________________
भगवती वृत्
परिभोगस्तत्रैवोत्पादोऽसौ परिवृत्यपरिहारस्तं परिहरन्तिकुर्वन्तीत्यर्थः ।
४६७
१५/७४. 'खुड्डइ' त्ति त्रोटयति ।
१५/७५. 'पउट्टे' त्ति परिवर्त्तः परिवर्तवाद इत्यर्थः ' आयाए अवक्कमणे' त्ति आत्मनाऽऽदाय चोपदेशम् 'अपक्रमणम्' अपसरणं ।
१५/७६. 'जहा सिवे' त्ति शिवराजर्षिचरिते ।
१५/८०. ‘महया अमरिस' त्ति महान्तममर्षम् ' एवं वावि' त्ति एवं चेति १५/९०. 'अच्छं' ति निर्मलं 'जच्चं' ति अकृत्रिमं 'तावणिज्जं' ति प्रज्ञापकोपदर्श्यमानकोपचिह्नम्, अपीति समुच्चये । तापनीयं तापसहं 'महत्थं' ति महाप्रयोजनं 'महग्घं' ति महामूल्यं 'महरिहं' ति महतां योग्यं ।
१५/८३. 'महं उवमियं' ति मम सम्बन्धि महद्वा विशिष्टं
औपम्यमुपमा दृष्टान्त इत्यर्थः ।
१५/८५. 'चिरातीताए अद्धाए' त्ति चिरमतीते काले 'उच्चावय' त्ति उच्चावचा–उत्तमानुत्तमाः ‘अत्थत्थि' त्ति द्रव्यप्रयोजनाः, कुत एवम् ? इत्याह- 'अत्थलुद्ध' त्ति द्रव्यलालसाः अत एव 'अत्थगवेसिय' त्ति, अर्थगवेषिणोऽपि कुत इत्याह- 'अत्थकंखिय' त्ति प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः, 'अत्यपिवासिय' त्ति अप्राप्तार्थ - विषयसञ्जाततृष्णाः, यत एवमत एवाह - ' अत्थगवेसणयाए' इत्यादि, 'पणियभंडे' त्ति पणितं व्यवहारस्तदर्थं भाण्डं पणितं वा-क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणितभाण्डं 'सगडी सागडेणं' ति शकट्योगन्त्रिकाः शकटानां - गन्त्रीविशेषाणां समूहः शाकटं ततः समाहारद्वन्द्वोऽतस्तेन 'भत्तपाणपत्थयणं' ति भक्तपानरूपं यत्पश्यदनं शम्बलं तत्तथा, 'अगामियं' ति अग्रामिकां अकामिकां वा अनभिलाषविषयभूताम् 'अणोहियं' ति अविद्यमानजलौघिकामतिगहनत्वेनाविद्यमानोहां वा 'छिन्नावायं' ति व्यवच्छिन्नसार्थघोषाद्यापातां 'दीहम' ति दीर्घमार्गां दीर्घकालां वा ।
१५/८७. 'किण्हं किण्होभासं' इह यावत्करणादिदं दृश्यं - 'नीलं
नीलोभासं हरियं हरिओभास' मित्यादि, व्याख्या चास्य प्राग्वत्, 'महेगं वम्मीयं' ति महान्तमेकं वल्मीकं 'वप्पुओ' त्ति वपूंषि - शरीराणि शिखराणीत्यर्थः 'अब्भुग्गयाओ' त्ति अभ्युद्गतान्यभ्रोद्गतानि वोच्चानीत्यर्थः ' अभिनिसढाओ ति अभिविधिना निर्गताः सटाः - तदवयवरूपाः केशरिस्कन्धसटावद् येषां तान्यभिनिःशटानि, इदं च तेषामूर्द्धर्वगतं तिर्यगाह - 'तिरियं सुसंपगहियाओ' त्ति सुसंप्रगृहीतानि' सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि ? इत्याह- 'अहे पणगद्धरूवाओ' त्ति सर्पार्द्धरूपाणि यादृशं पन्नगस्योदरच्छिन्नस्य पुच्छत ऊद्धर्वीकृतमर्द्धमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा । पन्नगार्द्धरूपाणि चर्वणादिनाऽपि भवन्तीत्याह-'पन्नगद्धसंठाणसंठियाओ' त्ति भावितमेव ।
स्वरूपमथ
परिशिष्ट - ५ : श. १५ : सू. ७४-६३
१५/८९. ‘अच्छं' ति निर्मलं 'पत्थं' ति पथ्यं - रोगोपशमहेतुः 'जच्च' ति जात्यं संस्काररहितं 'तणुयं' ति तनुकं सुजरमित्यर्थः 'फालियवण्णाभं' ति स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव 'ओरालं' ति प्रधानम् 'उदगरयणं' ति उदकमेव रत्नमुदकरत्नं उदकजातौ तस्योत्कृष्टत्वात्, 'वाहणाई पज्जेंति' त्ति बलीवर्दादिवाहनानि पाययन्ति ।
१५/८८. 'ओरालं उदगरयणं आसाइस्सामो' त्ति अस्यायमभिप्रायःएवंविधभूमि किलोदकं भवति वल्मीके चावश्यम्भाविनो गर्त्ताः अतः शिखरभेदे गर्तः, प्रकटो भविष्यति तत्र च जलं भविष्यतीति ।
Jain Education International
१५/९१. ‘विमलं' ति विगतागन्तुकमलं 'निम्मलं' ति स्वाभाविकमलरहितं 'नित्तलं' ति निस्तलमतिवृत्तमित्यर्थः 'निक्कलं' ति निष्कलं त्रासादिरत्नदोषरहितं 'वइररयणं' ति वज्राभिधानरत्नं । १५ / ९२. 'हियकामए' त्ति इह हितं - अपायाभावः 'सुहकामए' त्ति
सुखं-आनन्दरूपं ‘पत्थकामए' त्ति पथ्यमिव पथ्यं -आनन्दकारणं वस्तु 'आणुकंपिए' त्ति अनुकम्पया चरतीत्यानुकम्पिकः ‘निस्सेयसिए' त्ति निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः, अधिकृत वाणिजस्योक्तैरेव गुणैः कैश्चिद्युगपद्योगमाह-'हिए' त्यादि, 'तं होउ अलाहि पज्जत्तं णे' त्ति तत्-तस्माद् भवतु अलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाचकत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताः 'णे' त्ति नः अस्माकं सउवसग्गा यावि' त्ति इह चापीति सम्भावनार्थः । १५/९३. 'उग्गविसं' ति दुर्जरविषं 'चंडविसं' ति दष्टकनरकायस्य झगिति व्यापकविषं 'घोरविसं' ति परम्परया पुरुषसहस्रस्यापि हननसमर्थविषं 'महाविषं' ति जम्बूद्वीपप्रमाणस्यापि देहस्य व्यापनसमर्थविषम् 'अइकाय महाकायं' ति कायान् शेषाहीनामतिक्रान्तोऽतिकायोऽत एव महाकायस्ततः कर्म्मधारयः, अथवाऽतिकायानां मध्ये महाकायोऽतिकायमहाकायोऽतस्तं, 'मसिमूसाकालग' त्ति मषी - कज्जलं मूषा च-सुवर्णादितापनभाजनविशेषस्ते इव कालको यः स तथा तं 'नयणविसरोसपुन्नं' ति नयनविषेण दृष्टिविषेण रोषेण च पूर्णो यः स तथा तम् ‘अंजणपुंजनिगरप्पगासं' ति अञ्जनपुञ्जानां निकरस्येव प्रकाशोदीप्तिर्यस्य स तथा तं, पूर्वं कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततेति, 'रत्तच्छं' ति रक्ताक्षं 'जमलजुयल - चंचलचलंतजीहं' ति जमलं सहवर्त युगलं-द्वयं चञ्चलं यथा भवत्येवं चलन्त्योः - अतिचपलयोर्जिह्वयोर्यस्य स तथा तं प्राकृतत्वाच्चैवं समासः, 'धरणितलवेणिभूयं' ति धरणीतलस्य वेणीभूतो - वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्घत्वश्लक्ष्णपश्चाद्भागत्वादिसाधर्म्यात्स तथा तम् 'उक्कडफुडकुडिलजडुलकक्खडवियडफडाडोवकरणदच्छं' ति उत्कटो बलवताऽन्येनाध्वंसनीयत्वात् स्फुटो - व्यक्तः प्रयत्नविहितत्वात् कुटिलो - वक्रस्तत्स्वरूपत्वात् जटिल:-स्कन्धदेशे केशरिणामिवाहीनां केसरसद्भावात् कर्कशो-निष्ठुरो बलवत्त्वात् विकटो-विस्तीर्णो यः स्फटाटोप :
For Private & Personal Use Only
www.jainelibrary.org