________________
परिशिष्ट-५ : श. १५ : सू. १८६
४७२ विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महा. पुरुषाणामिति, 'पउप्पए' ति शिष्यसन्तानः, 'जहा धम्मघोसस्स वन्नओ' ति यथा धर्मघोषस्य-एकादशशतैकादशोद्देशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपन्ने बलसंपन्ने' इत्यादिरिति 'रहचरियं' त्ति रथचर्या 'नोल्लावेहिइ' त्ति नोदयिष्यति-प्रेरयिष्यति सहितमित्यादय
एकार्थाः। १५/१८६. 'सत्थवज्झे' त्ति शस्त्रवध्यः सन् 'दाहवक्कंतीए' त्ति
दाहोत्पत्त्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासझिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसौ तथैवोत्पादितः, यदाह'अस्सण्णी खलु पढम दोच्चं च सिरीसिवा तइय पक्खी। सीहा जंति चउत्थिं उरगा पुण पंचमि पुढविं॥४॥ छद्धिं च इत्थियाओ मच्छा मणुया य सत्तमि पुढविं।' (असंज्ञिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः। सिंहा यान्ति चतुर्थी पंचमी पुनः पृथ्वीमुरगाः॥१॥ षष्ठीं च स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथ्वीम) इति, 'खहचरविहाणाई' ति इह विधानानि-भेदाः 'चम्मपक्खीणं' ति वल्गुलीप्रभृतीनां 'लोमपक्खीणं' ति हंसप्रभृतीनां 'समुग्गपक्खीणं' ति समुद्गकाकारपक्षवतां मनुष्यक्षेत्रवहिर्वर्त्तिनां विययपक्खीणं' ति विस्तारिपक्षवतां समयक्षेत्रबहिर्वर्त्तिनामेवेति 'अणेगसयसहस्सखुत्तो' इत्यादि तु यदुक्तं तत्सान्तरमवसेयं, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात्, यदाहपंचिंदियतिरियनरा सत्तट्ठभवा भवग्गहेण' (पञ्चेन्द्रियस्तिर्यग्नराः सप्ताष्टभवाः भवग्रहणैः) त्ति 'जहा पन्नवणापए' त्ति प्रज्ञापनायाः प्रथमपदे, तत्र चैवमिदं-'सरडाणं सल्लाण' मित्यादि। 'एगखुराणं' ति अश्वादीनां 'दुखुराणं' ति गवादीनां 'गंडीपयाणं' ति हस्त्यादीनां। 'सणहप्पयाणं' ति सनखपदानां सिंहादिनखराणां। 'कच्छभाणं' ति इह यावत्करणादिदं दृश्य-'गाहाणं मगराणं पोत्तियाणं' इत्यत्र 'जहां पन्नवणापए' त्ति अनेन यत्सूचितं तदिदं-'मच्छियाणं गमसियाण' मित्यादि। 'उवचियाणं' इह यावत्करणादिदं दृश्यं-रोहिणियाणं कुंथूणं पिविलियाण' मित्यादि। 'पुलाकिमियाण' मित्यत्र यावत्करणादिदं दृश्यं-'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण' मित्यादि। 'रुक्खाणं' ति वृक्षाणामेकास्थिकबहबीजकभेदेन द्विविधानां, तत्रैकास्थिकाः निम्बाम्रादयः बहुबीजा--अस्थिकतिन्दुकादयः, 'गुच्छाणं' ति वृन्ताकीप्रभृतीनां यावत्करणादिदं दृश्य-'गुम्माणं लयाणं वल्लीणं पव्वगाणं तणाणं वलयाणं हरियाणं ओसहीणं जलरुहाणं' ति तत्र 'गुल्मानां' नवमालिकाप्रभृतीनां 'लतानां' पद्मलतादीनां 'वल्लीनां' पुष्पफलीप्रभृतीनां 'पद्धकाणाम्'
भगवती वृत्ति इक्षुप्रभृतीनां 'तृणानां' दर्भकुशादीनां 'वलयानां' तालतमालादीनां 'हरितानाम्' अध्यारोहकतन्दुलीयकादीनाम् 'औषधीनां' शालिगोधूमप्रभृतीनां 'जलरुहाणां' कुमुदादीनां 'कुहणाणं' ति कुहुणानाम् आयुकायप्रभृतिभूमीस्फोटानाम् 'उस्सन्नं च णं' ति बाहुल्येन पुनः।। ‘पाईणवायाणं' ति पूर्ववातानां यावत्करणादेवं दृश्यं-'पडीणवायाणं दाहिणवायाण' मित्यादि, 'सुद्धवायाणं' ति मन्दस्तिमितवायूनाम्। 'इंगालाणं' इह यावत्करणादेवं दृश्यं-'जालाणं मुम्मुराणं अच्चीण' मित्यादि, तत्र च 'ज्वालानां' अनलसम्बद्धस्वरूपाणां 'मुर्मुराणां' फुम्फुकादौ मसृणाग्निरूपाणाम् 'अर्चिषां' अनलाप्रतिबद्धज्वालानामिति। 'ओसाणं' ति रात्रिजलानाम्, इह यावत्करणादिदं दृश्यं-'हिमाणं महियाणं ति, 'खाओदयाणं' ति खातायां-भूमौ यान्युदकानि तानि खातोदकानि। 'पुढवीणं' ति मृत्तिकानां 'सक्कराणं' ति शर्करिकाणां यावत्करणादिदं दृश्यं-'वालुयाणं उवलाणं' ति, सूरकताणं' ति मणिविशेषाणां। 'बाहिं खरियत्ताए' त्ति नगरबहिर्वतिवश्यात्वेन प्रान्तजवेश्यात्वेनेत्यन्ये, 'अंतोखरियत्ताए' त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये। 'पडिरूविएणं सुक्केणं' ति 'प्रतिरूपकेन' उचितेन शल्केनदानेन 'भंडकरंडगसमाणे' ति आभरणभाजनतुल्या आदेयेर्थः 'तेल्लकेला इव सुसंगोविय' त्ति तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्ठु संगोपनीया भवत्यन्यथा लुठति ततश्च तैलहानिः स्यादिति, 'चेलपेडा इव सुसंपरिगहिय' त्ति चेलपेडावत्-वस्त्रमञ्जूषेव सुष्ठु संपरिवृत्ता (गृहीता)-निरुपद्रवे स्थाने निवेशिता। 'दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववज्जिहिति' त्ति विराधितश्रामण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति, यच्चेह 'दाहिणिल्लेसु' ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा। 'अविराहियसामन्ने त्ति आराधितचरण इत्यर्थः, आराधितचरणता चेह चरणप्रतिपत्तिसमयादारभ्य मरणान्तं यावन्निरतिचारतया तस्य पालना, आह च'आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई। आमरणंतमजस्सं संजमपरिपालणं विहिणा॥१॥ इति (आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्य आमरणान्तमजस्रं विधिना संयमपरिपालना॥१) एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोक सर्वार्थसिद्ध्युत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव इत्येवमष्टादश चारित्रभवा उक्ताः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org