SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ।। खरतरगच्छ पट्टावली-२॥ छाजहडगोत्रीय स्वसंसारिणामग्रे सर्वोपि स्ववृत्तांतः प्रोक्तः। ततः तेषां मध्ये कैश्चित् तद् भ्रातादिभिरुक्तं 'अस्माकं त्वमेवाचार्यः, वयमन्यं न मन्यामहे' इति । तदा तत्रायं चतुर्थो गच्छभेदो जातः। परं तत्संसारिण एव द्वादश श्रावका जाताः, नान्ये; तथा गुरुशापात् तद्गच्छे प्राय एकोनविंशति (१९) यतिभ्योऽधिका यतयो न भवंति, यदि स्यात् तदा म्रियतेभ्रष्टो वा स्यात् इति ॥५४॥ ५५. श्रीजिनोदयमूरिपट्टे पंच पंचाशत्तमः श्रीजिनराजमूरिः। तस्य च सं० १४३२ फाल्गुनवदि षष्ठयां पाटणनगरे साह धरणकृतनंदिमहोत्सवेन सूरिपदं जातं । ततो मुखाधीतसपादलक्षप्रमाण न्यायग्रन्थाः, श्री स्वर्णप्रभाचार्य, भुवनरत्नाचार्य, सागरचंद्राचार्य स्थापकाः, श्री गुरवः सं० १४६१ देवलवाडाख्ये नगरे स्वर्ग गताः॥ ५५॥ ५६. तत्पट्टे षट्पंचाशत्तमः श्री जिनभद्रसूरिः। तत् प्रबंधो यथा-सागरचंद्राचार्येण श्री जिनराजसूरिपट्टे श्री जिनवर्द्धनसूरिः स्थापित आसीत् । स चैकदा जेसलमेरुदुर्गे श्री चिंतामणिपार्श्वदेवगृहे मूलनायकपार्थस्थितां क्षेत्रपालमूर्ति विलोक्य, स्वामिसेवकयोस्तुल्यस्थाने अवस्थानमयुक्तमिति विचिंत्य च क्षेत्रपालमूर्ति उत्पाट्य द्वारे स्थापितवान् , ततः कुपितः क्षेत्रपालो यत्र तत्र गुरूणां चतुर्थव्रतभंगं दर्शयामास । अनया रीत्या एकदा चित्रकूटे समागताः, तत्रापि देवेन तथैव कृतं, ततः सर्वेपि श्रावकाः चतुर्थव्रतभंगं ज्ञात्वाऽयं पूज्यपदयोग्यो नास्ति, इति कथयामासुः, अथ जिनवर्द्धनसूरयो व्यंतरप्रयोगेण ग्रथिलीभूताः संतः पिप्पलकग्रामे गत्वा स्थिताः, कियंतः शिष्याः पार्श्वे स्थितवंतः। अथ पश्चात् सागरचंद्राचार्यप्रमुखसमस्तसाधुवर्गेण एकत्रीभूय ‘गच्छस्थितिरक्षणार्थं नवीन आचार्यः स्थाप्य' इति विचारं कृत्वा एकं नवीनं क्षेत्रपालमाराध्य तं च सर्वेषु देशेषु संप्रेष्य'यद्यूयं करिष्यध्वे तदस्माकं प्रमाणमिति' समस्त खरतरगच्छ-संघस्य हस्ताक्षराणि आनाय्य सर्वसाधुमंडली संमील्य भाणसोलग्रामे आजग्मे । तत्र श्रीजिनराजसूरिभिरेकः स्वशिष्यो वाचकशीलचंद्रगणिपार्श्वेऽध्यापनाय रक्षितोऽभूत् । स च अधीतसकलसिद्धान्तार्थः, भणसालिक गोत्रीयः, भादौ इति मूल नामा। सं० १४६१ गृहीतदीक्षः। क्रमेण पंचविशति वर्षीयो जातः। तं च योग्यं ज्ञात्वा श्री सागरचंद्राचार्यः सप्त भकाराक्षराणि संमील्य सं० १४७५ माघ सुदी पौर्णमास्यां भणसालिक नाल्हा साहकारित सपादलक्षरूपकव्ययरूपनंदिमहोत्सवेन सूरिः स्थापितवान् । सप्त भकारास्तु अमी-१ भाणसोल नगरं, २ भणशालिक गोत्रं, ३ भादौ नाम, ४ भरणी नक्षत्रं, ५ भद्रा करणं, ६ भट्टारकपदं, ७ जिनभद्रसूरीति स्थापित नाम, इति । अथैवंविधा अर्बुदाचल, गिरिनार, जेसलमेरु प्रमुखस्थानेषु बिंबप्रासादप्रतिष्ठाकारकाः, श्री भावप्रभाचार्य, कीर्तिरत्नाचार्य-स्थापकाः। स्थान २ पुस्तक भांडागारस्थापकाः, श्री जिनभद्रसूरयः, सं० १५१४ मार्गशीर्ष वदि नवम्यां कुंभल मेरुनगरे स्वर्ग प्राप्ताः। तद्वारके सं० १४७४ श्री जिनवर्द्धनसूरितः पिप्पलक खरतर शाखा भिन्ना। अयं पंचमो गच्छभेदः ॥५६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy