________________
परिशिष्ट - ५ : श. १४ : उ. ४: सू. ३२-४६
४५६
देवानामेव च संभवाद्देवदण्डकोऽत्र व्यतिकरे भणितव्य इति । प्राग् देवानाश्रित्य मध्यगमनलक्षणो दुर्विनय उक्तः, अथ नैरयिकादीनाश्रित्य विनयविशेषानाह
१४ / ३२. 'अत्थि ण' मित्यादि, 'सक्कारेइ व' त्ति सत्कारो - विनयार्हेषु वन्दनादिनाऽऽदरकरणं प्रवरवस्त्रादिदानं वा 'सत्कारो पवरवत्थमाईहिं' इति वचनात् 'सम्माणेइ व' त्ति सन्मानःतथाविधप्रतिपत्तिकरणं 'किइकम्मेइ व' त्ति कृतिकर्म्मवन्दनं कार्यकरणं वा 'अब्भुट्ठाणेइ व' त्ति अभ्युत्थानं - गौरवाह - दर्शन विष्टरत्यागः 'अंजलि पग्गहेइ व' त्ति अञ्जलिप्रग्रहः – अञ्जलिकरणम् 'आसणाभिग्गहेइ व' त्ति आसनाभिग्रहः- तिष्ठत एव गौरव्यस्यासनानयनपूर्वकमुपविशतेति भणनं 'आसणाणुप्पयाणेइ व' त्ति आसनानुप्रदानंगौरव्यमाश्रित्यासनस्य स्थानान्तरसञ्चारणं 'इंतस्स पच्चुग्गच्छणय' त्ति आगच्छतो गौरव्यस्याभिमुखगमनं 'ठियस्स पज्जुवासणय' त्ति तिष्ठतो गौरव्यस्य सेवेति 'गच्छंतस्स पडिसंसाहणय' त्ति गच्छतोऽनुव्रजनमिति, अयं च विनयो नारकाणां नास्ति, सततं दुःस्थत्वादिति ।
पूर्वं विनय उक्तः, अथ तद्विपर्ययभूताविनयविशेषं देवानां परस्परेण प्रतिपादयन्नाह
१४/३६-३९. 'अप्पड्डिए ण' मित्यादि, 'एवं एएणं अभिलावेण ' मित्यादौ 'आडिउद्देसए' त्ति दशमशतस्य तृतीयोद्देशके 'निरवसेसं' ति समस्तं प्रथमं दण्डकसूत्रं वाच्यं तत्र चाल्पर्द्धिकमहर्द्धिकालापकः समर्द्धिकालापकश्चेत्यालापकद्वयं साक्षादेव दर्शितं केवलं समर्द्धिकालापकस्यान्तेऽयं सूत्रशेषो दृश्य:- 'गोयमा ! पुव्विं सत्थेणं अक्कमित्ता पच्छा वीईवएज्जा नो पुव्विं वीईवइत्ता पच्छा सत्थेणं अक्कमिज्ज' त्ति, तृतीयस्तु महर्द्धिकाल्पर्द्धिकालापक एवं - 'महड्डिए णं भंते! देवे अप्पडि यस्स देवस्स मज्झंमज्झेणं वीइवएज्जा ?, हंता वीइवएज्जा, से णं भंते! किं सत्थेणं अक्कमित्ता पभू अणक्कमित्ता पभू ?, शस्त्रेण हत्वा हत्वा वेत्यर्थः, 'गोयमा ! अक्कमित्तावि पभू अणक्कमित्तावि पभू, से णं भंते! किं पुव्विं सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुव्विं वीइवएज्जा पच्छा सत्थेणं अक्कमेज्जा ?, गोयमा ! पुब्विं वा सत्थेणं अक्कमित्ता पच्छा वीइवएज्जा पुव्विं वा वीइवइत्ता पच्छा सत्थेणं अक्कमिज्ज' त्ति, 'चत्तारि दंडगा भाणियव्व' त्ति तत्र प्रथमदण्डक उक्तालापकत्रयात्मको देवस्य देवस्य च द्वितीयस्त्वेवंविध एव नवरं देवस्य च देव्याश्च एवं तृतीयोऽपि नवरं देव्याश्च देवस्य च, चतुर्थोऽप्येवं नवरं देव्याश्च देव्यांश्चेति, अत एवाह - 'जाव महड्डिया वेमाणिणी अप्पड्डियाए वेमाणिणीए' त्ति, 'मज्झंमज्झेण' मित्यादि तु पूर्वोक्तानुसारेणाध्येयमिति ।
अनन्तरं देववक्तव्यक्तोक्ता, अथैकान्तदुःखित्वे तद्विपर्ययभूता नारका इति तद्गतवक्तव्यतामाह१४/४०-४२. 'रयणे' त्यादि, ' एवं वेयणापरिणामं' ति
Jain Education International
भगवती वृत्ति
पुद्गलपरिणामवद् वेदनापरिणामं प्रत्यनुभवन्ति नारकाः, तत्र चैवमभिलापः - ' रयणप्पभापुढविनेरइया णं भंते! केरिसयं वेयणापरिणामं पच्चणुब्भवमाणा विहरंति ?, गोयमा ! अणिट्टं जाव अमणामं एवं जाव असत्तमापुढविनेरइया' शेषसूत्रातिदेशायाह' एवं जहा जीवाभिगमे' इत्यादि, जीवाभिगमोक्तानि चैतानि विंशतिः पदानि, तद्यथा
'पोग्गलपरिणामं १ वेयणाइ २ लेसाइ ३ नामगोए य ४ । अरई ५ भय य ६ सोगे ७ खुहा ८ पिवासा य ९ वाही य १० ॥ १ ॥ उसासे ११ अणुतावे १२ कोहे १३ माणे य १४ माय १५ लोभे य १६ । चत्तारि य सन्नाओ २० नेरइयाणं परीणामे ॥ २ ॥ ' इति, तत्र चाद्यपदद्वयस्याभिलापो दर्शित एव, शेषाणि त्वष्टादशाद्यपदद्वयाभिलापेनाध्येयानीति ॥ चतुर्दशशते तृतीयः ॥ १४-३॥
चतुर्थ उद्देशकः
तृतीयोद्देशके नारकाणां पुद्गलपरिणाम उक्त इति, चतुर्थोद्देशऽपि पुद्गलपरिणामविशेष एवोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रम्
१४/४४-४६. 'एस णं भंते' ! इत्यादि, इह पुनरुद्देशकार्थसङ्ग्रहगाथा क्वचिद् दृश्यते, सा चेयं
'पोग्गल १ खंधे २ जीवे ३ परमाणू ४ सासए य ५ चरमे य। दुविहे खलु परिणामे अज्जीवाणं च जीवाणं ६ ॥ १ ॥' अस्याश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति, 'पुग्गले' त्ति पुद्गलः परमाणुः स्कन्धरूपश्च 'तीतमणंतं सासयं समयं ति विभक्तिपरिणामादतीते अनन्ते अपरिमाणत्वात् शाश्वते अक्षयत्वात् 'समये' काले 'समयं लुक्खी' ति समयमेकं यावद्र्क्षस्पर्शसद्भावाद्र्क्षी, तथा 'समयं अलुक्खी' त्ति समयमेकं यावदरूक्षस्पर्शसद्भावाद् 'अरूक्षी' स्निग्धस्पर्शवान् बभूव, इदं च पदद्वयं परमाणौ स्कन्धे च संभवति, तथा 'समयं लुक्खी वा अलुक्खी व' त्ति समयमेव रूक्षश्चारूक्षश्च रूक्षस्निग्धलक्षणस्पर्शद्वयोपेतो बभूव, इदं च स्कन्धापेक्षं यतो द्व्यणुकादिस्कन्धे देशो रूक्षो देशश्चारूक्षो भवतीत्येवं युगपद्र्क्षस्निग्धस्पर्शसम्भवः, वाशब्दौ चेह समुच्चयार्थी, एवंरूपश्च सन्नसौ किमनेकवर्णादिपरिणामं परिणमति पुनश्चैकवर्णादिपरिणामः स्यात् ? इति पृच्छन्नाह - 'पुव्विं च णं करणेणं अणेगवन्नं अणेगरूवं परिणामं परिणमइ' इत्यादि, 'पूर्वं च' एकवर्णादिकपरिणामात्प्रागेव 'करणेन' प्रयोगकरणेन विस्रसाकरणेन वा 'अनेकवर्णं' कालनीलादिवर्णभेदेनानेकरूपं गन्धरसस्पर्शसंस्थानभेदेन 'परिणाम' पर्यायं परिणमति अतीतकालविषयत्वादस्य परिणतवानिति द्रष्टव्यं पुद्गल इति प्रकृतं स च यदि परमाणुस्तदा समयभेदेनानेकवर्णादित्वं परिणतवान्, यदि च स्कन्धस्तदा यौगपद्येनापीति ।
For Private & Personal Use Only
www.jainelibrary.org