SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट - ५ : श. १५ : सू. २५-७३ १५/२८. 'धम्मंतेवासि' त्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्यत उच्यते - धर्मान्तेवासी । १५/३२ : 'खज्जगविहीए' त्ति खण्डाखाद्यादिलक्षणभोजनप्रकारेण । १५/३९. 'सव्वकामगुणिएणं' ति सर्वे कामगुणा - अभिलाषविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन । १५/४६. 'परमन्त्रेणं' ति परमान्नेन-क्षैरेय्या 'आयामेत्थ' त्ति आचामितवान् तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्ध्यर्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः । १५/५१. 'सब्भिंतरबाहिरिए' त्ति सहाभ्यन्तरेण विभागेन बाह्येन च यत्तत्तथा तत्र 'मग्गणगवेसणं' ति अन्वयतो मार्गणं व्यतिरेकतो गवेषणं ततश्च समाहारद्वन्द्वः 'सूइं व' त्ति श्रूयत इति श्रुतिः - शब्दस्तां चक्षुषा किल दृश्यमानोऽर्थः शब्देन निश्चीयत इति श्रुतिग्रहणं 'खुइं व' त्ति क्षवणं क्षुतिः - छीत्कृतं ताम् एषाऽप्यदृश्यमनुष्यादिगमिका भवतीति गृहीता, 'पवत्तिं व' त्ति प्रवृत्तिं - वार्त्ता, 'साडियाओ' त्ति परिधानवस्त्राणि 'पाडियाओ' त्ति उत्तरीयवस्त्राणि, क्वचित् 'भंडियाओ' त्ति दृश्यते तत्र भण्डिका–रन्धनादिभाजनानि, 'माहणे आयामेति' त्ति शाटिकादीनर्थान् ब्राह्मणान् लम्भयति शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, 'सउत्तरोट्ठे' ति सह उत्तरौष्ठेन सोत्तरौष्ठं श्मश्रुकं यथा भवतीत्येवं 'मुंडं' ति मुण्डनं कारयति नापितेन । १५/५३. 'पणियभूमीए' त्ति पणितभूमौ - भाण्डविश्रामस्थाने प्रणीतभूमौ वा मनोज्ञभूमौ 'अभिसमन्नागए' त्ति मिलितः । १५/५५. 'एयमहं पडिसुणेमि त्ति अभ्युपगच्छामि, यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत् - स्नेहगर्भानुकम्पासद्भावात् छद्मस्थतयाऽनागत - दोषानवगमादवश्यंभावित्वाच्चैतस्यार्थस्येति भावनीयमिति । ४६६ १५/५६. 'पणियभूमीए' त्ति पणितभूमेरारभ्य प्रणीतभूमौ वा - मनोज्ञभूमौ विहृतवानिति योगः, 'अनिच्चजागरियं' ति अनित्यचिन्तां कुर्वन्निति वाक्यशेषः । १५/५७. 'पढमसरयकालसमयंसि' ति समयभाषया मार्गशीर्षपौषौ शरदभिधीयते तत्र प्रथमशरत्कालसमये मार्गशीर्षे । 'अप्पवुट्टिकायंसि' त्ति अल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुक्कार्त्तिकौ शरदित्याहुः, अल्पवृष्टिकायत्वाच्च तत्रापि विहरतां न दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेन पर्युषणाकल्पेऽभिहितत्वादिति । 'हरियगरेरिज्जमाणे' त्ति हरितक इतिकृत्वा 'रेरिज्जमाणे' त्ति अतिशयेन राजमान इत्यर्थः । १५/५८. 'तए णं अहं गोयमा ! गोसालं मंखलिपुत्तं एवं वयासि' त्ति, इह यद्भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, 'तिलसंगलियाए' त्ति तिलफलिकायां । १५/५९. 