SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ।। खरतरगच्छ पट्टापली-२॥ ५७. तत्पट्टे सप्तपंचाशत्तमः श्री जिनचंद्रसूरिः। तस्य च जेसलमेरुवास्तव्य चम्मगोत्रीय साह वच्छराजः पिता, बाल्हादेवी माता । सं० १४८७ जन्म, सं० १४९२ दीक्षा, सं० १५१४ वै० व० २ कुंभलमेरु वास्तव्य कूकडचोपडागोत्रीय साह समरसिंहकृतनंदिमहोत्सवेन श्री कीर्तिरत्नाचार्येण पदस्थापना कृता । ततो अर्बुदाचलोपरि नवफणपार्श्वनाथप्रतिष्टाविधायकाः, श्रीधर्मरत्न, गुणरत्नमूरि, प्रमुखानेकपदस्थापकाः श्री जिनचंद्रसूरयः सं० १५३० जेसलमेरुनगरे स्वर्ग प्राप्ताः ॥५७॥ -तद्वारके सं० १५०८ अहमदावादे लौंकाख्येन लेखकेन प्रतिमा उत्थापिता, ततः सं० १५२४ वर्षे लौकाभिधं मतं जातं ॥ ५८. तत्पट्टे अष्टपंचाशत्तमः श्री जिनसमुद्रसूरिः। तस्य च बाहडमेरुवासी पारख गोत्रीय देकासाह पिता, माता देवलदेवी। सं० १५०६ जन्म, सं० १५२१ दीक्षा, सं० १५३० मा० सु० १३ जेसलमेरुवास्तव्य संघपति सोनपालकृतनंदिमहोत्सवेन श्री जिनचंद्रसूरिभिः स्वहस्तेन पदस्थापना कृता । ततः पंचनदी सोमयक्षादिसाधकाः, परमचारित्रवंतः, श्री जिनसमुद्रसूरयः सं० १५५५ अहमदावाद नगरे सर्ग गताः ॥५८॥ ५९. तत्पट्टे एकोनषष्टितमः श्री जिनहंसमूरिः। तस्य च सेत्रावाभिध नगरवास्तव्य चोपडागोत्रीय साह मेघराजः पिता, कमलादेवी माता । सं० १५२४ जन्म, सं० १५३५ दीक्षा, सं० १५५५ अहमदावादे पदस्थापना जाता। तथा सं० १५५६ वैशाखसुदि तृतीयायां रोहिणीनक्षत्रे श्रीवीकानेरनगरे करमसीमंत्रिणा पीरोजी-लक्षव्ययेन पुनः पदस्थापना-महोत्सवो विहितः। अथैकदा आगराभिधनगरवास्तव्य सं० डुंगरसी, मेघराज, पोमदत्त प्रमुख संघेन अत्याग्रहेण आहूताः श्री जिनहंससूरयः तत्र गताः । तदा पतिसाहिप्रहितहस्त्यश्वसिबिकावादित्रछत्रचामराद्याडंबरेण गुरूणां प्रवेशोत्सवो विहितः। तत्र गुरुभक्तिसंघभक्ति-आदौ द्विलक्षद्रव्यं व्ययीकृतं, तदसहमान-पिशुनकृतविकारेण पतिसाहिना गुरव आहूताः, धवलपुरे रक्षिताः । ततो देवकृतसांनिध्यात् श्री गुरवः पतिताहिचित्तं रंजयित्वा, पंचशत (५००) बंदिजनान् मोचयित्वा, अमारघोषणां कारयित्वा, उपाश्रये आगताः। हर्षितः समस्तोपि संघः। ततोऽतिसौभाग्यधारकाः, त्रिषु नगरे प्रतिष्ठात्रयकारकाः, अनेकसंघपतिप्रमुखपदस्थापकाः, श्री गुरवः पाटणनगरे त्रीणि दिनानि अनशनं कृत्वा सं० १५८२ स्वर्ग प्राप्ताः ॥ ५९॥ —तद्वारके सं० १५६४ मरुदेशे उपाध्याय (प्रत्यन्तरे आचार्य) शान्तिसागरतः आचार्य खरतर शाखा भिन्ना अयं षष्ठो गच्छभेदः॥ ६०. तत्पट्टे षष्टितमः श्रीजिनमाणिक्यसूरिः। तस्य च कूकडचोपडागोत्रीय साह जीवराजः पिता, पद्मादेवी माता । सं० १५४९ जन्म, सं० १५६० दीक्षा, सं० १५८२ वर्षे भाद्रपदवदि नवम्यां साह देवराजकृत नंदिमहोत्सवेन श्रीजिनहंससूरिभिः स्वहस्तेन पदस्थापना कृता । ततो गुर्जर देश, पूर्व देश, सिंधु देशादि विहारकारकाः, पंचनदीसाधकाः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy