SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ४७५ अत एवाविरतिं प्रतीत्येति वक्ष्यति, 'पराहिगरणि' त्ति परतः परेषामधिकरणे प्रवर्त्तनाधिकरणी पराधिकरणी, 'तदुभयाहिगरणि' त्ति तयोः - आत्मपरयोरुभयं तदुभयं ततोऽधिकरणीयः स तथेति । अथाधिकरणस्यैव हेतुप्ररूपणार्थमाह१६/१५. 'जीवाण' मित्यादि, 'आयप्पओगनिव्वत्तिए' त्ति आत्मनः प्रयोगेण - मनःप्रभृतिव्यापारेण निर्वर्त्तितं-निष्पादितं यत्तत्तथा, एवमन्यदपि द्वयम्। ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिर्वर्त्तितादि भविष्यतीत्याशङ्कामुपदर्श्य परिहरन्नाह १६ /१६. 'से केण' मित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति । १६/१७-२१. अथ शरीराणामिन्द्रियाणां योगानां च निर्वर्त्तनायां जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह - 'कति णं भंते!' इत्यादि, ‘अहिगरणीवि अहिगरणंपि' त्ति पूर्ववत् 'एवं चेव' त्ति अनेन जीवसूत्राभिलापः। १६/२२-२६. पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम्, 'एवं वेउव्वि' इत्यादि व्यक्तं, नवरं 'जस्स अत्थि' त्ति इह तस्य जीवपदस्य वाच्यमिति शेषः, तत्र नारकदेवानां वायोः पञ्चेन्द्रियतिर्यङ्गनुष्याणां च तदस्तीति ज्ञेयं, 'पमायं 'पडुच्च' त्ति इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि प्रमादादधिकरणित्वमवसेयं, दण्डकचिन्तायां चाहारकं मनुष्यस्यैव भवतीत्यत उक्तम्- ' एवं मणुस्सेवि' त्ति, 'नवरं जस्स अत्थि सोइंदियं' ति तस्य वाच्यमिति शेषः तच्चैकेन्द्रियविकलेन्द्रियवर्णानामन्येषां स्यादिति । षोडशशते प्रथमः ॥ १६-१॥ द्वितीय उद्देशकः प्रथममोद्देशके जीवानामधिकरणमुक्तं द्वितीये तु तेषामेव जराशोकादिको धर्म उच्यते । इत्येवंसम्बन्धस्यास्येदमादि-सूत्रम् - १६/२८-३१. ‘रायगिहे' इत्यादि, 'जर' त्ति 'नृ वयोहानौ' इति वचनात् जरणं जरा - वयोहानिः शारीरदुःखरूपा चेयमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितं, ततश्च जीवानां किं जरा भवति ? 'सोगे' त्ति शोचनं शोको - दैन्यम्, उपलक्षणत्वादेव चास्य सकलमानसदुःखपरिग्रहस्ततश्च उत शोको भवतीति, चतुर्विंशतिदण्डके च येषां शरीरं तेषां जरा येषां तु मनोऽप्यस्ति तेषामुभयमिति । अनन्तरं वैमानिकानां जराशोकावुक्तौ अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह १६/३३. ‘तेणं कालेण’ मित्यादि, 'एवं जहा ईसाणो तइयसए तहा सक्कोवि' त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयाति Jain Education International परिशिष्ट - ५ : श. १६ : उ. २ सू. १५-४० देशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वथा साम्यपरिहारार्थं त्वाह- 'नवरमाभिओगे ण सद्दावइ' इत्यादि तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवं, तथा तत्र लघुपराक्रमः पदात्यनीकाधिपतिर्नन्दिघोषाघण्टाताडनाय नियुक्त उक्तः इह तु सुघोषाघण्टाताडनाय हरिणैगमेषी नियुक्त इति वाच्यं, तथा तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्यः, तथा तत्र पुष्पकं विमानमुक्तमिह तु पालकं वाच्यं तथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः 'नामगं सावेत्त' त्ति स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त ! शक्रो देवराजो भवन्तं वन्दे नमस्यामि चेत्येवम् । १६ / ३४, ३५. 'उग्गहे' त्ति अवगृह्यते - स्वामिना स्वीक्रियते यः सोऽवग्रहः 'देविंदोग्गहे य' त्ति देवेन्द्रः - शक्र ईशानो वा तस्यावग्रहो - दक्षिणं लोकार्द्धमुत्तरं वेति देवेन्द्रावग्रहः 'राओग्गहे' त्ति राजा चक्रवर्ती तस्यावग्रहः - षट्खण्डभरतादिक्षेत्रं राजावग्रहः 'गाहावईउग्गहे' त्ति गृहपतिः - माण्डलिको राजा तस्यावग्रहःस्वकीयं मण्डलमिति गृहपत्यवग्रहः 'सागारियउग्गहे' त्ति सहागारेण - गेहेन वर्त्तत इति सागारः स एव सागारिकस्तस्यावग्रहो – गृहमेवेति सागारिकावग्रहः 'साहम्मियउग्गहे' ि समानेन धर्मेण चरन्तीति साधर्म्मिकाः साध्वपेक्षया साधव एव तेषामवग्रहः -- तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति सधार्म्मिकावग्रहः । एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह- 'जे इमे' इत्यादि, 'एवं वयइ' त्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं 'वदति' अभिधत्ते सत्य एषोऽर्थ इति । अथ भवत्वयमर्थः सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न? इत्याशङ्कयाह भाषा १६/३६-४०. ‘सक्के ण' मित्यादि, सम्यग् वदितुं शीलं स्वभावो यस्य सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति । सम्यग्वादशीलत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषां भाषते न वा ? इति प्रश्नयन्नाह - 'सक्के ण' मित्यादि, सत्याऽपि कथञ्चिद्भाष्यमाणा सावधा संभवतीति पुनः पृच्छति- 'सक्के ण' मित्यादि, 'सावज्जं ' ति सहावद्येन-गर्हितकर्म्मणेति सावद्या तां 'जाहे णं' ति यदा 'सुहुमकायं' ति सूक्ष्मकायं हस्तादिकं वस्त्विति वृद्धाः, अन्ये त्वाहु- 'सुहुमकायं' ति वस्त्रम् 'अनिज्जूहित्त' ति 'अपोह्य' अदत्त्वा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्य भाषा भवति अन्या तु सावद्येति । शक्रमेवाधिकृत्याह- 'सक्के ण' मित्यादि, 'मोउद्देसए' त्ति तृतीयशते प्रथमोद्देशके । अनन्तरं शक्रस्वरूपमुक्तं तच्च कर्म्मतो भवतीति सम्बन्धेन कर्म्मस्वरूपप्ररूपणायाह For Private & Personal Use Only www.jainelibrary.org
SR No.003596
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy