________________
परिशिष्ट-५ : श. १५ : सू. ११६-१४१
यः प्रधान इत्यर्थः ।
१५/११६. 'अगणिझामिए' त्ति अग्निना ध्मातो दग्धो ध्यामितो वा ईषद्दग्धः 'अगणिझूसिए' त्ति अग्निना सेवितः क्षपितो वा 'अगणिपरिणमिए' त्ति अग्निना परिणामितः - पूर्वस्वभाव - त्याजनेनात्मभावं नीतः, ततश्च हततेजा धूल्यादिना गततेजाः क्वचित् स्वत एव नष्टतेजाः क्वचिदव्यक्तीभूततेजाः भ्रष्टतेजाः क्वचित्स्वरूपभ्रष्टतेजा-ध्यामतेजा इत्यर्थः लुप्ततेजाः क्वचित् अर्द्धभूततेजाः 'लुप्लृ च्छेदने छिदिर् द्वैधीभावे' इतिवचनात्, किमुक्तं भवति ? - 'विनष्टतेजा' निःसत्ताकीभूततेजाः, एकार्था वैते शब्दाः, 'छंदेणं' ति स्वाभिप्रायेण यथेष्टमित्यर्थः 'निप्पट्टपसिणवागरणं' ति निर्गतानि स्पष्टानि प्रश्नव्याकरणाणि यस्य स तथा तम् ।
१५/१२०. 'रुंदाई पलोएमाणे' ति दीर्घा दृष्टीर्दिक्षु प्रक्षिपन्नित्यर्थः, मानधनानां हतमानानां लक्षणमिदं, 'दीहुण्हाइं नीसासमाणे' त्ति निःश्वासानिति गम्यते ' दाढियाए लोमाई' ति उत्तरौष्ठस्य रोमाणि 'अवडुं' ति कृकाटिकां 'पुयलिं पप्फोडेमाणे' त्ति 'पुततीं' पुतप्रदेशं प्रस्फोटयन् 'विणिगुणमाणे' त्ति विनिर्धुन्वन् 'हाहा अहो हओऽहमस्सीतिकट्टु' त्ति हा हा अहो हतोऽमस्मीति कृत्वा - इति भणित्वेत्यर्थः 'अंबकूणगहत्थगए' त्ति आम्रफलहस्तगतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाम्रास्थिकं चूषन्निति भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, 'मट्टियापाणएणं' ति मृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह- 'आयंचणिओदएणं' ति इह टीकाव्याख्या - आतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन ।
१५/१२१. 'अलाहि पज्जंते' त्ति 'अलम्' अत्यर्थं 'पर्याप्तः ' शक्तो घातायेति योगः घातायेति हननाय तदाश्रितत्रसापेक्षया 'वहाए' त्ति वधाय एतच्च तदाश्रितस्थावरापेक्षया 'उच्छायणयाए' ति उच्छादनतायै सचेतनाचेतनतद्गतवस्तूच्छादनायेति एतच्च प्रकारान्तरेणापि भवतीत्यग्निपरिणामोपदर्शनायाह - 'भासी - करणयाए' त्ति ।
'वज्जस्स' त्ति वर्जस्य - अवद्यस्य वा मद्यपानादिपापस्येत्यर्थः 'चरमे' त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमं तत्र पानकादीनि चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन पुनरकरणात्, एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येषु दोष इत्यस्य तथा नाहमेतानि दाहोपशमायोपसेवामीत्यस्य चार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति, पुष्कलसंवर्त्तकादीनि तु त्रीणि बाह्यानि प्रकृतानुपयोगेऽपि चरमसामान्याज्जनचित्तरञ्जनाय चरमाण्युक्तानि जनेन हि तेषां सातिशयत्वाच्चरमता श्रद्धीयते ततस्तैः सहोक्तानामाम्रकूणकपानकादीनामपि सा सुश्रद्धेया भवत्विति बुद्धयेति, 'पाणगाई' ति जलविशेषा व्रतियोग्याः 'अपाणयाई' ति पानकसदृशानि शीतलत्वेन दाहोपशमहेतवः ।
