________________
परिशिष्ट - ५ : श. १५ : सू. ६४-१०१
फणासंरम्भस्तत्करणे दक्षो यः स तथा तं 'लोहागरधम्ममाणधमधमेंतघोस' ति लोहस्येवाकरे ध्मायमानस्य - अग्निना ताप्यमानस्य धमधमायमानोधमधमेतिवर्णव्यक्तिमिवोत्पादयन् घोषः - शब्दो यस्य स तथा तम्, 'अणागलियचंडतिव्वरोसं' ति अनिलतः अनिवारितोऽनाकलितो वाऽप्रमेयश्चण्डः तीव्रो रोषो यस्य स तथा तं, 'समुहियतुरियचवलं धमंतं' ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिका - कौलेयकस्येव भषणं तां त्वरितं च चपलमतिचटुलतया धमन्तं शब्दं कुर्वन्तमित्यर्थः । १५/९४. 'सरसरसरसरस्स' त्ति सर्प्पगतेरनुकरणम् 'आइच्चं
निज्झायइ' त्ति आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णतार्थं । १५ / ९५. 'सभंडमत्तोवगरणमायाय' त्ति सह भाण्डमात्रया - पणित
परिच्छेदन उपकरणमात्रया च ये ते तथा, 'एगाहच्च' ति एका एव आहत्या - आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं तद्यथा भवत्येवं कथमिव ? इत्याह- कूडाहच्चं ' ति कूटस्येव - पाषाणमयमारणमहायन्त्रस्येवाहत्या - आहननं यत्र तत् कूटाहत्यं तद्यथा भवतीत्येवं ।
१५ / ९६. परियार, त्ति पर्यायः - अवस्था 'कित्तिवन्नसद्दसिलोग' त्ति इह वृद्धव्याख्या-सर्वदिग्व्यापी साधुवादः कीर्त्तिः एकदिग्व्यापी वर्णः अर्द्धदिग्व्यापी शब्दः तत्स्थान एव श्लोकः श्लाघेतियावत् 'सदेवमणुयासुरे लोए' त्ति सह देवैर्मनुजैरसुरैश्च यो लोको - जीवलोकः स तथा तत्र, 'पुव्वंति' त्ति 'प्लवन्ते' गच्छन्ति 'प्लुङ्गतौ' इति वचनात् 'गुवंति 'गुप्यन्ति' व्याकुलीभवन्ति 'गुप व्याकुलत्वे' इति वचनात् 'थुवंति' त्ति क्वचित्तत्र 'स्तूयन्ते' अभिष्ट्रयन्ते - अभिनन्द्यन्ते, क्वचित् परिभमन्तीति दृश्यते, व्यक्तं चैतदिति, एतदेव दर्शयति- 'इति खल्वि' त्यादि, इतिशब्दः प्रख्यातगुणानुवादनार्थः, 'तं' ति तस्मादिति निगमनं, 'तवेणं तेएणं' ति तपोजन्यं तेजस्तप एव वा तेन 'तेजसा ' तेजोलेश्यया 'जहा वा वालेणं' ति यथैव 'व्यालेन' भुजगेन 'सारक्खामि' त्ति संरक्षामि दाहभयात् 'संगोवयामि' ति संगोपयामि क्षेमस्थानप्रापणेन ।
४६८
१५/९८. 'पभु' त्ति प्रभविष्णुर्गोशालको भस्मराशिं कर्तुम् ? इत्येकः
प्रश्नः, प्रभुत्वं च द्विधा - विषयमात्रापेक्षया तत्करणश्चेति पुनः पृच्छति - 'विसए ण' मित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, 'समत्थे ण' मित्यादिना तु द्वितीय इति, 'पारितावणियं' ति पारितापनिक क्रियां पुनः कुर्यादिति । 'अणगाराणं' ति सामान्यसाधूनां 'खंतिक्खम' त्ति क्षान्त्या - क्रोधनिग्रहेण क्षमन्त इति क्षान्तिक्षमाः 'धेराणं' ति आचार्यादीनां वयः श्रुतपर्यायस्थविराणां ।
१५/९९. 'पडिचोयणाए' त्ति तन्मतप्रतिकूला चोदना - कर्तव्यप्रोत्साहना प्रतिचोदना तया 'पडिसाहरणाए' त्ति तन्मतप्रतिकूलतया विस्मृतार्थस्मारणा तया, किमुक्तं भवति ? - ‘धम्मिएण' मित्यादि, ‘पडोयारेणं' ति प्रत्युपचारेण प्रत्युपकारेण वा 'पडोयारेउ' त्ति 'प्रत्युपचारयतु' प्रत्युपचारं करोतु एवं
Jain Education International
भगवती वृत्ति
प्रत्युपकारयतु वा 'मिच्छं विपडिवन्ने' त्ति मिध्यात्वं म्लेच्छ्यं वा - अनार्यत्वं विशेषतः प्रतिपन्न इत्यर्थः । १५/१०१. 'सुठु णं' ति उपालम्भवचनम् 'आउसो' त्ति हे आयुष्मन् ! - चिरप्रशस्तजीवित! 'कासव' त्ति काश्यपगोत्रीय ! 'सत्तमं पउट्टपरिहारं परिहरामि' त्ति सप्तमं शरीरान्तप्रवेशं करोमीत्यर्थः,
च
'जेवि आई' ति येऽपि च 'आई' ति निपातः 'चउरासीइं महाकप्पसयसहस्साई ' इत्यादि गोशालक - सिद्धान्तार्थः स्थाप्यो, वृद्धैरप्यनाख्यातत्वात्, आह चूर्णिकारः -संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिज्जइ' ि तथाऽपि शब्दानुसारेण किञ्चिदुच्यते - चतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः कालविशेषाः, ते च लोकप्रसिद्धा अपि भवन्तीति तद्व्यवच्छेदार्थमुक्तं महाकल्पावक्ष्यमाणस्वरूपास्तेषां या शतसहस्राणि लक्षाणि तानि तथा, 'सत्त दिव्वे' त्ति सप्त 'दिव्यान्' देवभवान् 'सत्त संजू' त्ति सप्त संयूथान् -निकायविशेषान्, 'सत्तसन्निगब्भे' त्ति सञ्ज्ञिगर्भान् - मनुष्यगर्भवसतीः, एते च तन्मतेन मोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, 'सत्त पउट्टपरिहारे' त्ति सप्त शरीरान्तरप्रवेशान्, एते च सप्तमसञ्ज्ञिगर्भानन्तरं क्रमेणावसेयाः, तथा 'पंचे' त्यादाविदं संभाव्यते 'पंच कम्मणि सयसहस्साइं ' ति कम्र्म्मणि-कर्मविषये कर्म्मणामित्यर्थः पञ्च शतसहस्राणि लक्षाणि 'तिन्नि य कम्मंसि' त्ति त्रींश्च कर्म्मभेदान् 'खवइत्त' त्ति 'क्षपयित्वा' अतिवाह्य ।
'से जहे' त्यादिना महाकल्पप्रमाणमाह, तत्र 'से जहा व' त्ति महाकल्पप्रमाणवाक्योपन्यासार्थः 'जहिं वा पज्जुवत्थिय' त्ति यत्र गत्वा परि-सामस्त्येन उपस्थिता-उपरता समाप्ता इत्यर्थः 'एस णं अद्ध' त्ति एष गङ्गाया मार्गः 'एएणं गंगापमाणेणं' ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् 'एवामेव' त्ति उक्तेनैव क्रमेण 'सपुव्वावरेणं' ति सह पूर्वेण गङ्गादिना यदपरं महागङ्गादि तत् सपूर्वापरं तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतयेत्यर्थः ।
'तासि दुविहे' इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः द्विविध उद्धारः उद्धरणीयद्वैविध्यात्, 'सुहुमबोंदिकलेवरे चेव' त्ति सूक्ष्मबोन्दीनिसूक्ष्माकाराणि कलेवराणि - असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्वारे स तथा 'बायरबोंदिकलेवरे चेव' त्ति (ग्रन्थाग्रम् १४००० ) बादरबन्दीनि-बादराकाराणि कलेवराणि - बालुकाकणरूपाणि यत्र तथा, 'ठप्पे' त्ति न व्याख्येयः इतरस्तु व्याख्येय इत्यर्थः 'अवहाय' त्ति अपहाय त्यक्त्वा 'से कोट्ठे' त्ति स कोष्ठो - गङ्गासमुदायात्मकः 'खीणे' त्ति क्षीणः स चावशेष - सद्भावेऽप्युच्यते यथा क्षीणधान्यं कोष्ठागारमत उच्यते 'नीरए' त्ति नीरजाः स च तद्भूमिगतरजसामप्यभावे उच्यते इत्याह
For Private & Personal Use Only
www.jainelibrary.org