SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ४६६ 'निल्लेवे' त्ति निर्लेपः भूमिभित्त्यादिसंश्लिष्टसिकतालेपाभावात्, किमुक्तं भवति ? - 'निष्ठितः ' निरवयवीकृत इति 'सेत्तं सरे' त्ति अथ तत्तावत्कालखण्डं सरः - सरः सञ्ज्ञं भवति मानससञ्ज्ञं सर इत्यर्थः 'सरप्पमाणे' त्ति सर एवोक्तलक्षणं प्रमाणंवक्ष्यमाणमहाकल्पादेर्मानं सरः प्रमाणं 'महामाणसे' त्ति मानसोत्तरं, यदुक्तं चतुरशीतिर्महाकल्पशतसहस्राणीति तत्प्ररूपितम् । अथ सप्तानां दिव्यादीनां प्ररूपणायाह- 'अणंताओ संजूहाओ' त्ति अनन्तजीवसमुदायरूपान्निकायात् 'चयं चइत' त्ति च्यवं च्युत्वा च्यवनं कृत्वा चयं वा देहं 'चइत्त' त्ति त्यक्त्वा 'उवरिल्ले' त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितने इत्युक्तं 'माणसे' त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरः प्रमाणायुष्कयुक्ते इत्यर्थः 'संजू' त्ति निकायविशेषे देवे 'उववज्जइ' त्ति प्रथमो दिव्यभवः सञ्ज्ञिगर्भसङ्ख्यासूत्रोक्त एव, एवं त्रिषु मानसेषु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः, तथा 'मानसोत्तरे' त्ति महामानसे पूर्वोक्तमहाकल्पप्रमितायुष्कवति, यच्च प्रागुक्तं चतुरशीतिं महाकल्पान् शतसहस्राणि क्षपयित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यं, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति एतेषु चोपरिमादिभेदास्त्रिषु मानसोत्तरेषु त्रीण्येव संयूथानि त्रयश्च देवभवाः, आदितस्तु सप्त संयूथानि षट् च देवभवाः । सप्तमदेवभवस्तु ब्रह्मलोके, स च संयूथं न भवति, सूत्रे संयूथत्वेनानाभिहितत्वादिति, 'पाईणपडीणायए उदीणदाहिणविच्छिन्ने' त्ति इहायामविष्कम्भयोः स्थापनामात्रत्वमवगन्तव्यं तस्य प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति 'जहा ठाणपए' त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं यथा 'स्थानपदे' प्रज्ञापनाद्वितीयप्रकरणे, तच्चैवं- 'पडिपुन्नचंदसंठाणसंठिए अच्चिमाली भासरासिप्पभे' इत्यादि, 'असोगवडेंसए' इत्यत्र यावत्करणात् 'सत्तिवन्नवडेंसए चंपगवडेंसए चूयवडेंसए मज्झे य बंभलोयवडेंसए' इत्यादि दृश्यं । 'सुकुमालगभद्दलए' त्ति सुकुमारकश्चासौ भद्रश्च - भद्रमूर्त्तिरिति समासः, लकारककारौ तु स्वार्थिकाविति, 'मिउकुंडलकुंचियकेसए' त्ति मृदवः कुण्डलमिव-दर्भादिकुण्डलकमिव कुञ्चिताश्च केा यस्य स तथा मट्टगंडतलकण्णपीढए' त्ति मृष्टगण्डतले कर्णपीठके—कर्णाभरणविशेषौ यस्य स तथा, 'देवकुमारसप्पभए' त्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभो वा यः स तथा कशब्दः स्वार्थिक इति, 'कोमारियाए पव्वज्जाए' त्ति कुमारस्येयं कौमारी सैव कौमारिकी तस्यां प्रव्रज्यायां विषयभूतायां सङ्ख्यानं - बुद्धिं प्रतिलेभ इति योगः 'अविद्धकन्नए चेव' त्ति कुश्रुतिशलाकयाऽविद्धकर्णः अव्युत्पन्नमतिरित्यर्थः । 'एणेज्जस्से' त्यादि, इहैणकादयः पञ्च नामतोऽभिहिताः द्वौ पुनरन्त्यौ पितृनामसहिताविति । 'अलं थिरं' ति अत्यर्थं स्थिरं विवक्षितकालं यावदवश्यं Jain Education International परिशिष्ट - ५ : श. १५ : सू. १०२-११५ स्थायित्वात् 'धुवं' ति ध्रुवं तद्गुणानां ध्रुवत्वात् अत एव 'धारणिज्जं ' ति धारयितुं योग्यम्, एतदेव भावयितुमाह-'सीए' इत्यादि, एवंभूतं च तत् कुतः १ इत्याह- 'थिरसंघयणं' ति अविघटमानसंहननमित्यर्थः 'इतिकट्टु' त्ति 'इतिकृत्वा’ इतिहेतोस्तदनुप्रविशामीति। १५/१०२. ‘गड्डुं व' त्ति गर्त्तः श्वभ्रं 'दरिं' ति शृगालादिकृतभूविवरविशेषं 'दुग्गं ति दुःखगम्यं वनगहनादि 'निन्नं' ति निम्नं शुष्कसरःप्रभृति 'पव्वयं व' त्ति प्रतीतं विसमं' ति गर्त्तपाषाणादिव्याकुलम् 'एगेण महं' ति एकेन महता 'तणसूएण व' त्ति 'तृणसूकेन' तृणाग्रेण 'अणावरिए' त्ति अनावृतोऽसावावरणस्याल्पत्वात् 'उवलभसि' त्ति उपलम्भयसि दर्शयसीत्यर्थः ' तं मा एवं गोसाल' त्ति इह कुर्विति शेषः 'नारिहसि गोसाल' त्ति इह चैवं कर्त्तुमिति शेषः, 'सच्चेव ते सा छाय' त्ति सैव ते छाया अन्यथा दर्शयितुमिष्टा छाया-प्रकृतिः । १५/१०३. 'उच्चावयाहिं' ति असमञ्जसाभिः ‘आउसणाहिं' ति मृतोऽसि त्वमित्यादिभिर्वचनैः 'आक्रोशयति' शपति 'उद्धसणाहिं' ति दुष्कुलीनेत्यादिभिः कुलाद्यभिमानपातनार्थैर्वचनैः 'उद्धंसेइ' त्ति कुलाद्यभिमानादधः पातयतीव 'निब्भंछणाहिं' ति न त्वया मम प्रयोजनमित्यादिभिः परुषवचनैः 'निब्भंच्छेइ' त्ति नितरां दुष्टमभिधत्ते 'निच्छोडणाहिं' ति त्यजास्मदीयांस्तीर्थकरालङ्कारानित्यादिभिः 'निच्छोडेर' त्ति प्राप्तमर्थं त्याजयतीति 'नट्ठेसि कयाइ' त्ति नष्टः स्वाचारनाशात् 'असि' भवसि त्वं 'कयाइ' त्ति कदाचिदिति वितर्कार्थः अहमेवं मन्ये यदुत नष्टस्त्वमसीति 'विणट्ठेसि' त्ति मृतोऽसि 'भट्ठोसि' त्ति भ्रष्टोऽसि - सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य यौगपद्येन योगात् नष्टविनष्टभ्रष्टोऽसीति 'नाहि ते' त्ति नैव ते । १५/१०४. 'पाईणजाणवए' त्ति प्राचीनजानपदः प्राच्य इत्यर्थः 'पव्वाविए' त्ति शिष्यत्वेनाभ्युपगतः 'अब्भुवगमो पवज्ज' त्ति वचनात्, मुंडाविए' त्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात् 'सेहाविए' त्ति व्रतित्वेन सेधितः व्रतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् 'सिक्खाविए' त्ति शिक्षितस्तेजोलेश्याद्युपदेशदानतः 'बहुस्सुईकए' त्ति नियतिवादादिप्रतिपत्ति-हेतुभूतत्वात् । १५/१०७. 'कोसलजाणवए' त्ति अयोध्यादेशोत्पन्नः । १५/११२. 'वाउक्कलियाइ व' त्ति वातोत्कलिका स्थित्वा २ यो वातो वाति सा वातोत्कलिका 'वायमंडलियाइ व' त्ति मण्डलिकाभिर्यो वाति 'सेलंसि वा' इत्यादौ तृतीयार्थे सप्तमी 'आवरिज्जमाणि' त्ति स्खल्यमाना 'निवारिज्जमाणि' त्ति निवर्त्त्यमाना 'नो कम ' त्ति न क्रमते' न प्रभवति 'नो पक्कमइ' त्ति न प्रकर्षेण क्रमते 'अंचितांचिं' ति अञ्चिते - सकृद्गते अञ्चितेन वा - सकृद्गतेन देशेनाञ्चिः - पुनर्गमनमञ्चिताञ्चिः अथवाऽञ्च्या - गमनेन सह आञ्चिः आगमनमञ्च्याञ्चिर्गमागम इत्यर्थः तां करोति । १५/११३-११५. ‘अन्नाइट्ठे' त्ति 'अन्वाविष्टः ' अभिव्याप्तः 'सुहत्थि ' त्ति सुहस्तीव सुहस्ती 'अहप्पहाणे जणे' त्ति यथाप्रधानो नो For Private & Personal Use Only www.jainelibrary.org
SR No.003596
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy