SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-५ : श. १४ : उ. १० : सू. १३२-१४६ ४६४ भगवती वृत्ति हितानुबन्ध इति, निरतिचारचरण इत्यन्ये, 'सुक्काभिजाइ' त्ति शुक्लाभिजात्यः परमशुक्ल इत्यर्थः, अत एवोक्तम्'आकिञ्चन्यं मुख्यं ब्रह्मापि परं सदागमविशुद्धम्। सर्व शुक्लमिदं खलु नियमात्संवत्सरादूर्वम्॥१॥ एतच्च श्रमणविशेषमेवाश्रित्योच्यते न पुनः सर्व एवैवंविधो भवतीति। चतुर्दशशते नवमः॥१४-९॥ दशम उद्देशकः एक एवोपयोग इष्यते, ततश्च यदा सत्याद्यन्तरस्यां भाषायां वर्तते तदा नान्यस्यामित्येकैव भाषेति। पुद्गलाधिकारादेवेदमाह१४/१३२. 'तेण' मित्यादि, 'अचिरोद्गतम्' उद्गतमात्रमत एव बालसूर्य जासुमणाकुसुमप्पगासं' ति जासुमणा नाम वृक्षस्तत्कुसुमप्रकाशमत एव लोहितकमिति 'किमिदं' ति किंस्वरूपमिदं सूर्यवस्तु, तथा किमिदं भदन्त ! सूर्यस्य-सूर्यशब्दस्यार्थः--अन्वर्थवस्तु?, सुभे सूरिए' त्ति शुभस्वरूपं सूर्यवस्तु सूर्यविमानपृथिवीकायिकानामातपाभिधानपुण्यप्रकृत्युदय-वर्त्तित्वाद् लोकेऽपि प्रशस्ततया प्रतीतत्वात् ज्योतिष्केन्द्रत्वाच्च, तथा शुभः सूर्यशब्दार्थस्तथाहि-सूरेभ्यः क्षमातपोदानसङ्ग्रामादिवीरेभ्यो हितः सूरेषु वा साधुः सूर्यः।। १४/१३३-१३५. 'पभ' त्ति दीप्तिः, छाया-शोभा प्रतिबिम्बं वा, लेश्या-वर्णः। लेश्याप्रक्रमादिदमाह१४/१३६. 'जे इमे' इत्यादि, ये इमे प्रत्यक्षाः 'अज्जत्ताए' त्ति आर्यतया पापकर्मबहिर्भूततया अद्यतया वा-अधुनातनतया वर्तमानकालतयेत्यर्थः 'तेयलेस्सं' ति तेजोलेश्यां-सुखासिकां तेजोलेश्या हि प्रशस्तलेश्योपलक्षणं सा च सुखासिकाहेतुरिति कारणे कार्योपचारात्तेजोलेश्याशब्देन सुखासिका विवक्षितेति, 'वीइवयंति' व्यतिव्रजन्ति व्यतिक्रामन्ति 'असुरिंदवज्जियाणं' ति चमरबलवर्जितानां 'तेण परं' ति ततः संवत्सरात्परतः 'सुक्के' त्ति शुक्लो नामाभिन्नवृत्तोऽमत्सरी कृतज्ञः सदारम्भी अनन्तरं शुक्ल उक्तः, स च तत्त्वतः केवलीति केवलिप्रभूत्यर्थ प्रतिबद्धो दशम उद्देशकः, तस्य चेदमादिसूत्रम्१४/१३८-१४२. केवली' त्यादि, इह केवलिशब्देन भवस्थकेवली गृह्यते उत्तरत्र सिद्धग्रहणादिति। 'आहोहियं' ति प्रतिनियतक्षेत्रावधिज्ञानं 'परमाहोहियं' ति परमावधिकं। 'भासेज्ज व त्ति भाषेतापृष्ट एव 'वागरेज्ज' त्ति प्रष्टः सन् व्याकुर्यादिति। १४/१४६. 'ठाणं' ति ऊर्वस्थानं निषदनस्थानं त्वग्वर्तनस्थानं चेति 'सेज्जं' ति शय्यां-वसतिं 'निसीहियं ति अल्पतरकालिका वसतिं 'चेएज्ज' त्ति कुर्यादिति॥ चतुर्दशशते दशमः।।१४-१०॥ समाप्तं च वृत्तितश्चतुर्दशं शतम्॥१४॥ चतुर्दशस्येह शतस्य वृत्तिर्येषां प्रभावेण कृता मयैषा। जयन्तु ते पूज्यजना जनानां, कल्याणसंसिद्धिपरस्वभावाः॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003596
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy