________________
परिशिष्ट - ५ : श. १३ : उ. १०: सू. १५८ - १६८ ४५२
१३/१५८. 'वीईओ वीइं' ति कल्लोलात् कल्लोलं । १३/१६०. ‘वेरुलियं’ इह यावत्करणादिदं दृश्यं - 'लोहियक्खं मसारगल्लं हंसगब्भं पुलगं सोगंधियं जाईरसं अंक अंजणं रणं जायरूवं अंजणपुलगं फलिहं' ति, 'कुमुदहत्थगं' इत्यत्र त्वेवं यावत्करणादिदं दृश्यं -'नलिणहत्थगं सुभगहत्थगं सोगंधियहत्थगं पुंडरीयहत्थगं महापुंडरीयहत्थगं सयवत्तहत्थगं' ति । १३/१६१. 'बिसं' ति बिसं - मृणालम् 'अवदालियं' त्ति अवदार्यदारयित्वा ।
१३ / १६२. 'मुणालिय' त्ति नलिनी कायम् 'उम्मज्जिय' त्ति कायमुन्मज्ज्य - उन्मग्नं कृत्वा ।
१३/१६३. 'किण्हे किण्होभासे' त्ति 'कृष्णः ' कृष्णवर्णोऽञ्जनवत्स्वरूपेण कृष्ण एवावभासते - द्रष्टृणां प्रतिभातीति कृष्णावभासः, इह यावत्कारणादिदं दृश्यं - 'नीले नीलोभासे हरिए हरिओभासे सीए सीओभासे निद्धे निदोभासे तिव्वे तिब्वोभासे किण्हे किण्हच्छाए नीले नीलच्छाए हरिए हरियच्छाए सीए सीयच्छाए तिब्वे तिव्वच्छाए घणकडियकडिच्छाए रम्मे महामेहनिउरंबभूए' त्ति तत्र च 'नीले नीलोभासे' त्ति प्रदेशान्तरे 'हरिए हरिओभासे' त्ति प्रदेशान्तर एव नीलश्च मयूरगलवत् हरितस्तु शुकपिच्छवत् हरितालाभ इति च वृद्धा, 'सीए सीओभासे' त्ति शीतः स्पशपिक्षया वल्ल्याद्याक्रान्तत्वादिति च वृद्धाः 'निद्धे निदोभासे' त्ति स्निग्धो रूक्षत्ववर्जितः 'तिव्वे तिव्वोभासे' त्ति 'तीव्र' वर्णादिगुणप्रकर्षवान् 'किण्हे किण्हच्छाए' त्ति इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति न पुनरुक्तता, तथाहि-- कृष्णः सन् कृष्णच्छायः, छाया चादित्यावरणजन्यो वस्तुविशेषः, एवमुत्तरपदेष्वपि, 'घणकडियकडिच्छाए' त्ति अन्योऽन्यं शाखानुप्रवेशाद्बहलं निरन्तरच्छाय इत्यर्थः । १३/१६४. 'अणुपुव्वसुजाय' इत्यत्र यावत्करणादेवं दृश्यम् -'अणुपुव्वसुजायवप्पगंभीरसीयलजला' अनुपूर्वेण सुजाता वप्रा यत्र गम्भीरं शीतलं च जलं यत्र सा तथेत्यादि, 'सहुन्नइयमहुरसरनाइय' त्ति इदमेवं दृश्यं - 'सुयबरहिणमयणसालकोंचकोइलकोज्जकभिंकारककोंडलकजीवंजीवकनंदीमुहकबिलपिंगलखगकारंडगचक्कवायकलहंससारस अणेगसउणगणमिहुणविरइयसद्दुन्नइयमहुरसरनाइय' त्ति तत्र शुकादीनां सारसान्तानामनेकेषां शकुनिगणानां मिथुनैर्विरचितं शब्दोन्नतिकं च-उन्नतशब्दकं मधुरस्वरं च नादितं-लपितं यस्यां सा तथेति ।
त्रयोदशशते नवमः ॥ १३-९॥
Jain Education International
भगवती वृत्
दशम उद्देशकः
अनन्तरोद्देशके वैक्रियकरणमुक्तं तच्च समुद्घाते सति छद्मस्थस्य भवतीति छाद्मस्थिकसमुद्घाताभिधानार्थो दशमः उद्देशकस्तस्य चेदमादिसूत्रम्
१३ / १६८. 'कइ ण' मित्यादि, 'छाउमत्थिय' त्ति छद्मस्थः - अकेवली तत्र भवाश्छाद्मस्थिकाः ‘समुग्घाये' ति 'हन हिंसागत्योः ' हननं घातः सम्- एकीभावे उत्-प्राबल्ये ततश्चैकीभावेन प्राबल्येन च घातः समुद्घातः, अथ केन सहैकी भावगमनम् ?, उच्यते, यदाऽऽत्मा वेदनादिसमुद्घातं गतस्तदा वेदनाद्यनुभवज्ञानपरिणत एव भवतीति वेदनाद्यनुभवज्ञानेन सहैकीभावः, प्राबल्येन घातः कथम् ?, उच्यते यस्माद्वेदनादिसमुद्घातपरिणतो बहून् वेदनीयादिकर्मप्रदेशान् कालान्तरानुभवनयोग्यानुदीरणाकरणेनाकृष्योदये प्रक्षिप्यानुभूय निर्जरयतिआत्मप्रदेशैः सह संश्लिष्टान् सातयतीत्यर्थः अतः प्राबल्येन घाते इति, अयं चेह षड्विध इति बहुवचनं, तत्र 'वेयणासमुग्धाए' त्ति एक:, ' एवं छाउमत्थिए' इत्यादिअतिदेशः, 'जहा पन्नवणाए ' त्ति इह षट्त्रिंशत्तमपद इति शेषः, ते च शेषाः पञ्चैवं - ' कसायसमुग्धाए २ मारणंतियसमुग्धाए ३ वेउव्वियसमुग्धा ४ तेयगसमुग्धाए ५ आहारगसमुग्धाए ६' त्ति, तत्र वेदनासमुद्घातः असद्वेद्यकर्म्माश्रयः कषायसमुद्घातः कषायाख्यचारित्रमोहनीयकर्म्माश्रयः मारणान्तिकसमुद्घातः अन्तर्मुहूर्तशेषायुष्ककर्माश्रयः वैकुर्विकतैजसाहारकसमुद्घाताः शरीरनामकर्माश्रयाः, तत्र वेदनासमुद्घातसमुद्धत आत्मा वेदनीयकर्मपुद्गलशातं करोति, कषायसमुद्घातसमुद्धतः कषायपुद्गलशातं, मारणान्तिकसमुद्घातसमुद्धत आयुष्ककर्मपुद्गलशातं वैकुर्विकसमुद्घातसमुद्धतस्तु जीवप्रदेशान् शरीराद्बहिर्निष्काश्य शरीरविष्कम्भबाहल्यमात्रमायामतश्च सङ्ख्येयानि योजनानि दण्डं निसृजति निसृज्य च यथास्थूलान् वैक्रियशरीरनामकर्म्मपुद्गलान् प्राग्बद्धान् सातयति सूक्ष्मांश्चादत्ते, यथोक्तं- ' वे उव्वियसमुग्घाएणं समोहण समोहणित्ता संखेज्जाई जोयणाई दंडं निसिरइ २ अहाबायरे पोग्गले परिसाडेइ २ अहासुहुमे पोग्गले आइयर' त्ति । एवं तैजसाहारकसमुद्घातावपि व्याख्येयाविति ॥
त्रयोदशशते दशमः ॥ १३-१०॥ समाप्तं च त्रयोदशं शतम् ॥ १३ ॥
त्रयोदशस्यास्य शतस्य वृत्तिः, कृता मया पूज्यपदप्रसादात् । नान्धकारे विहितोद्यमोऽपि, दीपं विना पश्यति वस्तुजातम् ॥ ॥ इति समाप्तं श्रीमदभयदेवसूरिवरविवृतायां भगवत्यां शतकं त्रयोदशम् ॥
For Private & Personal Use Only
www.jainelibrary.org