________________
परिशिष्ट - ५ : श. १३ : उ ७ : सू. १२६-१३५
४५०
प्रसङ्गः, तथा च संवेदनासम्पूर्णता स्यात्, तथा शरीरस्य दाहे आत्मनोऽपि दाहप्रसङ्गेन परलोकाभावप्रसङ्ग इत्यतः कथञ्चिदात्मनोऽन्योऽपि काय इति, अन्यैस्तु कार्म्मणकायमाश्रित्यात्मा काय इति व्याख्यातं, कार्मणकायस्य संसार्यात्मनश्च परस्पराव्यभिचरितत्वेनैकस्वरूपत्वात्, 'अन्नेवि काए' त्ति औदारिकादिकायापेक्षया जीवादन्यः कायस्तद्विमोचनेन तद्भेदसिद्धिरिति, 'रूविंपि काए' त्ति रूप्यपि कायः औदारिकादिकायस्थूलरूपापेक्षया, अरूप्यपि कायः कार्म्मणकायस्यातिसूक्ष्मरूपित्वेनारूपित्वविवक्षणात् । ' एवं एक्केक्के पुच्छ' त्ति पूर्वोक्तप्रकारेणैकैकसूत्रे पृच्छा विधेया, तद्यथा'सचित्ते भंते! काये अचित्ते काये ?' इत्यादि, अत्रोत्तरं'सचित्ते वि काए' जीवदवस्थायां चैतन्यसमन्वितत्वात्, 'अचित्तेवि काए' मृतावस्थायां चैतन्यस्याभावात्, 'जीवेवि काये' त्ति जीवोऽपि विवक्षितोच्छ्रासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, 'अजीवेवि काये' त्ति अजीवोऽपि उच्छ्रासादिरहितोऽपि भवति कायः कार्म्मणशरीरमपेक्ष्य, 'जीवाणवि काये' त्ति जीवानां सम्बन्धी 'कायः शरीरं भवति, 'अजीवाणवि काये' त्ति अजीवानामपि स्थापनार्हदादीनां 'कायः ' शरीरं भवति शरीराकार इत्यर्थः 'पुव्विंपि काए' त्ति जीवसम्बन्धकालात्पूर्वमपि कायो भवति यथा भविष्यज्जीवसम्बन्धं मृतदर्दुरशरीरं 'काइज्जमाणेवि काए' त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं । 'कायसमयवीतिक्कंतेवि काए' त्ति कायसमयो-जीवन कायस्य कायताकरणलक्षणस्तं व्यतिक्रान्तो यः स तथा सोऽपि काय एव मृतकडेवरवत्, 'पुव्विंपि काए भिज्जइ' त्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मधुघटादिन्यायेन द्रव्यकायो भ प्रतिक्षणं पुद्गलचयापचयभावात्, 'काइज्जमाणेवि काए भिज्जइ' त्ति जीवेन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पुद्गलनामनुक्षणं परिशाटनभावात्, 'कायसमयवीतिक्कंतेऽवि काये भिज्जइ' त्ति काय - समयव्यतिक्रान्तस्य च कायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्च पुद्गलानां तत्स्वभावतयेति, चूर्णिकारेण पुनः कायसूत्राणि कायशब्दस्य केवलशरीरार्थत्यागेन चयमात्र - वाचकत्वमङ्गीकृत्य व्याख्यातानि यदाह - 'कायसद्दो सव्वभावसामन्नसरीरवाई' कायशब्दः सर्वभावानां सामान्यं यच्छरीरं चयमात्रं तद्वाचक इत्यर्थः, एवं च 'आयावि काए सेसदव्वाणिवि काये' त्ति, इदमुक्तं भवति - आत्माऽपि काय । प्रदेशसञ्चय इत्यर्थः तदन्योऽप्यर्थः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायः पुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायो - चेतनसञ्चयापेक्षया, जीवः कायः - उच्छ्रासादियुक्तावयवसञ्चयरूपः, अजीवः कायः तद्विलक्षणः, जीवानां कायोजीवराशिः, अजीवानां कायः - परमाण्वादिराशिरिति, एवं शेषाण्यपि ।
Jain Education International
भगवती वृत्ति
अथ कायस्यैव भेदानाह
१३/१२९. 'कइविहे ण' मित्यादि, अयं च सप्तविधोऽपि प्राग् विस्तरेण व्याख्यातः इह तु स्थानाशून्यार्थं लेशतो व्याख्यायते, तत्र च ' ओरोलिए' त्ति औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककायः, अयं च पर्यासकस्यैवेति, 'ओरालियमीसए' त्ति औदारिकश्चासौ मिश्रश्च कार्मणेनेत्यौदारिकमिश्रः अयं चापर्याप्तकस्य, 'वेउव्विय' त्ति वैक्रियः पर्याप्तकस्य देवादेः, 'वेउव्वियमीसए' त्ति वैक्रियश्चासौ मिश्रश्च कार्म्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्य देवादेः । ' आहारए' त्ति आहारकः आहारकशरीरनिर्वृत्तौ, 'आहारगमीसए' त्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, 'कम्मए' त्ति विग्रहगतौ केवलिसमुद्घाते वा कार्म्मणः स्यादिति ।
अनन्तरं काय उक्तस्तत्त्यागे च मरणं भवतीति तदाह१३/१३०. 'कतिविहे णं भंते! मरणे' इत्यादि, 'आवीइयमरणे' त्ति आ - समन्ताद्वीचयः - प्रतिसमयमनुभूयमानायुषोऽपरापरायुर्दलिकोदयात्पूर्वपूर्वायुर्दलिकविच्युतिलक्षणाऽवस्था यस्मिन् तदावीचिकं अथवाऽविद्यमाना वीचिः -विच्छेदो यत्र तदवीचिकं अवीचिकमेवावीचिकं तच्च तन्मरणं चेत्यावीचिकमरणं, 'ओहिमरणे' त्ति अवधिः- मर्यादा ततश्चावधिना मरणमवधिमरणं, यानि हि नारकादिभवनिबन्धनतयाऽऽयुःकर्म दलिकान्यनुभूय म्रियते, यदि पुनस्तान्येवानुभूय मरिष्यते तदा तदवधिमरणमुच्यते, तद्द्रव्यापेक्षया पुनस्तद्ग्रहणावधिं यावज्जीवस्य मृतत्वात्, संभवति च गृहीतोज्झितानां कदलिकानां पुनर्ग्रहणं परिणामवैचित्र्यादिति, 'आइंतियमरणे' त्ति अत्यन्तं भवमात्यन्तिकं तच्च तन्मरणं चेति वाक्यं, यानि हि नरकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतश्च न पुनस्तान्यनुभूय पुनर्मरिष्यत इत्येवं यन्मरणं, तच्च तद्द्रव्यापेक्षयाऽत्यन्तभावित्वादात्यन्तिकमिति, 'बालमरणे' त्ति अविरतमरणं पंडियमरणे' त्ति सर्वविरतमरणं । १३/१३१. तत्रावीचिकमरणं पञ्चधा द्रव्यादिभेदेन । १३/१३२. तत्रावीचिकमरणं च चतुर्द्धा नारकादिभेदात्, तत्र नारकद्रव्यावीचिकमरणप्रतिपादनायाह
१३/१३३-१३५. 'जण्ण' मित्यादि, 'यत् यस्माद्धेतोर्नैरयिका नारकत्वे द्रव्ये नारकजीवत्वेन वर्त्तमाना मरन्तीति योगः, 'नेरइयाउयत्ताए' त्ति नैरयिकायुष्कतया 'गहियाई' ति स्पर्शनतः 'बदाई' ति बन्धनतः 'पुट्ठाई' ति पोषितानि प्रदेशप्रक्षेपतः 'कडाई' ति विशिष्टानुभागतः 'पट्टवियाई' ति स्थितिसम्पादनेन 'निविट्ठाई' ति जीवप्रदेशेषु 'अभिनिविट्ठाई' ति जीवप्रदेशेष्वभिव्याप्त्या निविष्टानि अतिगाढतां गतानीत्यर्थः, ततश्च 'अभिसमन्नागयाई' ति अभिसमन्वागतानिउदयावलिकायामागतानि तानि द्रव्याणि 'आविइ' त्ति किमुक्तं
For Private & Personal Use Only
www.jainelibrary.org