________________
द्वितीय प्राभृत - द्वितीय प्राभृतप्राभृत ]
२. ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं' निव्वेढेइ, एवइयं च णं अद्धं पुरओ न गच्छइ, पुरओ गच्छमाणे मंडलकालं न परिहवेइ, तेसि णं अयं विसेसे।
तत्थ णं जे ते एवमाहंसु -
मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेइ एएणं ठाएणं णेयव्वं, णो चेव णं इयरेणं,
मण्डलान्मण्डलं संक्रामन् संक्रमितुमिच्छन् सूर्यस्तदधिकृतं मंडलम प्रथमक्षणादृर्ध्वमारभ्य कर्ण-कलं निर्वेष्टयति मुंचति, इयमत्र भावना-'भारत ऐरावतो वा सूर्यः स्व-स्वस्थाने उद्गतः सन् अपरमण्डलगतं कर्णं प्रथमकोटिभागरूपं लक्ष्यीकृत्य शनैःशनैरधिकृतं मण्डलं तया कयाचनापि कलया मुंचन चारं चरति' येन तस्मिन्नहोरात्रेऽतिक्रान्ते सति अपरानन्तरमण्डलस्यारम्भे वर्तते इति। कर्णकलमिति च क्रियाविशेषणं द्रष्टव्यं, तच्चैवं भावनीयं - कर्ण-अपरमण्डलगतप्रथमकोटिभागरूपं लक्ष्यीकृत्याधिकृतमण्डलं प्रथमक्षणादूर्ध्व क्षणे क्षणे कलयाऽतिक्रान्तं यथा भवति तथा निर्वेष्टयतीति। - सूर्य. टीका.