________________
भगवती वृत्ति
पुव्युत्ता ।
य
तस्सेव देसबंधा असंखगुणिया हवंति तेयगकम्माबंधा अनंतगुणिया य ते सिद्धा ॥ ३१ ॥ तत्तो उ अनंतगुणा ओरालियसव्वबंधगा होंति । तस्सेव ततोऽबंधा य देशबंधा य पुब्बुत्ता ॥ ३२॥ तत्तो तेयगकम्माणं देसबंधा भवे विसेसहिया । ते चेवोरालियदेसंबंधगा होंतिमे जे तस्स सव्वबंधा अबंधगा जे एएहिं साहिया ते पुणाइ के सव्वसंसारी ? ॥ ३४ ॥ वे उव्वियस्स तत्तो अबंधगा साहिया विसेसेणं । ते चेव य नेरइयाइविरहिया सिद्धसंजुत्ता ॥ ३५ ॥ आहारगस्स तत्तो अबंधगा साहिया विसेसेणं । ते पुण के ? सव्वजीवा आहारगलद्धिए मोत्तुं ॥ ३६ ॥ भवन्त्येवमेकस्तेषां राशिः एकवक्रया ये उत्पद्यन्ते तेषां ये प्रथमे समये तेऽबन्धका द्वितीये तु सर्वबन्धका इत्येवं तेषां द्वितीयो राशिः, स चैकवक्राभिधानद्वितीयगत्योत्पद्यमानानामर्द्धभूतो भवतीति द्विवक्रया गत्या ये पुनरुत्पद्यन्ते ते आधे समयद्वयेऽबन्धकास्तृतीये तु सर्वबन्धकाः अयं च सर्वबन्धकानां तृतीयो राशिः स च द्विवक्राभिधानतृतीयगत्योत्पद्यमानानां त्रिभागभूतो भवति, तृतीयसमयभावितत्वात्तस्य एवं च त्रयः सर्वबन्धकानां राशयः त्रय एव चाबन्धकानां समयभेदेन राशिभेदादिति, एवं च ते राशिप्रमाणतस्तुल्या यद्यपि भवन्ति तथाऽपि सङ्ख्याप्रमाणतोऽधिका अबन्धका भवन्ति ॥४-५-६ ॥ ते चैवम्-ये एकसमयिका ऋजुगत्योत्पद्यमानका इत्यर्थः ते एकस्मिन्निगोदेसाधारणशरीरे लोकमध्यस्थिते षड्भ्यो दिग्भ्योनुश्रेण्याऽऽगच्छन्ति ये पुनर्द्विसमयिका एकवक्रगत्योत्पद्यमाना इत्यर्थः ते त्रिप्रतरिका:- प्रतस्त्रयादागच्छन्ति विदिशो वक्रेणाऽऽगमनात्, प्रतरश्च वक्ष्यमाणस्वरूपः. ये पुनस्त्रिसमयिकाः- समयत्रयेण वक्रद्वयेन चोत्पद्यमानकास्ते शेषलोकात् प्रतस्त्रयातिरिक्तलोकादागच्छन्तीति ॥७॥ प्रतरप्ररूपणायाह-लोकमध्यगतैकनिगोदमधिकृत्य तिर्यगायतश्चतसृषु दिक्षु प्रतरः कल्प्यते, असङ्ख्येयप्रदेशबाहल्यो-विवक्षितनिगोदोत्पादकालोचितावगाहनाबाहय इत्यर्थः तन्मात्रबाहल्यावेव 'उड्डे' ति ऊर्ध्वाधोलोकान्तगतौ पूर्वापरायो दक्षिणोत्तरायतश्चेति द्वौ प्रतराविति ॥ ८ ॥ अथाधिकृतमल्पबहुत्वमुच्यते - ये जीवास्त्रिप्रतरिका एकवक्रया गत्योत्पत्तिमन्तस्ते षड़दिग्भ्यः - ऋजुगत्या षड्भ्यो दिग्भ्यः सकाशाद् भवन्त्यसङ्ख्यगुणाः, शेषा अपि ये त्रिसमयिकाः शेषलोकादागतास्तेऽप्यसङ्ख्येयगुणा भवन्ति कुतः ?, क्षेत्रासङ्ख्यगुणितत्वाद्, यतः षदिक्क्षेत्रात्त्रिप्रतरमसङ्ख्यगुणं, ततोऽपि शेषलोक इति ॥९॥ ततः किम् ? इत्याह- वक्रद्वयमाश्रित्येदं सूत्रमित्यर्थः ॥ १० ॥ प्रथम ऋजुगत्युत्पन्नसर्वबन्धकराशिः सहस्रं परिकल्पितं, क्षेत्रस्याल्पत्वात् द्विसमयोत्पन्नानां द्वौ राशी, एकोऽबन्ध
Jain Education International
५१९
वऽन्ने ॥ ३३ ॥ नेरइयदेवा ।
