________________
परिशिष्ट- ५ : श. ८ : उ. ९ : सू. ४०२-४२९
५१६
सर्वबन्धानन्तरं देशबन्ध इत्येवं सूत्रोक्तमन्तरं भवति, इह च यद्यपि सर्वबन्धसमयाधिकं वर्षपृथक्त्वं भवति तथाऽपि तस्य वर्षपृथक्त्वादनर्थान्तरत्वविवक्षया न भेदेन गणनमिति । एवं प्राणतारणाच्युतग्रैवेयकसूत्राण्यपि ज्ञेयानि ।
अथ सनत्कुमारादिसहस्रारान्ता देवा जघन्यतो नवदिनायुष्केभ्यः आनताद्यच्युतान्तास्तु नवमासायुष्केभ्यः समुत्पद्यन्त इति जीवसमासेऽभिधीयते, ततश्च जघन्यं तत्सर्वबन्धांतरं तत्तदधिकतज्जघन्यस्थितिरूपं प्राप्नोतीति, सत्यमेतत्, केवलं मतान्तरमेवेदमिति ॥
८/४०३. अनुत्तरविमानसूत्रे तु 'उक्कोसेण' मित्यादि, उत्कृष्टं सर्वबन्धान्तरं देशबन्धान्तरं च सङ्ख्यातानि सागरोपमाणि, यतो नानन्तकालमनुत्तर-विमानच्युतः संसरति, तानि च जीवसमासमतेन द्विसङ्ख्यानीति ।
अथ वैक्रियशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह८/४०४. 'एएसी' त्यादि तत्र सर्वस्तोका वैक्रियसर्वबन्धकास्तत्कालस्याल्पत्वात्, देशबन्धका असङ्ख्यातगुणास्तत्कालस्य तदपेक्षयाऽसंख्येयगुणत्वात्, अबन्धकास्त्वनन्तगुणाः सिद्धानां वनस्पत्यादीनां च तदपेक्षयाऽनन्तगुणत्वादिति ॥
अथाहारक शरीरप्रयोगबन्धमधिकृत्याह
८/४०५. 'आहारे' त्यादि, 'एगागारे' त्ति एकः प्रकारो नौदारिकादिबन्धवे केन्द्रियाद्यनेक प्रकार इत्यर्थः ।
८/४०९. 'सव्वबंधे एक्कं समयं ति आद्यसमय एव सर्वबन्धभावात्, देसबंधे जहन्नेणं अंतोमुहुत्तं उक्कोसेण वि अंतोमुहुत्तं' ति, कथं ?, जघन्यत उत्कर्षतश्चान्तर्मुहूर्त मात्रमेवाहारकशरीरी भवति, परत औदारिकशरीरस्यावश्यं ग्रहणात्, तत्र चान्तर्मुहूर्ते आद्यसमये सर्वबन्धः उत्तरकालं च देशबन्ध इति । अथाहारकशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह८/४१०. ' आहारे' त्यादि, सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं ति कथं ?, मनुष्य आहारकशरीरं प्रतिपन्नस्तत्प्रथमसमये च सर्वबन्धकस्त-तोऽन्तर्मुहूर्त्तमात्रं स्थित्वौदारिकशरीरं गतस्तत्राप्यन्तर्मुहूर्तं स्थितः पुनरपि च तस्य संशयादि आहारकशरीरकरण-कारणमुत्पन्नं ततः पुनरप्याहारकशरीरं गृह्णाति तत्र च प्रथमसमये सर्वबन्धक एवेति, एवं च सर्वबन्धान्तरमन्तर्मुहूर्तं द्वयोरप्यन्तर्मुहूर्त्तयोरेकत्वविवक्षणादिति, 'उक्कोसेणं अणतं कालं ति, कथं ?, यतोऽनन्तकालादाहारकशरीरं पुनर्लभत इति, कालानन्त्यमेव विशेषेणाह - 'अणंताओ उस्सप्पिणीओ ओस्सप्पिणीओ कालओ खेत्तओ अणंता लोग' त्ति, एतद्व्याख्यानं च प्राग्वत् । अथ तत्र पुद्गलपरावर्त्तपरिमाणं किं भवति ? इत्याह-'अवलं पोग्गलपरियट्टं देणं ति 'अपार्धम्' अपगतार्द्धमर्द्धमात्रमित्यर्थः 'पुद्गलपरावर्त्तं प्रागुक्तस्वरूपम्, अपार्द्धमप्यर्द्धतः पूर्ण स्यादत आह-देशोनमिति । एवं देसबंधंतरंपि त्ति जघन्येनान्त
Jain Education International
भगवती वृत्ति
मुहूर्त्तमुत्कर्षतः पुनरपार्द्धं पुद्गलपरावर्त्तं देशोनं, भावना तु पूर्वोक्तानुसारेणेति ॥
अथावाहारकशरीरदेशबन्धकादीनामल्पत्वादिनिरूपणायाह८/४११. 'एएसि ण' मित्यादि, तत्र सर्वस्तोका आहारकस्य सर्वबन्धकास्तत्सर्वबन्धकालस्याल्पत्वात्, देशबन्धकाः सङ्ख्यातगुणास्तद्देशबन्धकालस्य बहुत्वात् असङ्ख्यातगुणास्तु ते न भवन्ति, यतो मनुष्या अपि सङ्ख्याताः किं पुनराहारकशरीरदेशबन्धकाः ? अबन्धकास्त्वनन्तगुणाः, आहारकशरीरं हि मनुष्याणां तत्रापि संयतानां तेषामपि केषाञ्चिदेव कदाचिदेव च भवतीति शेषकाले ते शेषसत्त्वाश्चाबन्धकाः, ततश्च सिद्धवनस्पत्यादीनामनन्तगुणत्वादनन्तगुणास्त इति ।। अथ तैजसशरीरप्रयोगबन्धमधिकृत्याह
८/४१५. 'तेये' त्यादि, 'नो सव्वबंधे' त्ति तैजसशरीरस्यानादित्वान्न सर्वबन्धोऽस्ति, तस्य प्रथमतः पुद्गलोपादानरूपत्वादिति । ८/४१६. 'अणाइए वा अपज्जवसिए' इत्यादि, तत्रायं तैजसशरीरबन्धोऽनादिरपर्यवसितोऽभव्यानां अनादिः सपर्यवसितस्तु भव्यानामिति ॥
अथ तैजसशरीरप्रयोगबन्धस्यैवान्तरनिरूपणायाह८/४१७. 'तेये' त्यादि, 'अणाइयस्से' त्यादि, यस्मात्संसारस्था जीवस्तैजसशरीरबन्धेन द्वयरूपेणापि सदाऽविनिर्मुक्त एव भवति तस्माद्द्द्द्रयरूपस्याप्यस्य नास्त्यन्तरमिति ॥ अथ तैजसशरीरदेशबन्धकाबन्धकानामल्पत्वादिनिरूपणायाह८/४१८. 'एएसी' त्यादि, तत्र सर्वस्तोकास्तैजसशरीरस्याबन्धकाः सिद्धानामेव तदबन्धकत्वात्, देशबन्धकास्त्वनन्तगुणास्तदेशबन्धकानां सकलसंसारिणां सिद्धेभ्योऽनन्तगुणत्वादिति । अथ कार्म्मणशरीरप्रयोगबन्धमधिकृत्याह८/४१९-४२९. 'कम्मासरीरे' त्यादि, 'णाणपडिणीययाए' ति ज्ञानस्य - श्रुतादेस्तदभेदात् ज्ञानवतां वा या प्रत्यनीकतासामान्येन प्रतिकूलता सा तथा तया, 'णाणनिण्हवणयाए' ति ज्ञानस्य - श्रुतस्य श्रुतगुरूणां वा या निह्नवता - अपलपनं सा तथा तया, 'नाणंतराएणं' ति ज्ञानस्य श्रुतस्यान्तरायःतद्ग्रहणादौ विघ्नो यः स तथा तेन, 'नाणपओसेणं ति ज्ञाने - श्रुतादौ ज्ञानवत्सु वा यः प्रद्वेषः-अप्रीतिः स तथा तेन. 'नाणऽच्चासायणाए' त्ति ज्ञानस्य ज्ञानिनां वा यात्याशातनाहीलना सा तथा तया, 'नाणविसंवायणाजोगेणं' ति ज्ञानस्य ज्ञानिनां वा विसंवादनयोगो-व्यभिचारदर्शनाय व्यापारो यः स तथा तेन एतानि च बाह्यानि कारणानि ज्ञानावरणीयकार्म्मणशरीरबन्धे, अथाऽऽन्तरं कारणमाह-'नाणावरणिज्ज मित्यादि, ज्ञानावरणीयहेतुत्वेन ज्ञानावरणीयलक्षणं यत्कार्म्मणशरीरप्रयोगनाम तत्तथा तस्य कर्म्मण उदयेनेति, 'दंसणपडिणीययाए' त्ति इह दर्शनं चक्षुर्दर्शनादि, तिव्वदंसणमोहणिज्जाए' त्ति तीव्रमिथ्यात्वतयेत्यर्थः 'तिव्वचरितमोहणिज्जयाए' ति कषायव्यतिरिक्तं नोकषायलक्षणमिह
For Private & Personal Use Only
www.jainelibrary.org