________________
भगवती वृत्ति
आसन्नाः सौवीरा - जनपदविशेषाः सिन्धुसौवीरास्तेषु 'वीईभए' त्ति विगता ईतयो भयानि च यतस्तद्वीतिभयं विदर्भेति केचित् 'सव्वोउयवन्नओ' त्ति अनेनेदं सूचितं- 'सव्वोउयपुप्फफलसमिद्धे रम्मे नंदणवणप्पगासे' इत्यादीति । 'नगरागरसयाणं' ति करादायकानि नगराणि सुवर्णाद्युत्पत्तिस्थानान्याकरा नगराणि चाकराश्चेति नगराकरास्तेषां शतानि नगराकरशतानि तेषां 'नगरस्याणं ति क्वचित्पाठः, 'विदिन्नछत्तचामरवालवीयणाणं' ति वितीर्णानि छत्राणि चामररूपवालव्यजनिकाश्च येषां ते तथा तेषाम् ।
१३ / १२०. 'अप्पत्तिएणं मणोमाणासिएणं दुक्खेणं' ति 'अप्रीतिकेन' अप्रीतिस्वभावेन मनसो विकारो मानसिकं मनसि मानसिकं न बहिरूपलक्ष्यमाणविकारं यत्तन्मनोमानसिकं तेन, केनैवंविधेन ? इत्याह- दुःखेन, 'सभंडमत्तोवगरणमायाय' त्ति स्वां स्वकीयां भाण्डमात्रां भाजनरूपं परिच्छदं उपकरणं च शय्यादि गृहीत्वेत्यर्थः, अथवा सह भाण्डमात्रया यदुपकरणं तत्तथा तदादाय, 'समणुबद्धवेरि' त्ति अव्यवच्छिन्नवैरिभावः । १३/१२१. 'निरयपरिसामंतेसु' त्ति नरकपरिपार्श्वतः 'चोयट्ठीए आयावा असुरकुमारावासेसु' त्ति इह 'आयाव' त्ति असुरकुमारविशेषाः, विशेषतस्तु नावगम्यत इति। त्रयोदशशते षष्ठः ॥१३-६॥
४४६
सप्तम उद्देशकः
य एतेऽनन्तरोद्देशकेऽर्था उक्तास्ते भाषयाऽतो भाषाया एव निरूपणाय सप्तम उच्यते । तस्य चेदमादिसूत्रम्१३ / १२४. 'रायगिहे' इत्यादि, 'आया भंते! भास' त्ति काक्वाऽध्येयं आत्मा - जीवो भाषा जीवस्वभावा भाषेत्यर्थः यतो जीवेन व्यापार्यते जीवस्य च बन्धमोक्षार्था भवति ततो जीवधर्मत्वाज्जीव इति व्यपदेशार्हा ज्ञानवदिति, अथान्या भाषा - न जीवस्वरूपा श्रोत्रेन्द्रियग्राह्यत्वेन मूर्त्ततयाऽऽत्मनो विलक्षणत्वादिति शङ्का अतः प्रश्नः, अत्रोत्तरं - 'नो आया भास' त्ति आत्मरूपा नासौ भवति, पुद्गलमयत्वादात्मना च निसृज्यमानत्वात्तथाविधलोष्ठादिवत् अचेतनत्वाच्चाकाशवत्, यच्चोक्तं जीवेन व्यापार्यमाणत्वाज्जीवः स्याज्ज्ञानवत्तदनैकान्तिकं, जीवव्यापारस्य जीवादत्यन्तं भिन्नस्वरूपेऽपि दात्रादौ दर्शनादिति ।
'रूविं भंते! भास' त्ति रूपिणी भदन्त ! भाषा श्रोत्रस्यानुग्रहोपघातकारित्वात्तथाविधकर्णाभरणादिवत्, अथारूपिणी भाषा चक्षुषाऽनुपलभ्यत्वाद्धर्मास्तिकायादिवदिति शङ्का अतः प्रश्नः, उत्तरं तु रूपिणी भाषा, यच्च चक्षुरग्राह्यत्वमरूपित्वसाधनायोक्तं तदनैकान्तिकं, परमाणुवायुपिशाचादीनां रूपवतामपि चक्षुरग्राह्यत्वेनाभिमतत्वादिति । अनात्मरूपाऽपि सचित्तासौ भविष्यति जीवच्छरीरवदिति पृच्छन्नाह - 'सचित्ते' त्यादि, उत्तरं तु नो सचित्ता जीवनिसृष्टपुद्गलसंहतिरूपत्वात्त
Jain Education International
