________________
भगवती वृत्ति
४३५
'उल्लोइयं' ति सेटिकादिना कुड्यानां धवलनं एतेनैव द्वयेन महितो यः स तथा एतच्च विशेषणं वृक्षस्य पीठापेक्षया, विशिष्टवृक्षा हि बद्धपीठा भवन्तीति ॥ १२/१५९. ‘गोलंगूलवसभे’ त्ति गोलाङ्गूलानां वानराणां मध्ये महान् स एव वा विदग्धो विदग्धपर्यायत्वाद्वृषभशब्दस्य एवं कुर्कुटवृषभोऽपि एवं मण्डूकवृषभोऽपि, 'निस्सील' त्ति समाधानरहिताः 'निव्वय' त्ति अणुव्रतरहिताः 'निग्गुण' त्ति गुणव्रतैः क्षमादिभिर्वा रहिताः 'नेरइयत्ताए उववज्जेज्जा' इति प्रश्नः, इह च 'उववज्जेज्जा इत्येतदुत्तरं तस्य चासम्भवमाशङ्कमानस्तत्परिहारमाह- 'समणे' इत्यादि, असम्भवश्चैवंयत्र समये गोलाङ्गूलादयो न तत्र समये नारकास्ते अतः कथं ते नारकतयोत्पद्यन्ते इति वक्तव्यं स्याद् ? अत्रोच्यते - श्रमणो भगवान् महावीरो न तु जमाल्यादिः एवं व्याकरोति-यदुत उत्पद्यमानमुत्पन्नमिति वक्तव्यं स्यात्, क्रियाकालनिष्ठाकालयोरभेदाद्, अतस्ते गोलाङ्गूलप्रभृतयो नारकतयोत्पत्तुकामा नारका एवेतिकृत्वा सुष्ठुच्यते 'नेरइयत्ताए उववज्जेज्ज' त्ति, 'उस्सप्पिणिउद्देसए' त्ति सप्तमशतस्य षष्ठ इति ॥ द्वादशशतेऽष्टमः ॥ १२-८॥
परिशिष्ट - ५ : श. १२ : उ. ६ : सू. १५६-१७८ १२ / १६५. 'जे इमे' इत्यादि, 'चाउरंतचक्कवट्टि' त्ति चतुरन्ताया भरतादिपृथिव्या एते स्वामिन इति चातुरन्ताः चक्रेण वर्त्तनशीलत्वाच्चक्रवर्त्तिनस्ततः कर्म्मधारयः, चतुरन्तग्रहणेन च वासुदेवादीनां व्युदासः, ते यस्मादिति वाक्यशेषः 'उप्पन्न - समत्तचक्करयणप्पहाण' त्ति आर्षत्वान्निर्देशस्योत्पन्नं समस्तरत्नप्रधानं चक्रं येषां ते तथा 'सागरवरमेहलाहिवइणो' त्ति सागर एव वरा मेखला - काञ्ची यस्याः सा सागरवरमेखला -- पृथ्वी तस्या अधिपतयो ये ते तथा, सागरमेखलान्तपृथिव्यधिपतय इति भावः, 'सेव तेणद्वेणं' ति अथ 'तेनार्थेन' तेन कारणेन गौतम ! तान् प्रत्येवमुच्यते - नरदेवा इति । १२/१६६. ‘जे इमे’ इत्यादि, ये इमेऽनगारा भगवन्तस्ते यस्मादिति वाक्यशेषः ईर्यासमिता इत्यादि 'से तेणद्वेणं' ति अथ तेनार्थेन गौतम ! तान् प्रत्येवमुच्यते धर्मदेवा इति । १२/१६७. 'जे इमे' इत्यादि, ये इमेऽर्हन्तो भगवन्तस्ते यस्मादुत्पन्नज्ञानदर्शनधरा इत्यादि ‘से तेणट्टेणं' ति अथ तेनार्थेन तान् प्रति गौतम एवमुच्यते - देवातिदेवा इति ।
नवम उद्देशकः
अष्टमोद्देशके देवस्य नागादिषूत्पत्तिरुक्ता नवमे तु देवा एव प्ररूप्यन्ते। इत्येवंसम्बद्धस्यास्येदमादिसूत्रम्१२/१६३. 