SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति १३/५७. 'ठाणनिसीयणतुयट्टण' त्ति कायोत्सर्गासनशयनानि प्रथमाबहुवचनलोपदर्शनात्, तथा मनसश्चानेकत्वस्यैकत्वस्य भवनमेकत्वीभावस्तस्य यत्करणं तत्तथा । १३/५८. 'आगासत्थिकाएण' मित्यादि, जीवद्रव्याणां चाजीवद्रव्याणां च भेदेन भाजनभूतः अनेन चेदमुक्तं भवति - एतस्मिन् सति जीवादीनामवगाहः प्रवर्त्तते एतस्यैव प्रश्नितत्वादिति, भाजनभावमेवास्य दर्शयन्नाह - 'एगेणवी' त्यादि, एकेन - परमाण्वादिना 'से' त्ति असौ आकाशास्तिकायप्रदेश इति गम्यते 'पूर्णः ' भृतस्तथा द्वाभ्यामपि ताभ्यामसौ पूर्णः कथमेतत् ? उच्यते, परिणामभेदात् यथाऽपवरकाकाशमेकप्रदीपप्रभापटलेनापि पूर्यते द्वितीयमपि तत्तत्र माति यावच्छतमपि तेषां तत्र माति, तथैौषधिविशेषापादितपरिणामादेकत्र पारदकर्षे सुवर्णकर्षशतं प्रविशति, पारदकर्षीभूतं च सदौषधिसामर्थ्यात् पुनः पारदस्य कर्षः सुवर्णस्य च कर्षशतं भवति विचित्रत्वात्पुद्गल - परिणामस्येति, 'अवगाहणालक्खणे णं ति इहावगाहना आश्रयभावः । १३/५९. 'जीवत्थिकाएण' मित्यादि, जीवास्तिकायेनेति अन्तर्भूतभावप्रत्ययत्वाज्जीवास्तिकायत्वेन जीवतयेत्यर्थः भदन्त ! जीवानां किं प्रवर्त्तते ? इति प्रश्नः, उत्तरं तु प्रतीतार्थमेवेति । १३/६०. 'पोग्गलत्थिकाएण' मित्यादि, इहौदारिकादिशरीराणां श्रोत्रेन्द्रियादीनां मनोयोगान्तानामानप्राणानां च ग्रहणं प्रवर्त्तते इति वाक्यार्थः, पुद्गलमयत्वादौदारिकादीनामिति । अस्तिकायप्रदेशस्पर्शद्वारे १३/६१. 'एगे भंते! धम्मत्थिकायप्पएसे' इत्यादि, 'जहन्नपए तिहिं ' ति जघन्यपदं लोकान्तनिष्कुटरूपं यत्रैकस्य धर्मास्तिकायादिप्रदेशस्यातिस्तोकैरन्यैः स्पर्शना भवति तच्च भूम्यासन्नापवरककोणदेशप्रायं इहोपरितनेनैकेन द्वाभ्यां च पार्श्वत एको विवक्षितः प्रदेशः स्पृष्टः, एवं जघन्येन त्रिभिरिति । 'उक्कोसपए छहिं' ति विवक्षितस्यैक उपर्येकोऽधस्तनश्चत्वारो दिक्षु इत्येवं पद्भिरिदं च प्रतरमध्ये, स्थापना च - : । 'जहन्नपदे चउहिं' ति धर्मास्तिकाय प्रदेशो जघन्यपदेऽधर्मास्तिकायप्रदेशैश्चतुर्भिः स्पृष्ट इति कथं ?, तथैव त्रयः, चतुर्थस्तु धर्मास्तिकायप्रदेशस्थानस्थित एवेति, उत्कृष्टपदे सप्तभिरिति, कथं ?, षड् दिषट्के, सप्तमस्तु धर्मास्तिकाय प्रदेशस्थ एवेति २, आकाशप्रदेशैः सप्तभिरेव, लोकान्तेऽप्यलोकाकाशप्रदेशानां विद्यमानत्वात् ३, 'केवतिएहिं जीवत्थिकाए' इत्यादि 'अणंतेहिं' ति अनन्तैरनन्तजीवसम्बन्धिनामनन्तानां प्रदेशानां तत्रैकधर्मास्तिकायप्रदेशे पार्श्वतश्च दिक्त्रयादौ विद्यमानत्वादिति ४, एवं पुद्गलास्तिकायप्रदेशैरपि ५, 'केवतिएहिं अद्धासमएहिं ' इत्यादि, अद्धासमयः समयक्षेत्र एव न परतोऽतः स्यात्स्पृष्टः स्यान्नेति, ‘जइ पुट्ठे नियमं अणंतेहिं' ति अनादित्वादद्धासमयानां अथवा वर्त्तमानसमयालिङ्गितान्यनन्तानि द्रव्याण्यनन्ता एव समया, इत्यनन्तैस्तैः स्पृष्ट इत्युच्यत इति ६ । Jain Education International ४४५ परिशिष्ट - ५ : श. १३ : उ. ४ : सू. ५७-६५ १३/६२. अधर्मास्तिकायप्रदेशस्य शेषाणां प्रदेशैः स्पर्शना धर्मास्तिकायप्रदेशस्पर्शनाऽनुसारेणावसेया ६ । १३/६३. 'एगे भंते! आगासत्थिकायपएसे' इत्यादि, 'सिय पुट्ठे' त्ति लोकमाश्रित्य 'सिय नो पुट्टे' त्ति अलोकमाश्रित्य 'जइ पुट्ठे' इत्यादि यदि स्पृष्टस्तदा जघन्यपदे एकेन धर्मास्तिकायप्रदेशेन स्पृष्टः, कथम् ?, एवंविधलोकान्तवर्त्तिना धर्मास्तिकायैकप्रदेशेन शेषधर्मास्तिकायप्रदेशेभ्यो निर्गतेनैकोऽग्रभागवर्त्यलोकाकाशप्रदेशः स्पृष्टो वक्रगतस्त्वसौ द्वाभ्यां यस्य चालोकाकाशप्रदेशस्याग्र तोऽधस्तादुपरि च धर्मास्तिकायप्रदेशाः सन्ति स त्रिभिर्धर्मास्तिकायप्रदेशैः स्पृष्टः, • स चैवम् यस्त्वेवं लोकान्ते कोणगतो व्योमप्रदेशोऽसावेकेन धर्मास्तिकायप्रदेशेन तदवगाढेनान्येन चोपरिवर्त्तिनाऽधोवर्तिना वा द्वाभ्यां च दिग्द्वयावस्थिताभ्यां स्पृष्ट इत्येवं चतुर्भिः यश्चाध उपरि च तथा दिग्द्वये तत्रैव वर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स पञ्चभिः यः पुनरध उपरि च तथा दिक्त्रये तत्रैव च प्रवर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स षड्भिः, यश्चाध उपरि च तथा दिक्चतुष्टये तत्रैव च वर्त्तमानेन धर्मास्तिकायप्रदेशेन स्पृष्टः स सप्तभिर्धर्मास्तिकायप्रदेश: स्पृष्टो भवतीति १, एवमधर्मास्तिकायप्रदेशैरपि २ 'केवइएहिं आगासत्थिकायपएसेहिं ?, 'छहिं' ति एकस्य लोकाकाशप्रदेशस्यालोकाकाशप्रदेशस्य षड्दिग्व्यवस्थितैरेव स्पर्शनात् षड्भिरित्युक्तम् जीवास्तिकायसूत्रे 'सिय पुट्ठे' त्ति यद्यसौ लोकाकाशप्रदेशो विवक्षितस्ततः स्पृष्टः 'सिय नो पुट्ठे' त्ति यद्यसावलोकाकाशप्रदेशविशेषस्तदा न स्पृष्टो जीवानां तत्राभावादिति ४-५ एवं पुद्गलाद्धाप्रदेशैः ६। वा ३ १३/६४. 'एगे भंते! जीवत्थिकायप्पएसे' इत्यादि, जघन्यपदे लोकान्तकोणलक्षणे सर्वाल्पत्वात्तत्र स्पर्शकप्रदेशानां चतुर्भिरिति, कथम् ?, अध उपरि वा एको द्वौ च दिशोरेकस्तु यत्र जीवप्रदेश एवावगाढ इत्येवं, एकश्च जीवास्तिकायप्रदेश एकत्राकाशप्रदेशादौ केवलिसमुद्घात एव लभ्यत इति, 'उक्कोसपए सत्तहिं' ति पूर्ववत्, 'एवं अहम्मे' त्यादि पूर्वोक्तानुसारेण भावनीयम् ६ । १३/६५. धर्मास्तिकायादीनां ४ पुद्गलास्तिकायस्य चैकैकप्रदेशस्य स्पर्शनोक्ता । अथ तस्यैव द्विप्रदेशादिस्कन्धानां तां दर्शयन्नाह'दो भंते!' इत्यादि, इह चूर्णिकारव्याख्यानमिदं - लोकान्ते द्विप्रदेशिकः स्कन्ध एकप्रदेशसमवगाढः स च प्रतिद्रव्यावगाहं प्रदेश इति नयमताश्रयणेनावगाहप्रदेशस्यैकस्यापि भिन्नत्वाद् द्वाभ्यां स्पृष्टः, तथा यस्तस्योपर्यधस्ताद्वा प्रदेशस्तस्यापि पुद्गलद्वयस्पर्शनेन नयमतादेव भेदाद् द्वाभ्यां, तथा For Private & Personal Use Only www.jainelibrary.org
SR No.003596
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy