SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ भगवती वृत्ति ४४३ नानात्वं 'बत्तीसअट्ठवीसे' त्यादिना ग्रन्थेन समवसेयं, लेश्यासु पुनरिदं 'तेऊ १ तेऊ २ तहा तेउ पम्ह ३ पम्हा ४ य पम्हसुक्का य ५ । सुक्का ६ परमसुक्का ७ सुक्काइविमाणवासीणं ॥ १ ॥ ' (तेजः १ तेजः २ तथा तेजः ३ पद्मा च ४ पद्मशुक्ला च ५ शुक्ला च ६ परमशुक्ला ७ शुक्रादिविमानवासिनां ( लेश्या ) ॥ १ ॥ ) इति इह च सर्वेष्वपि शुक्रादिदेवस्थानेषु परमशुक्लेति । १३/३४. आनतादिसूत्रे 'संखेज्जवित्थडेसु' इत्यादि, उत्पादेवस्थाने च्यवने च सङ्ख्यातविस्तृतत्वाद्विमानानां सङ्ख्याता एव भवन्तीति भावः, असङ्ख्यातविस्तृतेषु पुनरुत्पादच्यवनयोः सङ्ख्याता एव, यतो गर्भजमनुष्येभ्य एवानतादिषूत्पद्यन्ते ते च सङ्ख्याता एव, तथाऽऽनतादिभ्यश्च्युता गर्भजमनुष्येष्वेवोत्पद्यन्तेऽतः समयेन सङ्ख्यातानामे-वोत्पादच्यवनसम्भवः, अवस्थितिस्त्वसङ्ख्यातानामपि स्यादसङ्ख्यातजीवितत्वेनैकदैव जीवितकालेऽसङ्ख्यातानामुत्पादादिति । 'पन्नत्तेसु असंखेज्जा नवरं नोइंदिओवउत्ते' त्यादि प्रज्ञप्तकगमेऽसङ्ख्येया वाच्याः केवलं नोइंद्रियोपयुक्तादिषु पञ्चसु पदेषु सङ्ख्याता एव, तेषामुत्पादावसर एव भावाद्, उत्पत्तिश्च सङ्ख्यातानामेवेति दर्शितं प्रागिति । १३/३५. 'पंच अणुत्तरोववाइय' त्ति तत्र मध्यमं सङ्ख्यातविस्तृतं योजनलक्षप्रमाणत्वादिति । १३/३६. 'नवरं कण्हपक्खिए ' त्यादि, इह सम्यग्दृष्टीनामेवोत्पादात् कृष्णपाक्षिकादिपदानां गमत्रयेऽपि निषेधः, 'अचरिमावि खोडिज्जंति' त्ति येषां चरमोऽनुत्तरदेवभवः स एव ते चरमास्तदितरे त्वचरमास्ते च निषेधनीयाः, यतश्चरमा एव मध्यमे विमाने उत्पद्यन्त इति । 'असंखेज्जवित्थडेसुवि एए न भन्नंति' ति इहैते कृष्णपाक्षिकादयः 'नवरं अचरिमा अस्थि' यतो बाह्यविमानेषु पुनरुत्पद्यन्त इति । 'तिन्नि आलावग' ति सम्यग्दृष्टिमिथ्यादृष्टिसम्यग्मिथ्यादृष्टिविषया इति । १३ / ३९. 'नवरं तिसुवि आलावगेसु' इत्यादि, उप्पत्तीए चवणे पन्नत्तालावए य मिथ्यादृष्टिः सम्यग्मिथ्यादृष्टिश्च न वाच्यः, अनुत्तरसुरेषु तस्यासम्भवादिति ।। त्रयोदशशते द्वितीयः ॥१३-२॥ तृतीय उद्देशकः अनन्तरोद्देशके देववक्तव्यतोक्ता, देवाश्च प्रायः परिचारणावन्त इति परिचारणानिरूपणार्थं तृतीयोद्देशकमाह, तस्य चेदमादि सूत्रम् १३ /४०. 'नेरइया ण' मित्यादि, 'अणंतराहार' त्ति उपपातक्षेत्रप्राप्तिसमय एवाहारयन्तीत्यर्थः, 'तओ निव्वत्तणय' त्ति ततः शरीरनिर्वृत्तिः ' एवं परियारणे' त्यादि, परिचारणापदंप्रज्ञापनायां चतुस्त्रिंशत्तमं तच्चैवं- 'तओ परियाइयणया तओ Jain Education International परिशिष्ट - ५ : श. १३ : उ. ३, ४ : सू. ३४-४३ परिणामणया तओ परियारणया तओ पच्छा विउव्वणया ?, हंता गोयमा' इत्यादि, 'तओ परियाइयणय' त्ति ततः पर्यापानम्अङ्गप्रत्यङ्गैः समन्तादापानमित्यर्थः 'तओ परिणामणय' त्ति तत आपीतस्य-उपात्तस्य परिणतिरिन्द्रियादिविभागेन 'तओ परियारणय' त्ति ततः शब्दादिविषयोपभोग इत्यर्थः 'तओ पच्छा विउव्वणय' त्ति ततो विक्रिया नानारूपा इत्यर्थ इति || त्रयोदशशते तृतीयः ॥ १३-३॥ चतुर्थ उद्देशकः अनन्तरोद्देशके परिचारणोक्ता, सा च नारकादीनां भवतीति नारकाद्यर्थप्रतिपादनार्थं चतुर्थोद्देशकमाह । तस्य चेदमादिसूत्रम्१३ / ४२. 'कइ ण' मित्यादि, इह च द्वारगाथे क्वचिद् दृश्येते, तद्यथा'नेरइय १ फास २ पणिही ३ निरयंते ४ चेव लोयमज्झे य ५ । दिसिविदिसाण य पवहा ६ पवत्तणं अत्थिकाएहिं ७ ॥ १ ॥ अत्थी पएसफुसणा ८ ओगाहणया य जीवमोगाढा । अत्थि पएसनिसीयण बहुस्समे लोगसंठाणे ॥२॥' इति, अनयोश्चार्थ उद्देशकार्थाधिगमावगम्य एवेति । १३ / ४३. 'महंततरा चेव' त्ति आयामतः 'विच्छिन्नतरा चेव' त्ति विष्कम्भतः 'महावासतरा चेव' त्ति अवकाशो-बहूनां विवक्षितद्रव्याणामवस्थानयोग्यं क्षेत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः, ते च महाजनसङ्कीर्णा अपि भवन्तीत्यत उच्यते 'महापइरिक्कतरा चेव' त्ति महत्प्रतिरिक्तं - विजनमतिशयेन येषु ते तथा 'नो तहा महापवेसणतरा चेव' त्ति 'नो' नैव 'तथा' तेन प्रकारेण यथा षष्ठपृथिवीनरका अतिशयेन महत्प्रवेशनं गत्यन्तरान्नरकगतौ जीवानां प्रवेशो येषु ते तथा, षष्ठपृथिव्यपेक्षयाऽसङ्ख्यगुणहीनत्वात्तन्नारकाणामिति, नोशब्द उत्तरपदद्वयेऽपि सम्बन्धनीयः, यत एव नो महाप्रवेशनतरा अत एव 'नो आइन्नतरा चेव' त्ति नात्यन्तमाकीर्णाः सङ्कीर्णा नारकैः 'नो आउलतरा चेव' त्ति इतिकर्त्तव्यतया ये आकुला नारकलोकास्तेषामतिशयेन योगादाकुलतरास्ततो नोशब्दयोगः किमुक्तं भवति ?'अणोमाणतरा चेव' त्ति अतिशयेनासङ्कीर्णा इत्यर्थः क्वचित्पुनरिदमेवं दृश्यते- 'अणोयणतरा चेव' त्ति तत्र चानोदनतराः व्याकुलजनाभावादतिशयेन परस्परं नोदनवर्जिता इत्यर्थः 'महाकम्मतर' त्ति आयुष्कवेदनीयादिकर्म्मणां महत्त्वात् 'महाकिरियतर' त्ति कायिक्यादिक्रियाणां महत्त्वात् तत्काले काय महत्त्वात्पूर्वकाले च महारम्भादित्वाद् अत एव महाश्रवतरा इति 'महावेयणतर' त्ति महाकर्मत्वात्, 'नो तहे' त्यादिना निषेधतस्तदेवोक्तं, विधिप्रतिषेधतो वाक्यप्रवृत्तेः, नोशब्दश्चेह प्रत्येकं सम्बन्धनीयः पदचतुष्टय इति, तथा 'अप्पड्डियतर' ति अवध्यादिऋद्धेरल्पत्वात् 'अप्पज्जुइयतर' त्ति दीप्तेरभावात् एतदेव व्यतिरेकेणोच्यते - 'नो तहा महड्डिए' इत्यादि, नोशब्दः पदद्वयेऽपि सम्बन्धनीयः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003596
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 04 Bhagvai Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages514
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_bhagwati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy