________________
परिशिष्ट - ५ : श. १६ : उ. ६ : सू. ७६-६३
मिच्छादिट्ठी परित्तसंसारिए अणंतसंसारिए सुलभबोहिए दुल्लभबोहिए आराहए विराहए चरिमे अचरिमे' इत्यादीति । षोडशशतस्य पञ्चमोद्देशः परिपूर्णतां प्राप्तः ॥ १६-५॥
४७८
षष्ठम उद्देशकः
पञ्चमोद्देशके गङ्गदत्तस्य सिद्धिरुक्ता सा च भव्यानां केषाञ्चित् स्वप्नेनापि सूचिता भवतीति स्वप्नस्वरूपं षष्ठेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
तच्च
१६/७६. 'कइविहे' इत्यादि, 'सुविणदंसणे' त्ति स्वप्नस्यस्वापक्रियानुगतार्थविकल्पस्य दर्शनं - अनुभवनं, स्वप्नभेदात्पञ्चविधमिति, 'अहातच्चे' ति यथा येन प्रकारेण तथ्यं सत्यं तत्त्वं वा तेन यो वर्त्ततेऽसौ यथातथ्यो यथातत्त्वो वा, स च दृष्टार्थाविसंवादी फलाविसंवादी वा तत्र दृष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरितस्तथैव पश्यतीति, फलाविसंवादी तु किल कोऽपि गोवृषकुञ्जराद्यारूढमात्मानं पश्यति बुद्धश्च कालान्तरे सम्पदं लभत इति, 'पयाणे' त्ति प्रतननं प्रतानो - विस्तारस्तद्रूपः स्वप्नो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भेदः, एवमुत्तरत्रापि, 'चिंतासुमिणे' त्ति जाग्रदवस्थस्य या चिन्ता - अर्थचिन्तनं तत्संदर्शनात्मकः स्वप्नश्चिन्तास्वप्नः, 'तव्विवरीय' त्ति यादृशं वस्तु स्वप्ने दृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वप्नो यथा कश्चिदात्मानं मेध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु मेध्यमर्थं कंचन प्राप्नोतीति, अन्ये तु तद्विपरीतमेवमाहुः कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्ने च पश्यत्यात्मानमश्वारूढमिति, 'अव्वत्तदंसणे' त्ति अव्यक्तं - अस्पष्टं दर्शनं - अनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः । स्वप्नाधिकारादेवेदमभिधातुमाह'सुत्ते ण' मित्यादि, 'सुत्तजागरे' त्ति नातिसुसो नातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वप्नव्यतिकरो निद्रापेक्ष उक्तः, अथ विरत्यपेक्षया जीवादीनां पञ्चविंशतेः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह
१६ / ७८. 'जीवाण' मित्यादि, तत्र 'सुत्त' त्ति सर्वविरतिरूपनैश्चयिकप्रबोधभावात् 'जागर' त्ति सर्वविरतिरूपप्रवरजागरणसद्भावात् 'सुत्तजागर' त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति । पूर्वं स्वप्नद्रष्टार उक्ताः, अथ स्वप्नस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह१६/८१,८२. ‘संवुडे ण' मित्यादि, 'संवृतः' निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते संवृतस्तु तथाविधबीधोपेतसर्वविरत्यपेक्षयेति,
Jain Education International
भगवती वृत्ति
'संडे णं सुविणं पासइ अहातच्चं पासइ' त्ति सत्यमित्यर्थः, संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वात् देवताऽनुग्रहयुक्तत्वाच्च सत्यं स्वप्नं पश्यतीति । अनन्तरं संवृतादिः स्वप्नं पश्यतीत्युक्तमथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह - 'जीवा ण' मित्यादि । स्वप्नाधिकारादेवेदमाह
१६/८३-८५. 'कइ ण' मित्यादि, 'बायालीसं सुविण' त्ति विशिष्टफलसूचकस्वप्नापेक्षया द्विचत्वारिंशदन्यथाऽसंख्येयास्ते संभवन्तीति, 'महासुविण' त्ति महत्तमफलसूचकाः 'बावत्तरि' त्ति एतेषामेव मीलनात् ।
१६/९१. 'अंतिमराइयंसि' त्ति रात्रेरन्तिमे भागे 'घोररूवदित्तधरं' ति घोरं यद्रूपं दीसं च दृतं वा तद्धारयति यः स तथा तं 'तालपिसायं' ति तालो - वृक्षविशेषः स च स्वभावाद्दीर्धो भवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम्, एषां च पिशाचाद्यर्थानां मोहनीयादिभिः स्वप्नफलविषयभूतैः सह साधर्म्यं स्वयमभ्यूह्यं, 'पुंसकोइलगं' ति पुंस्कोकिलं- कोकिलपुरुषमित्यर्थः, 'दामदुगं' ति मालाद्वयम् 'उम्मीवीइसहस्सकलियं' ति इहोर्म्मयो - महाकल्लोलाः वीचयस्तु हस्वाः, अथवोर्मीणां वीचयोविविक्तव्यानि तत्सहस्रकलितं, 'हरिवेरुलियवण्णाभेणं' ति हरिच्च - तन्नीलं वैडूर्यवर्णाभं चेति समासस्तेन 'आवेढियं' ति अभिविधिना वेष्टितं सर्वत इत्यर्थः 'परिवेढियं' ति पुनः पुनरित्यर्थः 'उवरि' त्ति उपरि । 'गणिपिडगं ' ति गणीनां - अर्थपरिच्छेदानां पिटकमिव पिटकं आश्रयो गणिपिटकं गणिनो वा आचार्यस्य पिटकमिवसर्वस्वभाजनमिव गणिपिटकं 'आघवेइ' त्ति आख्यापयति सामान्यविशेषरूपतः 'पन्नवेति' त्ति सामान्यतः 'परूवेइ' त्ति प्रतिसूत्रमर्थकथनेन 'दंसेइ' त्ति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन 'निदंसेइ' त्ति कथञ्चिदगृह्णतोऽनुकम्पया निश्चयेन पुनः पुनर्दर्शयति 'उवदंसेइ' त्ति सकलनययुक्तिभिरिति । 'चाउव्वण्णाइन्ने' त्ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः ।
'चउव्विहे देवे पन्नवेइ' त्ति प्रज्ञापयति-प्रतिबोधयति शिष्यीकरोतीत्यर्थः, 'अणंते' ति विषयानन्तत्वात् 'अणुत्तरे' ति सर्वप्रधानत्वात्, यावत्करणादिदं दृश्यं निव्वाघाए' कटकुड्यादिनाऽप्रतिहतत्वात् 'निरावरणे' क्षायिकत्वात् 'कसिणे' सकलार्थग्राहकत्वात् 'पडिपुन्ने' अंशेनापि स्वकीयेनान्यूनत्वादिति ।
१६/९२. 'सुविणंते' त्ति 'स्वप्नान्ते' स्वप्नस्य विभागे अवसाने वा 'गयपंतिं वा' इह यावत्करणादिदं दृश्यं - ' नरपतिं वा एवं किन्नरकिंपुरिसमहोरगगंधव्व' त्ति 'पासमाणे पासइ' ति पश्यन् पश्यत्तागुणयुक्तः सन् 'पश्यति' अवलोकयति । १६ / ९३. 'दामिणि' न्ति गवादीनां बन्धनविशेषभूतां रज्जुं 'दुहओ' त्ति द्वयोरपि पार्श्वयोरित्यर्थः 'संवेल्लेमाणे' त्ति संवेल्लयन् संवर्त्तयन्
For Private & Personal Use Only
www.jainelibrary.org