________________
परिशिष्ट २
आलोच्य पाठ तथा वाचनान्तर
आलोच्य पाठ
परियावेणं [आया २२, पृ० १७ ]
यद्यपि चूर्णो वृत्तौ च 'परियावेणं' इति पाठो व्याख्यातोऽस्ति, आदर्शेष्वपि एष एव पाठो लभ्यते । तथापि 'माया मे, पिया मे' इत्यादि पदानां अर्थप्रसंगतया 'परियारेणं' इति पाठस्य परिकल्पना सहजमेव जायते । प्राचीनलिप्यां रकारवकारयोः सादृश्यात् एतत् परिवर्तनं नास्वाभाविकमस्ति ।
मानवा [आया ५६३, पृ० ४३ ]
वृत्तिकृता 'मानवा' मनुजाः इति विवृतम् । चूर्णिकृता च नैतत् पदं विवृतम् । किन्तु ' एवं थंभे मायाए वि लोभे वि जोएयव्वं' इति निर्देशः कृतः । तेन 'माणवा' इति पदस्य स्थाने 'माणओ' इति पाठस्य परिकल्पना जायते ।
अचिरं [आया
२०, पृ० ७१]
चूर्णो वृत्तौ च 'अचिरं पदं स्थानार्थे व्याख्यातमस्ति । यद्येतत् स्थानावाची स्यात् तदा 'अइर' मिति पाठ: संगच्छते । 'अजिरं प्रांगणम्' इति तस्यार्थो भवेत् । 'अइर' इति अतिरोहितार्थवाची देशीशब्दोपि विद्यते । केनापि कारणेन इकारस्य चकारो जात इति प्रतीयते । अथवा चूर्णिकारेण वैकल्पिकरूपेण कालार्थे अचिरशब्दस्य प्रयोगो निर्दिष्टः, सोपि युक्तः स्यात् । एस खलु भगवया सेज्जाए अक्खाए [आयारचूला १।२६, पृ० ६० ]
आयारचूलाया: पाठ- संशोधने षड् आदर्शाः प्रयुक्ताः, चूर्णिवृत्तिश्च । तत्र पञ्चादशेषु उक्त पाठस्य ये पाठ-भेदास्ते तत्रैव पादटिप्पणे प्रदर्शिताः सन्ति । वृत्ती ( पत्र ३०० ) 'एस विलुंगयामो सेज्जाए' इति पाठो व्याख्यातोस्ति - " गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्यथैष साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो' त्ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदिति ।" अस्माभिः 'घ' प्रत्यनुसारी पाठ: स्वीकृत: । चूर्णावपि (पू० ३३२) 'एस खलु भगवया' इति पाठो लभ्यते । 'सेज्जाए अक्खाए'
Jain Education International
४१
For Private & Personal Use Only
www.jainelibrary.org