Jain Education International
भगवती वृत्ति
१५/१२२. 'गोपुट्ठए' त्ति गोपृष्ठाद्यत्पतितं ' हत्थमद्दिय' ति हस्तेन मर्द्दितं - मृदितं मलितमित्यर्थः यथैतदेवातन्यनिकोदकं । १५/१२३. ' थालपाणए' त्ति स्थालं - तत्पानकमिव दाहोपशमहेतुत्वात् स्थालपानकम्, उपलक्षणत्वादस्य भाजनान्तरग्रहोऽपि दृश्यः एवमन्यान्यपि नवरं त्वक्-छल्ली सीम्बली - कलायादिफलिका, 'सुद्धपाणए' त्ति देवहस्तस्पर्श इति । १५/१२४. 'दाथालय' त्ति उदकार्यं स्थालकं 'दावारगं' ति उदकवारकं 'दाकुंभग' त्ति इह कुम्भो महान् 'दाकलसं' ति कलशस्तु लघुतरः ।
४७०
१५/१२५. 'जहा पओगपए' त्ति प्रज्ञापनायां षोडशपदे, तत्र चेदमेवमभिधीयते -' भव्वं वा फणसं वा दालिमं वा' इत्यादि 'तरुणगं' ति अभिनवम् 'आमगं' ति अपक्वम् ' आसगंसि' त्ति मुखे 'आपीडयेत्' ईषत् प्रपीडयेत् प्रकर्षत इह यदिति शेषः । १५/१२६. 'कल' त्ति कलायो-धान्यविशेषः 'सिंबलि' त्ति वृक्षविशेषः ।
१५/१२७. 'पुढविसंथारोवगए; इत्यत्र वर्त्तत इति शेषो दृश्यः 'जेणं ते देवे साइज्जइ' त्ति यस्तौ देवौ 'स्वदते' अनुमन्यते 'संसि' ति स्वके स्वकीये इत्यर्थः ।
१५/१२८. 'हल्ल' त्ति गोवालिकातृणसमानाकारः कीटकविशेषः । १५/१२९. 'जाव सव्वन्नू' इति इह यावत्करणादिदं दृश्यं - 'जिणे अरहा केवली' ति, 'वागरणं' ति प्रश्न 'वागरित्तए' त्ति प्रष्टुं 'विलिए' त्ति 'व्यलीकितः' सञ्जातव्यलीकः 'विड्डे' त्ति व्रीडाऽस्यास्तीति व्रीडः - लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादानात् । १५/१३४. ' एगंतमंते' त्ति विजने भूविभागे यावदयंपुलो गोशालकान्तिके नागच्छतीत्यर्थः 'संगारं' ति 'सङ्केतम्' अयंपुलो भवत्समीपे आगमिष्यति ततो भवानाम्रकूणिकं परित्यजतु संवृतश्च भवत्वेवंरूपमिति । १५/१३७. 'तं नो खलु एस अंबकूणए' त्ति तदिदं किलाम्रास्थिकं न भवति यद्व्रतिनामकल्प्यं यद्भवताऽऽम्रास्थिकतया विकल्पितं, किन्त्विदं यद्भवता दृष्टं तदाम्रत्वक्, एतदेवाह - 'अंबचोयए णं एसे' त्ति इयं च निर्वाणगमनकाले आश्रयणीयैव, त्वक्पानकत्वादस्या इति । तथा हल्लासंस्थानं यत्पृष्टमासीत्तद्दर्शयन्नाह - 'वंसीमूल संठिय' त्ति इदं च वंशीमूलसंस्थितत्वं तृणगोवालिकायाः लोकप्रतीतमेवेति एतावत्युक्ते मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह- ' वीणं वाएहि रे वीरगा २' एतदेव द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपि न व्यलीककारणं जातं, यो हि सिद्धिं गच्छति स चरमं गेयादि करोतीत्यादि-वचनैर्विमोहितमतित्वादिति ।
१५/१३९. ‘हंसलक्खणं' ति हंसस्वरूपं शुक्लमित्यर्थः हंसचिह्नं चेति ‘इड्डीसक्कारसमुदएणं' ऋद्ध्या ये सत्काराः - पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कारसमुदयैरित्यर्थः, समुदयश्च जनानां सङ्घः ।
१५/१४१. 'समणघायए' त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघात
For Private & Personal Use Only
www.jainelibrary.org