'ममं पणिहाए' त्ति मां प्रणिधाय -मामाश्रित्यायं मिथ्यावादी भवत्वितिविकल्पं कृत्वा, 'अब्भवद्दलए' त्ति अभ्ररूपं वारो Jain Education International भगवती वृत्ति जलस्य दलिकं कारणमभ्रवार्दलकं 'पतणतणायइ' त्ति प्रकर्षेण तणतणायते गर्जतीत्यर्थः 'नच्चोदगं' ति नात्युदकं यथा भवति 'नाइमट्टियं' ति नातिकर्द्दमं तथा भवतीत्यर्थः 'पविरलपप्फुसियं' ति प्रविरलाः प्रस्पृशिका-विप्रुषो यत्र तत्तथा, 'रयरेणुविणासणं' ति रजो - वातोत्पाटितं व्योमवर्त्ति रेणवश्च भूमिस्थितपांशवस्तद्विनाशनं-तदुपशमकं, 'सलिलोदगवासं' ति सलिला: - शीतादिमहानद्यस्तासामिव यदुदकं - रसादिगुणसाधर्म्यादिति तस्य यो वर्षः स सलिलोदकवर्षोऽतस्तं, 'बद्धमूले' त्ति बद्धमूलः सन् 'तत्थेव पइट्ठिए' त्ति यत्र पतितस्तत्रैव प्रतिष्ठितः । १५/६०. ‘पाणभूयजीवसत्तदयट्टयाए' त्ति प्राणादिषु समान्येन या दा सैवार्थः प्राणादिदयार्थस्तद्भावस्तत्ता तया, अथवा षट्पदिका एवं प्राणानामुच्छ्रासादीनां भावात्प्राणाः भवनधर्म्मकत्वाद्भूताः उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्त्वात्सत्त्वास्ततः कर्म्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, 'तत्थेव ' त्ति शिरः प्रभृतिके । १५/६१. 'किं भवं मुणी मुणिए' त्ति किं भवान् 'मुनिः ' तपस्वी जातः 'मुनिए' त्ति ज्ञाते तत्त्वे सति ज्ञात्वा वा तत्त्वम्, अथवा किं भवान् 'मुनी' तपस्विनी 'मुणिए' त्ति मुनिकः- तपस्वीति, अथवा कं भवान् 'मुनिः' यतिः उत 'मुणिकः' ग्रहगृहीतः 'उदाहु' ति उताहो इति विकल्पार्थो निपातः 'जूयासेज्जायरए' त्ति यूकानां स्थानदातेति । १५/६४. 'सत्तट्ठ पयाई पच्चोसक्कइ' त्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थमिति । १५/६६. 'सा उसिणं तेयलेस्सं' ति स्वां स्वकीयामुष्णां तेजोलेश्यां 'से गयमेयं भगवं गयगयमेवं भगवं' ति अथ गतं अवगत मेतन्मया हे भगवन्! यथा भगवतः प्रसादादयं न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम् । इह च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन दयैकरसत्वाद्भगवतः यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करिष्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यंभाविभावत्वाद्वेत्यवसेयमिति । १५/६९. ‘संखित्तविउलतेयलेसे' त्ति समाऽप्रयोगकाले विपुला प्रयोगकाले तेजोलेश्या - लब्धिविशेषो यस्य स तथा । १५/७० 'सनहाए' त्ति सनखया यस्यां पिण्डिकायां बध्यमानायामङ्गुलीनखा अङ्गुष्ठस्याधो लगन्ति सा सनखेत्युच्यते ' कुम्मासपिंडियाए ' त्ति कुल्माषाः - अर्द्धस्विन्ना मुद्गादयो माषा इत्यन्ये 'वियडासएणं' ति विकटं जलं तस्याशयः आश्रयो वा-स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुं च प्रस्तावाच्चुलुकमाहुर्वृद्धाः | १५ / ७२. 'जाहे य मो' त्ति यदा च स्मो-भवामो वयं 'अनिप्फन्नमेव' त्ति मकारस्यागमिकत्वादनिष्पन्न एव । १५/७३. वणस्सइकाइयाओ पउट्टपरिहारं परिहरंति' त्ति परिवृत्य २-मृत्वा २ यस्तस्यैव वनस्पतिशरीरस्य परिहारः For Private & Personal Use Only www.jainelibrary.org
SR No.003596
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy