________________
भगवती वृत्ति
अथ त्रयोदशं शतकम्
Jain Education International
४४१
प्रथम उद्देशकः
व्याख्यातं द्वादशं शतं तत्र चानेकधा जीवादयः पदार्था उक्ताः, त्रयोदशशतेऽपि त एव भङ्ग्यन्तरेणोच्यन्त इत्येवंसम्बन्धमिदं व्याख्यायते, तत्र पुनरियमुद्देशकसङ्ग्रहगाथा
'पुढवी' त्यादि, 'पुढवी' ति नरकपृथिवीविषयः प्रथमः १, 'देव' त्ति देवप्ररूपणार्थी द्वितीयः २ 'अणंतर' त्ति अनन्तराहारा नारका इत्याद्यर्थः प्रतिपादनपरस्तृतीयः ३, 'पुढवि' त्ति पृथिवीगतवक्तव्यताप्रतिबद्धश्चतुर्थः ४, 'आहारे' त्ति नारकाद्याहारप्ररूपणार्थः पञ्चमः ५, 'उववाए' त्ति नारकाद्युपपातार्थः षष्ठः ६, 'भास' त्ति भाषार्थः सप्तमः ७ 'कम्म' त्ति कर्म्मप्रकृतिरूपणार्थोऽष्टमः ८, 'अणगारे केयाघडिय' त्ति अनगारो - भावितात्मा लब्धिसामर्थ्यात् 'केयाघडिय' ति रज्जुबद्धघटिकाहस्तः सन् विहायसि व्रजेदित्याद्यर्थप्रतिपादनार्थो नवमः ९, 'समुग्धाए' त्ति समुद्घातप्रतिपादनार्थो दशम इति । तत्र प्रथमोद्देशके किंञ्चिल्लिख्यते
१३/३. 'केवइया काउलेसा उववज्जंति' त्ति रत्नप्रभापृथिव्यां कापोतलेश्या एवोत्पद्यन्ते न कृष्णलेश्यादय इति कापोतलेश्यानेवाश्रित्य प्रश्नः कृत इति । 'केवइया कण्हपक्खिए' इत्यादि, एषां च लक्षणमिदं'जेसिमवड्डो पोग्गलपरियट्टो सेसओ उ संसारो। ते सुक्कपक्खिया खलु अहिगे पुण कण्हपक्खीया ॥ १ ॥' (येषामपार्धः पुद्गलपरावर्त्तः शेषः संसारः ।
शुक्लपाक्षिकाः खलु अधिके पुनः कृष्णपाक्षिकाः ॥ १ ॥ ) इति ।
'चक्खुदंसणी न उववज्जंति' त्ति इन्द्रियत्यागेन तत्रोत्पत्तेरिति, तर्हि अचक्षुर्दर्शनिनः कथमुत्पद्यन्ते ?, उच्यते, इन्द्रियानाश्रितस्य सामान्योपयोगमात्रस्याचक्षुर्दर्शनशब्दाभिधेयस्योत्पादसमयेऽपि भावादचक्षुर्दर्शनिन उत्पद्यन्त इत्युच्यत इति, ' इत्थीवेयगे' त्यादि, स्त्रीपुरुषवेदा नोत्पद्यन्ते भवप्रत्ययान्नपुंसकवेदत्वात्तेषां, 'सोइंदियओवउत्ता' इत्यादि श्रोत्राद्युपयुक्ता नोत्पद्यन्ते इन्द्रियाणां तदानीमभावात् 'नोइंदिओवउत्ता उववज्जंति' त्ति नोइन्द्रियं मनस्तत्र च यद्यपि मनः पर्याप्त्यभावे द्रव्यमनो नास्ति तथाऽपि भावमनसश्चैतन्यरूपस्य सदा भावात्तेनोपयुक्तानामुत्पत्तेर्नोइन्द्रियोपयुक्ता उत्पद्यन्त इत्युच्यत इति, 'मणजोगी' त्यादि मनोयोगिनो वाग्योगिनश्च नोत्पद्यन्ते,
परिशिष्ट - ५ : श. १३ : उ. १ : सू. ३-८
उत्पत्तिसमयेऽपर्याप्तकत्वेन मनोवाचोरभावादिति, 'कायजोगी उववज्जंति' त्ति सर्वसंसारिणां काययोगस्य सदैव भावादिति ॥
अथ रत्नप्रभानारकाणामेवोद्वर्त्तनामभिधातुमाह
