट - ५ : श. १६ : उ ७, ८ : सू. ६५ - १११ णेयव्वं' ति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः तच्च प्रज्ञापनायां त्रिंशत्तमं तच्चैवं- 'कतिविहा णं भंते! पासणया पण्णत्ता ? गोयमा ! दुविहा पासणया पण्णत्ता, तं जहा - सागारपासणया अणागारपासणया । सागारपासणया णं भंते! कतिविहा पण्णत्ता ? गोयमा ! छव्विहा पण्णत्ता, तं जहा - सुयणाणसागारपासणया एवं ओहिनाण मणनाण केवलनाण सुयअन्नाण विभंगनाणसागारपासणया, अणागारपासणया णं भंते! कतिविहा पण्णत्ता १, गोयमा ! तिविहा पण्णत्ता, तं जहा - चक्खुदंसणअणागारपासणया ओहिदंसणअणागारपासण्या केवलदंसणअणागारपासणया' इत्यादि, अस्य चायमर्थ:- 'पासणय' त्ति पश्यतो भावः पश्यत्ता-बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोस्तुल्ये साकारानाकारभेदत्वे कः प्रतिविशेषः ?, उच्यते, यत्र त्रैकालिकोऽवबोधोऽस्ति तत्र पश्यत्ता यत्र पुनर्वर्त्तमानकाल- स्त्रैकालिकश्च तत्रोपयोग इत्ययं विशेष:, अत एव मतिज्ञानं मत्यज्ञानं च साकारपश्यत्तायां नोक्तं, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकाल
विषयत्वात् ।
न
अथ कस्मादनाकारपश्यत्तायां चक्षुर्दर्शनमधीतं शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर् प्रेक्षणे' इति वचनात्, प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति न शेषाणां, चक्षुरिन्द्रियोपयोगस्य शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात्. यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात्, तदेवं चक्षुर्दर्शनस्यैव पश्यत्ता नेतरस्येति, अयं चार्थः प्रज्ञापनात विशेषेणावगम्य इति ।
षोडशशते सप्तमः ॥ १६-७॥
अष्टम उद्देशकः
सप्तमे उपयोग उक्तः, स च लोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधीयते, तस्य चेदमादिसूत्रम्१६/११०,१११. 'किंमहालए ण' मित्यादि, 'चरमंते' त्ति चरमरूपोऽन्तश्चरमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह- 'नोजीवे' त्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः संभवतीत्युक्तं 'जीवदेसावी' त्यादि, 'अजीवावि' त्ति पुद्गलस्कन्धाः 'अजीवदेसावित्ति धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र संभवन्ति, एवमजीवप्रदेशा अपि ।
अथ जीवादिदेशादिषु विशेषमाह - 'जे जीवे' त्यादि, ये जीवदेशास्ते पृथिव्याद्ये केन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, 'अहव' त्ति प्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाब्दहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देशः स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय
For Private & Personal Use Only
www.jainelibrary.org