परिशिष्ट- ५ : श. ८ : उ. ९,१० : सू. ४४७-४५०
कानामन्यः सर्वबन्धकानां तौ च प्रत्येकं लक्षमानो, तत्क्षेत्रस्य बहुतरत्वात, ये पुनस्त्रिभिः समयैरुत्पद्यन्ते तेषां त्रयो राशयः, तत्र चाद्ययोः समययोरबन्धकौ द्वौ राशी तृतीयस्तु सर्वबन्धको राशिः, ते च त्रयोऽपि प्रत्येकं कोटीमानास्तत्क्षेत्रस्य बहुतमत्वादिति, तदेवं राशित्रयेऽपि सर्वबन्धकाः सहस्रं लक्षं कोटी चेत्येवं सर्वस्तोकाः, अबन्धकास्तु लक्षं कोटीद्रयं चेत्येवं विशेषाधिकास्त इति ॥ १२ ॥ अनेन च गाथाद्वयेनोद्वर्त्तनाभणनाद्विग्रहसमयसम्भवः, अन्तर्मुहूर्त्तान्ते परिवर्त्तनाभणनाच्च निगोदस्थितिसमयमानमुक्तं, ततश्च अयमर्थः ॥ १४ ॥ तेषामेव वैक्रियबन्धकानां सर्वबन्धकान् मुक्त्वा ये शेषास्ते सर्वे वैक्रियस्य देशबन्धका भवन्ति, तत्र च सर्वबन्धकान् मुक्त्यवेत्यनेन कथमित्यस्य निर्वचनमुक्तं ये शेषा इत्यनेन तु के वेत्यस्येति, अबन्धकास्तु तस्यानन्ता भवन्ति, ते च के ?, ये तद्वर्जा- वैक्रिय सर्वदेशबन्धकवर्जाः शेषजीवास्ते चौदारिकादिबन्धकाः देवादयश्च वैग्रहिका इति ॥ २१ ॥ 'तद्वर्जाः ' आहारकबन्धवर्जाः सर्व्वजीवा अबन्धका इत्याहारका बन्धस्वरूपमुक्तं, ते च पूर्वेभ्योऽनन्तगुणा भवन्ति ॥२२-२४॥ सङ्ख्यातगुणा आयुष्का-बन्धका इति यदुक्तं तत्र प्रश्नयन्नाह एकोऽसङ्ख्यभागो निगोदजीवानां सर्वदोद्वर्तते, स च बद्धायुषामेव, तदन्येषा मुद्वर्त्तनाऽभावात्, तेभ्यश्च ये शेषास्तेऽबन्द्वायुषः, ते च तदपेक्षयाऽसङ्ख्यातगुणा एवेत्येवमसत्यगुणा आयुष्यका बन्धकाः स्युरिति ॥ २५ ॥ अत्रोच्यते, निगोदजीवभवकालापेक्षया तेषामायुर्बन्धकालः सङ्ख्यातभागवृत्तिरित्यबन्धकाः सङ्ख्यातगुणा एव । एतदेव भाव्यते - निगोदजीवानां स्थिति - कालोऽन्तर्मुहूर्त्तमानः, स च कल्पनया समयलक्षं, तत्र 'आयुर्बन्धान्द्रया' आयुर्बन्धकालेनान्तर्मुहूर्त्तमानेनैव कल्पनया समयसहस्रलक्षणेन भाजिते सति यल्लब्धं कल्पनया शतरूपं एतावति भागे वर्त्तन्ते आयुर्बन्धकाः 'सेसजीवाणं' ति शेषजीवानां तदबन्धकानामित्यर्थः, तत्र किल लक्षापेक्षया शतं सङ्ख्येयतमो भागोऽतो बन्धकेभ्योऽबन्धकाः सङ्ख्येयगुणा भवन्तीति ॥ २६२७॥ एतदेव भाव्यते ॥ २८ ॥ समाप्तोऽयं बन्धः ॥ अष्टमशते नवमः ॥८-९ ॥
दशम उद्देशकः
अनंतरोद्देशके बन्धादयोऽर्था उक्ताः, तांश्च श्रुतशीलसंपन्नाः पुरुषा विचारयन्तीति श्रुतादिसंपन्नपुरुषप्रभृतिपदार्थविचारणार्थो दशम उद्देशकः, तस्य चेदमादिसूत्रम्८/४४९-४५०. 'रायगिहे' इत्यादि, तत्र च ' एवं खलु सीलं सेयं १ सुयं सेयं २ सुयं सेयं ३ सीलं सेयं ४' इत्येतस्य चूर्ण्यनुसारेणव्याख्या-‘एवं' लोकसिद्धन्यायेन खलु निश्चयेन इहान्य- यूथिकाः केचित् क्रियामात्रादेवाभीष्टार्थसिद्धिमिच्छन्ति
For Private & Personal Use Only
www.jainelibrary.org