'कइविहा ण' मित्यादि, दीव्यन्ति-क्रीडां कुर्वन्ति दीव्यते वा - स्तूयन्ते वाऽऽराध्यतयेति देवाः 'भवियदव्वदेव' त्ति द्रव्यभूता देवा द्रव्यदेवाः, द्रव्यता चाप्राधान्याद्भूतभावित्वाद्भाविभावत्वाद्वा, तत्राप्राधान्याद्देवगुणशून्या देवा द्रव्यदेवा यथा साध्वाभासा द्रव्यसाधवः, भूतभावपक्षे तु भूतस्य देवत्वपर्यायस्य प्रतिपन्नकारणा भावदेवत्वाच्च्युता द्रव्यदेवाः, भाविभावपक्षे तु भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पत्स्यमाना द्रव्यदेवाः, तत्र भाविभावपक्षपरिग्रहार्थंमाहभव्याश्च ते द्रव्यदेवाश्चेति भव्यद्रव्यदेवाः, 'नरदेव' त्ति नराणां मध्ये देवा-आराध्याः क्रीडाकान्त्यादियुक्ता वा नराश्च ते देवाश्चेति वा नरदेवाः, 'धम्मदेव' त्ति धर्मेण - श्रुतादिना देवा धर्मप्रधाना वा देवा धर्मदेवाः; 'देवाइदेव' त्ति देवान् शेषानतिक्रान्ताः पारमार्थिकदेवत्वयोगाद्देवा देवातिदेवाः, 'देवाहिदेव' त्ति क्वचिद्दृश्यते तत्र च देवानामधिकाः पारमार्थिकदेवत्वयोगाद् देवा देवाधिदेवाः, 'भावदेव' त्ति भावेन-देवगत्यादिकर्मोदयजातपर्यायेण देवा भावदेवाः । १२/१६४. 'जे भविए' इत्यादि, इह जातौ एकवचनमतो बहुवचनार्थे
व्याख्येयं ततश्च ये भव्याः - योग्याः पञ्चेन्द्रियतिर्यग्योनिका वा मनुष्या वा देवेषूत्पत्तुं ते यस्माद्भाविदेवभावा इति गम्यं अथ ‘तेनार्थेन' तेन कारणेन हे गौतम! तान् प्रत्येवमुच्यतेभव्यद्रव्यदेवा इति ।
Jain Education International
१२ / १६८. 'जे इमे' इत्यादि, ये इमे भवनपतयस्ते यस्माद्देवगतिनामगोत्रे कर्मणी वेदयन्ति अनेनार्थेन तान् प्रत्येवमुच्यतेभावदेवा इति ।
१२/१६९-१७७. एवं देवान् प्ररूप्य तेषामेवोत्पादं प्ररूपयन्नाह'भवियदव्वदेवा णं भंते!' इत्यादि, 'भेदो' त्ति 'जइ नेरइएहिंतो उववज्जंति किं रयणप्पभापुढविनेरइएहिंतो' इत्यादि भेदो वाच्यः, जहा वक्कंतीए' ति यथा प्रज्ञापनाषष्ठपदे, नवरमित्यादि, 'असंखेज्जवासाउय' त्ति असङ्ख्यातवर्षायुष्काः कर्म्मभूमिजाः पञ्चेन्द्रियतिर्यग्मनुष्या असङ्ख्यातवर्षायुषामकर्म्मभूमिजादीनां साक्षादेव गृहीतत्वात् एतेभ्यश्चोद्वृत्ता भव्यद्रव्यदेवा न भवन्ति, भावदेवेष्वेव तेषामुत्पादात्, सर्वार्थसिद्धिकास्तु भव्यद्रव्यसिद्धा एव भवन्तीत्यत एतेभ्योऽन्ये सर्वे भव्यद्रव्यदेवतयोत्पादनीया इति,
धम्र्मदेवसूत्रे 'नवर' मित्यादि, 'तम' त्ति षष्ठपृथिवी तत उद्धृत्तानां चारित्रं नास्ति, तथाऽधः सप्तम्यास्तेजसो वायोरसङ्ख्येयवर्षायुष्ककर्मभूमिजेभ्योऽकर्मभूमिजेभ्योऽन्तरद्वीपजेभ्यश्चोद्वृत्तानां मानुषत्वाभावान्न चारित्रं, ततश्च न धम्र्मदेवत्वमिति । देवाधिदेवसूत्रे 'तिसु पुढवीसु उववज्जंति' त्ति तिसृभ्यः पृथिवीभ्य उद्वृत्ता देवातिदेवा उत्पद्यन्ते 'सेसाओ खोडेयव्वाओ' त्ति शेषाः पृथिव्यो निषेधयितव्या इत्यर्थः ताभ्य उद्धृत्तानां देवातिदेवत्व - स्याभावादिति ।
'भावदेवा ण' मित्यादि, इह च बहुतरस्थानेभ्य उद्धृत्ता भवनवासितयोत्पद्यन्ते असञ्ज्ञिनामपि तेषूत्पादाद् अत उक्तं 'जहा वक्कंती भवणवासीणं उववाओ' इत्यादि । अथ तेषामेव स्थितिं प्ररूपयन्नाह
१२/१७८. 'भवियदव्वदेवाण" मित्यादि, 'जहन्नेणं' अंतोमुहुत्तं' ति अन्तर्मुहूर्त्तायुषः पञ्चेन्द्रियतिरश्चो देवेषूत्पादाद्भव्यद्रव्यदेवस्य
For Private & Personal Use Only
www.jainelibrary.org