________________
भगवती वृत्ति
४५७
'अह से' त्ति 'अथ' अनन्तरं सः - एष परमाणोः स्कन्धस्य चानेकवर्णादिपरिणामो 'निर्जीर्णः ' क्षीणो भवति परिणामान्तराधायककारणोपनिपातवशात् 'ततः पश्चात् ' निर्जरणानन्तरम् 'एकवर्णः' अपेतवर्णान्तरत्वादेकरूपो विवक्षितगन्धादिपर्यायापेक्षयाऽपरपर्यायाणामपेतत्वात् 'सिय' त्ति बभूव अतीतकालविषयत्वादस्येति प्रश्नः, अहोत्तरमेतदेवेति, अनेन च परिणामिता पुद्गलद्रव्यस्य प्रतिपादितेति । 'एस ण' मित्यादि वर्त्तमानकालसूत्रं, तत्र च 'पडुप्पन्नं' ति विभक्तिपरिणामात् 'प्रत्युत्पन्ने' वर्त्तमाने 'शाश्वते' सदैव तस्य भावात् 'समये' कालमात्रे 'एवं चेव' त्ति करणात्पूर्वसूत्रोक्तमिदं दृश्यं - 'समयं लुक्खी समयं अलुक्खी समयं लुक्खी वा अलुक्खी वा' इत्यादि, यच्चेहानन्तमिति नाधीतं तद्वर्त्तमानसमयस्यानन्तत्वासम्भवात्, अतीतानागतसूत्रयोस्त्वन्तमित्यधीतं तयोरनन्तत्वसम्भवादिति ।
अनन्तरं पुद्गलस्वरूपं निरूपितं, पुद्गलश्च स्कन्धोऽपि भवतीति पुद्गलभेदभूतस्य स्कन्धस्य स्वरूपं निरूपयन्नाह१४/४७. 'एस णं भंते! खंधे' इत्यादि ॥
स्कन्धश्च स्वप्रदेशापेक्षया जीवोऽपि स्यादितीत्थमेव जीवस्वरूपं निरूपयन्नाह -
१४ / ४८. 'एस णं भंते! जीवे' इत्यादि, 'एषः ' प्रत्यक्षो जीवोऽतीतेऽनन्ते शाश्वते समये समयमेकं दुःखी दुःखहेतुयोगात् समयं चादुःखी सुखहेतुयोगाद्बभूव समयमेव च दुःखी वाsदुःखी वा, वाशब्दयोः समुच्चयोर्थत्वाद् दुःखी च सुखी च तद्धेतुयोगात्, न पुनरेकदा सुखदुःखवेदनमस्ति एकोपयोगत्वाज्जीवस्येति, एवंरूपश्च सन्नसौ स्वहेतुतः किमनेकभावं परिणामं परिणमति पुनश्चैकभावपरिणामः स्यात् ? इति पृच्छन्नाह - 'पुव्विं च करणेणं अणेगभावं अणेगभूयं परिणामं परिणमइ' 'पूर्वं च' एकभावपरिणामात्प्रागेव करणेन कालस्वभावादिकारणसंवलिततया शुभाशुभकर्मबन्धहेतुभूतया क्रिययाऽनेको भावः - पर्यायो दुःखित्वादिरूपो यस्मिन् स तथा तमनेकभावं परिणाममिति योगः 'अणेगभूयं' ति अनेकभावत्वादेवानेकरूपं 'परिणामं' स्वभावं 'परिणमइ' त्ति अतीतकालविषयत्वादस्य 'परिणतवान्' प्राप्तवानिति । 'अह से'
अथ 'तत्' दुःखितत्वाद्यनेकभावहेतुभूतं 'वेयणिज्जे' त्ति वेदनीयं कर्म्म उपलक्षणत्वाच्चास्य ज्ञानावरणीयादि च 'निर्जीर्णं' क्षीणं ततः पश्चात् 'एगभावे' त्ति एको भावः सांसारिकसुखविपर्ययात् स्वाभाविकसुखरूपो यस्यासावेकभावोऽत एव 'एकभूतः ' एकत्वं प्राप्तः 'सिय' त्ति बभूव कर्म्मकृतधर्मान्तरविरहादिति प्रश्नः इहोत्तरमेतदेव । एवं प्रत्युत्पन्नानागतसूत्रे अपीति ।
पूर्वं स्कन्ध उक्तः, स च स्कन्धरूपत्यागाद्विनाशी भवति, एवं परमाणुरपि स्यान्न वा ? इत्याशङ्कायामाह - १४/४९,५०. 'परमाणुपोग्गले णं' ति पुद्गलः स्कन्धोऽपि स्यादतः
Jain Education International
परिशिष्ट - ५ : श. १४ : उ. ४ : सू. ४७-५२
परमाणुग्रहणं 'सासए' त्ति शश्वद्भवनात् शाश्वतः नित्यः अशाश्वतस्त्वनित्यः 'सिय सासए' त्ति कथञ्चिच्छाश्वतः 'दव्वट्टयाए' त्ति द्रव्यं - उपेक्षितपर्यायं वस्तु तदेवार्थो द्रव्यार्थ - स्तद्भावस्तत्ता तया द्रव्यार्थतया शाश्वतः स्कन्धान्तर्भावेऽपि परमाणुत्वस्याविनष्टत्वात् प्रदेशलक्षणव्यपदेशान्तरव्यपदेश्यत्वात्, ‘वन्नपज्जवेहिं' ति परि- सामस्त्येनावन्ति-गच्छन्ति ये ते पर्यवा विशेषा धर्म्मा इत्यनर्थान्तरं ते च वर्णादिभेदादनेकधेयत्यतो विशेष्यते वर्णस्य पर्यवा वर्णपर्यवा अतस्तैः, 'असासए' त्ति विनाशी, पर्यवाणां पर्यवत्वेनैव विनश्वरत्वादिति । परमाण्वधिकारादेवेदमाह
चरमः,
१४/५१. ‘परमाणु' इत्यादि, 'चरमे' त्ति यः परमाणुर्यस्माद्विवक्षितभावाच्च्युतः सन् पुनस्तं भावं न प्राप्स्यति स तद्भावापेक्षया एतद्विपरीतस्त्वचरम इति, तत्र 'दव्वादेसेणं' ति आदेशः - प्रकारो द्रव्यरूप आदेशो द्रव्यादेशस्तेन नो चरमः, स हि द्रव्यतः परमाणुत्वाच्च्युतः सङ्घातमवाप्यापि ततश्च्युतः परमाणुत्वलक्षणं द्रव्यत्वमवाप्स्यतीति । 'खेत्तादेसेणं' ति क्षेत्रविशेषितत्वलक्षणप्रकारेण 'स्यात्' कदाचिच्चरमः, कथम् ?, यत्र क्षेत्रे केवली समुद्घातं गतस्तत्र क्षेत्रे यः परमाणुरवगाढोऽसौ तत्र क्षेत्रे तेन केवलिना समुद्घातगतेन विशेषितो न कदाचनाप्यवगाहं लप्स्यते, केवलिनो निर्वाणगमनादित्येवं क्षेत्रतश्चरमोऽसाविति, निर्विशेषण क्षेत्रापेक्षया त्वचरमः, तत्क्षेत्रावगाहस्य तेन लप्स्यमानत्वादिति ।
'कालादेसेणं' ति कालविशेषितत्वलक्षणप्रकारेण 'सिय चरमे' त्ति कथञ्चिच्चरमः, कथम् ?, यत्र काले पूर्वाह्णादौ केवलिना समुद्घातः कृतस्तत्रैव यः परमाणुतया संवृत्तः स च तं कालविशेषं केवलिसमुद्घात- विशेषितं न कदाचनापि प्राप्स्यति तस्य केवलिनः सिद्धिगमनेन पुनः समुद्घाताभावादिति तदपेक्षया कालतश्चरमोऽसाविति निर्विशेषणकालापेक्षया त्वचरम इति । 'भावाएसेणं' ति भावो - वर्णादिविशेषस्तद्विशेषलक्षणप्रकारेण 'स्याच्चरमः' कथञ्चिच्चरमः, कथं ?. विवक्षितकेवलिसमुद्घातावसरे यः पुद्गलो वर्णादिभावविशेषं परिणतः स विवक्षितकेवलिसमुद्घातविशेषितवर्णपरिणामापेक्षया चरमो यस्मात्तत् केवलिनिर्वाणे पुनस्तं परिणाममसौ न प्राप्स्यतीति, इदं च व्याख्यानं चूर्णिकारमतमुपजीव्य कृतमिति । अनन्तरं परमाणोश्चरमत्वावचरमत्वलक्षणः परिणामः प्रतिपादितः, अथ परिणामस्यैव भेदाभिधानायाह१४ / ५२. 'कइविहे ण' मित्यादि, तत्र परिणमनं - द्रव्यस्यावस्थान्तर
गमनं परिणामः, आह च
'परिणामो ह्यर्थान्तरगमनं न च सर्वथा व्यवस्थानम् । न तु सर्वथा विनाशः परिणामस्तद्विदामिष्टः ॥ १ ॥' इति, 'परिणामपयं' ति प्रज्ञापनायां त्रयोदशं परिणामपदं, तच्चैवं- 'जीवपरिणामे णं भंते! कइविहे पन्नत्ते ?, गोयमा ! दसविहे
For Private & Personal Use Only
www.jainelibrary.org