परिशिष्ट - ५ : श. १३ : उ. ७ : सू. १२०-१२८ थाविधलेष्ठुवत्, तथा 'जीवा भंते!' इत्यादि, जीवतीति जीवा - प्राणधारणस्वरूपा भाषा उतैतद्विलक्षणेति प्रश्नः, अत्रोत्तरं नो जीवा, उच्छ्रासादिप्राणानां तस्या अभावादिति । कैश्चिदभ्युपगम्यते अपौरुषेयी वेदभाषा, तन्मतं मनस्याधायाह-‘जीवाण' मित्यादि, उत्तरं तु जीवानां भाषा, वर्णानां ताल्वादिव्यापारजन्यत्वात् ताल्वादिव्यापारस्य च जीवाश्रितत्वात्, यद्यपि चाजीवेभ्यः शब्द उत्पद्यते तथाऽपि नासौ भाषा, भाषापर्याप्तिजन्यस्यैव शब्दस्य भाषात्वेनाभिमतत्वादिति। तथा 'पुव्वि' मित्यादि, अत्रोत्तरं - नो पूर्वं भाषणाद् भाषा भवति मृत्पिण्डावस्थायां घट इव, भाष्यमाणा - निसर्गावस्थायां वर्त्तमाना भाषा घटावस्थायां घटस्वरूपमिव, 'नो' नैव भाषासमयव्यतिक्रान्ता-भाषासमयोनिसृज्यमानावस्थातो यावद्भाषापरिणामसमयस्तं व्यतिक्रान्ता या सा तथा भाषा भवति, घटसमयातिक्रान्तघटवत् कपालावस्थ इत्यर्थः । 'पुव्विं भंते!' इत्यादि, अत्रोत्तरं 'नो' नैव पूर्वं निसर्गसमयाद्भाषाद्रव्यभेदेन भाषा भिद्यते, भाष्यमाणा भाषा भिद्यते, अयमत्राभिप्रायः - इह कश्चिन्मन्दप्रयत्नो वक्ता भवति स चाभिन्नान्येव शब्दद्रव्याणि निसृजति तानि च निसृष्टान्यसङ्ख्येयात्मकत्वात् परिस्थूरत्वाच्च विभिद्यन्ते, विभिद्यमानानि च सङ्ख्येयानि योजनानि गत्वा शब्दपरिणामत्यागमेव कुर्वन्ति, कश्चित्तु महाप्रयत्नो भवति स खल्वादानविसर्गप्रयत्नाभ्यां भित्त्वैव विसृजति तानि च सूक्ष्मत्वाद्बहुत्वाच्चानन्तगुणवृद्ध्या वर्द्धमानानि षट्सु दिक्षु लोकान्तमाप्नुवन्ति, अत्र च यस्यामवस्थायां शब्दपरिणामस्तस्यां भाष्यमाणताऽवसेयेति, 'नो ति परित्यक्तभाषापरिणामेत्यर्थः
भासा समयवीइक्कंते' उत्कृष्टप्रयत्नस्य तदानीं निवृत्तत्वादितिभावः ।
अनन्तरं भाषा निरूपिता, सा च प्रायो मनःपूर्विका भवतीति मनोनिरूपणायाह
१३/१२६. ‘आया भंते! मणे' इत्यादि, एतत्सूत्राणि च भाषासूत्रवन्नेयानि, केवलमिह मनोद्रव्यसमुदयो मननोपकारी मनः पर्याप्तिनामकर्मोदयसम्पाद्यो, भेदश्च तेषां विदलनमात्रमिति । अनन्तरं मनो निरूपितं तच्च काये सत्येव भवतीति कायनिरूपणायाह
१३/ १२८. 'आया भंते! काये' इत्यादि, आत्मा कायः कायेन कृतस्यानुभवनात्, न ह्यन्येन कृतमन्योऽनुभव अकृतागमप्रसङ्गात्, अथान्य आत्मनः कायः कायैकदेशच्छेदेऽपि संवेदनस्य सम्पूर्णत्वेनाभ्युपगमादिति प्रश्नः, ( ग्रन्थाग्रम् १३०००) उत्तरं त्वात्माऽपि कायः कथञ्चित्तदव्यतिरेकात् क्षीरनीरवत् अग्न्ययस्पिण्डवत् काञ्चनोपलवद्वा, अत एव कायस्पर्शे सत्यात्मनः संवदेनं भवति अत एव च कायेन कृतमात्मना भवान्तरे वेद्यते, अत्यन्तभेदे चाकृतागमप्रसङ्ग इति, 'अन्नेवि काये' त्ति अत्यन्ताभेदे हि शरीरांशच्छेदे जीवांशच्छेद
For Private & Personal Use Only
www.jainelibrary.org