________________
परिशिष्ट- ५ : श. ८ : उ. ९ : सू. ३८४-३९५
जातः, एवं च सर्वबन्धसमयेनाधिकमेकं क्षुल्लकभवग्रहणं देशबन्धयोरन्तरमिति । 'वणस्सइकाइयाणं दोन्नि खुड्डाई' ति वनस्पतिकायिकानां जघन्यतः सर्वबन्धान्तरं द्वे क्षुल्लके भवग्रहणे एवं चेव' त्ति करणात्रिसमयोने इति दृश्यम्, एतद्भावना च वनस्पतिकात्त्रिकस्त्रिसमयेन विग्रहेणोत्पन्नः तत्र च विग्रहस्य समयद्रयमनाहारकस्तृतीये समये च सर्वबन्धको भूत्वा क्षुल्लकभवं च जीवित्वा पुनः पृथिव्यादिषु क्षुल्लकभवमेव स्थित्वा पुनरविग्रहेण वनस्पतिकायिकेष्वेवोत्पन्नः प्रथमसमये च सर्वबन्धकोऽसाविति सर्वबन्धयोस्त्रिसमयोने द्वे क्षुल्लकभवग्रहणे अन्तरं भवत इति । 'उक्कोसेण' मित्यादि, अयं च पृथिव्यादिषु कायस्थितिकालः एवं देसबंधंतरंपि' ति यथा पृथिव्यादीनां देशबन्धान्तरं जघन्यमेवं वनस्पतेरपि तच्च क्षुल्लकभवग्रहणं समयाधिकं, भावना चास्य पूर्ववत्. 'उक्कोसेणं पुढविकालो' त्ति उत्कर्षेण वनस्पतेर्देशबन्धान्तरं ‘पृथिवीकालः’ पृथिवीकायस्थितिकालोऽसङ्ख्यातावसर्पिण्युत्सर्पिण्यादिरूप इति ।।
५१४
अथौदारिकदेशबन्धकादीनामल्पत्वादिनिरूपणायाह---
८/३८५. 'एएसी' त्यादि तत्र सर्वस्तोकाः सर्वबन्धकास्तेषामुत्पत्तिसमय एव भावात्, अबन्धका विशेषाधिकाः, यतो विग्रहगतौ सिद्धत्वादौ च ते भवन्ति, ते च सर्वबन्धकापेक्षया विशेषाधिकाः, देशबन्धका असङ्ख्यातगुणाः, देशबन्धकालस्यासङ्ख्यातगुणत्वात् एतस्य च सूत्रस्य भावनां विशेषतोऽग्रे वक्ष्याम इति ॥
अथ वैक्रियशरीरप्रयोगबन्धनिरूपणायाह
८ / ३८६-३९१. तत्र 'एगिंदियवेउव्विए' त्यादि वायुकायिकापेक्षमुक्तं, 'पंचिंदिए' त्यादि तु पञ्चेन्द्रियतिर्यङ्मनुष्यदेवनारकापेक्षमिति । 'वीरिये' त्यादौ यावत्करणात् 'पमायपच्चया कम्म च जोगं च भवं चे' ति द्रष्टव्यं 'लद्धिं व' त्ति वैक्रियकरणलब्धिं वा प्रतीत्य एतच्च वायुपञ्चेन्द्रियतिर्यङ्मनुष्यानपेक्ष्योक्तं, तेन वायुकायादिसूत्रेषु लब्धि वैक्रियशरीरबन्धस्य प्रत्ययतया वक्ष्यति, नारकदेवसूत्रेषु पुनस्ता विहाय वीर्यसयोगसद्द्रव्यतादीन् प्रत्ययतया वक्ष्यतीति ।
८/३९३. 'सव्वबंधे जहन्त्रेणं एक्कं समयं ति कथं ?, वैक्रियशरीररिषूत्पद्यमानो लब्धितो वा तत् कुर्वन् समयमेकं सर्वबन्धको भवतीत्येवमेकं समयं सर्वबन्ध इति, 'उक्कोसेणं दो समयं त्ति, कथं ?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः सर्वबन्धको भूत्वा मृतः पुनर्नारकत्वं देवत्वं वा यदा प्राप्नोति तदा प्रथमसमये वैक्रियस्य सर्वबन्धक एवेतिकृत्वा वैक्रियशरीरस्य सर्वबन्धक उत्कृष्टतः समय-द्वयमिति, 'देसबंधे जहनेणं एक्कं समयं' ति, कथं?, औदारिकशरीरी वैक्रियतां प्रतिपद्यमानः प्रथमसमये सर्वबन्धको भवति द्वितीयसमये देशबन्धको भूत्वा मृतं इत्येवं देशबन्धो जघन्यत
Jain Education International
भगवती वृत्ति
एकं समयमिति, 'उक्कोसेणं तेत्तीस सागरोवमाई समयऊणाई' ति, कथं ?, देवेषु नारकेषु चोत्कृष्टस्थितिषूत्पद्यमानः प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धकसमयेनोनानि त्रयस्त्रिंशत्सागरोपमाण्युत्कर्षतो देशबन्ध इति ॥
८/३९४. 'वाउक्काइए' त्यादि, 'देसबंधे जहनेणं एक्कं समयं' ति, कथं ?, वायुरौवारिकशरीरी सन् वैक्रियं गतस्ततः प्रथमसमये सर्वबन्धको द्वितीयसमये देशबन्धको भूत्वा मृत इत्येवं जघन्येनैको देशबन्धसमयः 'उक्कोसेणं अंतोमुहुत्तं' ति वैक्रियशरीरेण स एव यदाऽन्तर्मुहूर्नमात्रमास्ते तदोत्कर्षतो देशबन्धोऽन्तर्मुहूर्तं लब्धिवैक्रिय - शरीरिणो जीवतोऽन्तमुहूर्तात्परतो न वैक्रियशरीरावस्थानमस्ति पुनरौदारिकशरीरस्यावश्यं प्रतिपत्तेरिति ॥
८/३९५. 'रयणप्पभे' त्यादि, 'देसबंधे जहनेणं दस वाससहस्साई तिसमयऊणाई ति कथं ?, त्रिसमयविग्रहेण रत्नप्रभायां जघन्यस्थितिर्नारकः समुत्पन्नः तत्र च समयद्वयमनाहारकस्तृतीये च समये सर्वबन्धकस्ततो देशबन्धको वैक्रियस्य तदेवमाद्य- समयत्रयन्यूनं वर्षसहस्रदशकं जघन्यतो देशबन्धः, उक्कोसेणं सागरोवमं समयऊणं ति कथं ?, अविग्रहेण रत्नप्रभायामुत्कृष्टस्थितिर्नारकः समुत्पन्नः तत्र च प्रथमसमये सर्वबन्धको वैक्रियशरीरस्य ततः परं देशबन्धकस्तेन सर्वबन्धसमयेनोनं सागरोपममुत्कर्षतो देशबन्ध इति एवं सर्वत्र सर्वबन्धः समयं देशबन्धश्च जघन्यो विग्रहसमयत्रयन्यूनो निजनिजजघन्यस्थितिप्रमाणो वाच्यः सर्वबन्धसमयन्यूनोत्कृष्टस्थितिप्रमाणश्चोत्कृष्टदेशबन्ध इति, एतदेवाह - ' एवं जावे' त्यादि, पञ्चेन्द्रियतिर्यङ्मनुष्याणां वैक्रिय सर्वबन्ध एकं समयं देशबन्धस्तु जघन्यत एकं समयमुत्कर्षेण त्वन्तर्मुहूर्त्तम् ॥ एतदेवातिदेशेनाह'पंचिंदिये' त्यादि, यच्च 'अंतमुहुत्तं निरएस होइ चत्तारि । तिरियम देवे अद्धमासो उक्कोस विउव्वणाकालो ॥ १ ॥' (नरकेष्वन्तर्मुहूर्त्तं भवति तिर्यङ्मनुष्येषु चत्वारि देवेष्वर्द्धमासः उत्कृष्टो विकुर्वणाकालः ॥ १ ॥ ) इति वचनसामर्थ्यादन्तमुहूर्त्तचतुष्टयं तेषां देशबन्ध इत्युच्यते तन्मतान्तरमित्यव - सेयमिति ।
उक्तो वैक्रियशरीरप्रयोगबन्धस्य कालः ।
अथ तस्यैवान्तरं निरूपयन्नाह 'वेउब्विये' त्यादि, 'सव्वबंधंतरं जहन्नेणं एक्कं समयं' ति कथं ?, औदारिकशरीरी वैक्रियं गतः प्रथमसमये सर्वबन्धको द्वितीये देशबन्धको भूत्वा मृतो देवेषु नारकेषु वा वैक्रियशरीररिष्वविग्रहेणोत्पद्यमानः प्रथमसमये सर्वबन्धक इत्येवमेकः समयः सर्वबन्धान्तरमिति, 'उक्कोसेणं अणतं कालं ति कथं? औदारिकशरीरी वैक्रियं गतो वैक्रियशरीरिषु वा देवादिषु समुत्पन्नः स च प्रथमसमये सर्वबन्धको भूत्वा देशबन्धं च कृत्वा मृतः ततः परमनन्तं
For Private & Personal Use Only
www.jainelibrary.org