१३ / ४. 'इमीसे ण' मित्यादि, 'असन्नी न उववट्टंति' त्ति उद्वर्त्तना हि परभवप्रथमसमये स्यात् न च नारका असञ्जिषूत्पद्यन्तेऽस्तेऽसञ्ज्ञिनः सन्तो नोद्वर्त्तन्त इत्युच्यते, एवं 'विभंगनाणी न उववट्टंती' त्यपि भावनीयं, शेषाणि तु पदान्युत्पादवद्व्याख्येयानि, उक्तञ्च चूर्ण्याम्
'असन्निणो य विब्भंगिणो य उव्वट्टणाइ वज्जेज्जा ।
च
दोसुवि य चक्खुदंसणी मणवइ तह इंदियाई वा ॥ १ ॥' इति ॥ अनन्तरं रत्नप्रभानारकाणामुत्पादे उद्वर्त्तनायां परिणाममुक्तमथ तेषामेव सत्तायां तदाह१३ / ५. 'इमीसे ण' मित्यादि, 'केवइया अणंतरोववन्नग' त्ति कियन्तः प्रथमसमयोत्पन्नाः ? इत्यर्थः 'परंपरोववन्नग' त्ति उत्पत्तिसमयापेक्षया द्व्यादिसमयेषु वर्त्तमानाः 'अणंतरावगाढ' ति विवक्षितक्षेत्रे प्रथमसमयावगाढाः 'परंपरोगाढ' त्ति विवक्षितक्षेत्रे द्वितीयादिकः समयोऽवगाढे येषां ते परम्परावगाढाः 'केवइया चरिम' त्ति चरमो नारकभवेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्त्तमानाश्चरमाः, अचरमास्त्वितरे, 'असन्नी सिय अत्थि सिय नत्थि' त्ति असञ्ज्ञिभ्य उद्धृत्य ये नारकत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामसञ्ज्ञिनो भूतभावत्वात्ते चाल्पा इति कृत्वा 'सिय अत्थी' त्याद्युक्तं, मानमायालोभकषायोपयुक्तानां नोइन्द्रियोपयुक्तानामनन्तरोपपन्नानामनन्तरावगाढाना - मनन्तराहारकाणामनन्तरपर्याप्तकानां कादाचित्कत्वात् 'सिय अत्थि' इत्यादि वाच्यं, शेषाणां तु बहुत्वात्सङ्ख्याता इति वाच्यमिति ॥
च
अनन्तरं सङ्ख्यातविस्तृतनरकावासनारकवक्तव्यतोक्ता, अथ
तद्विपर्ययवक्तव्यतामभिधातुमाह
१३/६. ‘इमीसे ण' मित्यादि, 'तिन्नि गमग' त्ति 'उववज्जंति उव्वट्टेति पन्नत्त' त्ति एते त्रयो गमाः, 'ओहिनाणी ओहिदंसणी य संखेज्जा उव्वट्टावेयव्व' त्ति, कथं ?, ते हि तीर्थङ्करादय एव भवन्ति, ते च स्तोकाः स्तोकत्वाच्च सङ्ख्याता एवेति ।
१३ / ७. 'नवरं असन्नी तिसुवि गमएसु न भन्नति' कस्मात् ?, उच्यते - असञ्ज्ञिनः प्रथमायामेवोत्पद्यन्ते 'असन्नी खलु पढमं ' इति वचनादिति ।
१३ / ८. 'णाणत्तं लेसासु लेसाओ जहा पढमसए' त्ति, इहाद्य
पृथिवीद्वयापेक्षया तृतीयादिपृथिवीषु नानात्वं लेश्यासु भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र च सङ्ग्रहगाथेयं'काऊ दोसु तइयाइ मीसिया नीलिया चउत्थीए । पंचमिया मीसा कण्हा तत्तो परमकण्हा ॥ १ ॥ ' (द्वयोः कापोता तृतीयायां मिश्रा चतुर्थ्यां नीला । पञ्चम्यां मिश्रा कृष्णा ततः परमकृष्णा ॥ १ ॥ ) इति ।
For Private & Personal Use Only
www.jainelibrary.org