________________
भगवती वृत्ति
४७१
दानात् घातदो घातको वा, अत एव श्रमणमारक इति, 'दाहवक्कंतीए' ति दाहोत्पत्त्या 'सुंबेणं' ति वल्करज्ज्वा 'उट्ठभह' त्ति अवष्ठीव्यत-निष्ठीव्यत, क्वचित् 'उच्छुभह' त्ति दृश्यते तत्र चापशब्दं किञ्चित्क्षिपतेत्यर्थः 'आकट्टविकट्टि' ति
आकर्षवैकर्षिकाम्। १५/१४२. 'पूयासक्कारथिरीकरणट्ठयाए' त्ति पूजासत्कारयोः
पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालक-शरीरस्य विशिष्टपूजां न कुर्वन्ति तदा लोको जानाति नायं जिनो बभूव न
चैते जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरीकरणार्थम् 'अवगुणंति' त्ति अपावृण्वन्ति। 'साण (ल) कोट्ठए नाम चेईए होत्था वन्नओ' त्ति तद्वर्णको वाच्यः स च 'चिराईए' इत्यादि 'जाव पुढविसिलापट्टओ' त्ति पृथिकीशिलापट्टकवर्णकं यावत् स च-'तस्स णं असोगवरपायवस्स हेट्ठा ईसिंखंधीसमल्लीणे' इत्यादि 'मालुयाकच्छए' त्ति मालुका नाम एकास्थिका वृक्षविशेषास्तेषां यत्कक्ष-गहनं तत्तथा। 'विउले' त्ति शरीरव्यापकत्वात् 'रोगायके' त्ति रोगः-पीडाकारी स चासावातङ्कश्च-व्याधिरिति रोगातङ्कः 'उज्जल्ले' त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशे नाप्यकलङ्कितः, यावत्करणादिदं दृश्य-'तिउले' त्रीन्मनोवाक्कायलक्षणानांस्तुलयति-जयतीति त्रितुलः 'पगाढे' प्रकर्षवान् 'कक्कसे' कर्कशद्रव्यमिवानिष्ट इत्यर्थः 'कडुए' तथैव 'चंडे' रौद्रः 'तिव्वे' सामान्यस्य झगितिमरणहेतुः ‘दुक्खे' त्ति दुःखो दुःखहेतुत्वात् 'दुग्गे' त्ति क्वचित् तत्र च दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति?-'दुरहियासे' त्ति दुरधिसह्यः सोढुमशक्य इत्यर्थः 'दाहवक्कंतीए' त्ति दाहो व्युत्क्रान्तः-उत्पन्नो यस्य स स्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः 'अवियाई' ति अपिचेत्यभ्युच्चये 'आई' ति वाक्यालङ्कारे 'लोहियवच्चाइंपि' त्ति लोहितवाँस्यपिरुधिरात्मकपुरीषाण्यपि करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोत्पादके रोगे सति भवन्ति, 'चाउवण्णं' ति चातुर्वर्यं ब्राह्मणादिलोकः, 'झाणंतरियाए' त्ति एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां 'मणोमाणसिएणं' ति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन 'दुवे कवोया' इत्यादेः श्रूयमाणमेवार्थं केचिन्मन्यन्ते, अन्ये त्वाहु:-कपोतकः-पक्षिविशेषस्तद्वद् ये फले वर्णसाधर्म्यात्ते कपोते-कूष्माण्डे हस्वे कपोते कपोतके च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीरे इव धूसरवर्णसाधम्यदिव कपोतकशरीरे कूष्माण्डफले एव ते उपसंस्कृते-संस्कृते 'तेहिं नो अट्ठो' त्ति बहुपापत्वात् 'पारिआसिए' त्ति परिवासितं ह्यस्तनमित्यर्थः, 'मज्जारकडए' इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते, अन्ये त्वाहुःमार्जारो-वायुविशेषस्तदुपशमनाय कृतं संस्कृतं मार्जारकृतम्,
परिशिष्ट-५ : श. १५ : सू. १४२ अपरे त्वाहुः--मार्जारो-विरालकाभिधानो वनस्पतिविशेषस्तेन कृतं--भावितं यत्तत्तथा, किं तत् ? इत्याह-'कुर्कुटकमांसकं' बीजपूरक कटाहम् 'आहराहि' त्ति निरवद्यत्वादिति। 'पत्तगं मोएति' त्ति पात्रकं-पिठरकाविशेषं मुञ्चति सिक्कके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः 'जहा विजयस्स' त्ति यथा इहैव-इह शते विजयस्य वसुधाराद्युक्तं एवं तस्या अपि वाच्यमित्यर्थः, बिममिवे' त्यादि 'बिले इव' रन्ध्रे इव ‘पन्नगभूतेन' सर्पकल्पेन 'आत्मना' करणभूतेन तं' सिंहानगारोपनीतमाहारं शरीरकोष्ठके प्रक्षिपतीति 'हटे' त्ति 'हृष्टः' निर्व्याधिः 'अरोगे' त्ति निष्पीडः 'तुढे हटे जाए' त्ति 'तुष्टः' तोषवान् 'हृष्टः' विस्मितः, कस्मादेवम् ? इत्याह-'समणे' इत्यादि ‘हटे' त्ति नीरोगो जात इति। 'भारग्गसो य' त्ति भारपरिमाणतः, भारश्च-भारकः पुरुषोद्वहनीयो विंशतिपलशतप्रमाणो वेति, 'कुंभग्गसो य' त्ति कुम्भो-जघन्य आढकानां षष्ट्या मध्यमस्त्वशीत्या उत्कृष्टः पुनः शतेनेति, 'पउमवासे य रयणवासे य वासे वासिहिति' त्ति 'वर्षः' वृष्टिर्वर्षिष्यति, किंविधः? इत्याह-'पद्मवर्षः' पद्मवर्षरूपः, एवं रत्नवर्ष इति, 'सेए' त्ति श्वेतः, कथंभूतः ?-'संखदलविमलसन्निगासे' त्ति शङ्गस्य यद्दलं-खाई तलं वा तद्रूपं विमलं तत्संनिकाशः-सदृशो यः स तथा, प्राकृतत्वाच्चैवं समासः, 'आउसिहिइ' त्ति आक्रोशान् दास्यति 'निच्छोडेहिइ' त्ति पुरुषान्तरसम्बन्धितहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयिष्यति 'निब्भत्थेहिइ' त्ति आक्रोशव्यतिरिक्तदुर्वचनानि दास्यति 'पमारेहिइ' त्ति प्रमारं-मरणक्रियाप्रारम्भं करिष्यति प्रमारयिष्यति 'उद्दवेहिइ' त्ति अपद्रावयिष्यति, अथवा 'पमारिहिइ' त्ति मारयिष्यति 'उद्दवेहिइ' त्ति उपद्रवान् करिष्यति 'आच्छिंदिहिइ' त्ति ईषत् छेत्स्यति 'विच्छिंदेहिइ' ति विशेषेण विविधतया वा छेत्स्यति 'भिंदिहिइ' त्ति स्फोटयिष्यति पात्रापेक्षमेतत् 'अवहरिहिइ' त्ति अपहरिष्यति-उद्दालयिष्यति 'निन्नगरे करेहिति' त्ति 'निर्नगरान्' नगरनिष्क्रान्तान् करिष्यति, 'रज्जस्स व' त्ति राज्यस्य वा, राज्यं च राजादिपदार्थसमुदायः,
आह च'स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्गं बलं सुहृत्। सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम्॥१।' राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्र-जनपदैकदेशः, 'विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए' त्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते-अकरणतया-करणनिषेधरूपतया। 'विमलस्स' त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यति दुःखगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकदुत्सर्पिण्यां भविष्यति तस्यापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org