SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ । खरतरगच्छ सूरिपरंपरा प्रशस्तिः ।। दुर्गे यैचित्रकूटे विकटभृकुटिका चण्डिका प्रत्यबोधि, नहे मानोन्नतश्रीकरणसदभरः सत्यवाग वैभवेनः । प्रागनिस्स्वो यत्प्रसादाद् धनपतिरभवत्सोऽपि सद्वारणो वै चके तेनापि जैने जिनगृहकरणायुम्नतिः शासनेऽस्मिन् ॥ ४५ ॥ पिण्डविशुद्धिप्रकरण-कर्मग्रन्थाद्यनेकशास्त्रकृते। तस्मै श्रीजिनवल्लभगुरवे सततं नमस्कुर्वे ॥ ४६ ॥ तत्पद्वे मेरुशृङ्गे सुरतरुसदृशो जैनदत्तो मुनीन्द्रो दुर्गे श्रीचित्रकूटे प्रहरसशशभृञ्चन्द्रसंख्ये हि वर्षे । भूतप्रेताः पिशाचा ग्रहगणनिवहा कुग्रहास्ते गृहीता येनासाध्येष (?) मन्त्रप्रवलबलतया योगिनीचक्रवालम् ॥४७॥ यत्पूर्व चै [व] पट्टे विनिहितमभवद् केनचिदैवतेन तस्मात्प्राकाशि मन्त्रैस्तदपि हि गुरुणा पुस्तकं मन्त्रगर्भम् । येनाथो विक्रमाख्ये विपुलपुरवरेऽवारि मारिः प्रबोध्य __ लोका माहेश्वरीयास्तदपि हि गुरुणा स्थापिता जैनधर्मे ॥४८॥ तस्मिन्नेव पुरेऽक्षसप्तगुणितं साधुव्रतिन्योः पृथग् एकस्यामपि दीक्षितं समभुवन्नन्या क्षणात्सो प्यथ । सिन्धोर्मण्डलमाससाद च गुरुः पूर्णेन्दुवत्साधुभिः __संसेव्यो जनचक्रवाकनयनानन्दं ददत् शुद्धधीः ॥४९॥ तत्र श्रीसोमराजः सुरपतिसदृशो यत्पदाम्भोजभृङ्ग__ स्तुष्टस्तस्मै स दत्ते प्रवरमिति वरं ग्रामदेशे पुरऽपि । श्राद्धः श्रीमाँस्त्वदीयो नरपतिसदृशः सत्प्रधानो गुरुर्वा भाव्यैकैकः स एष प्रकटतरमिहाद्यापि जागर्ति गच्छे ॥५०॥ यो योगीन्द्रनिषेवितक्रमयुगः प्राचीनपुण्योदया देवोक्तेश्च युगप्रधानपदवी प्राप्तो जगद्विश्रुताम् । यस्योपान्तमुपासते सुरगणा दासा इवाहर्निशं कल्पद्रुर्मरुमण्डले स जयति श्रीजैनदत्तो गुरुः ॥५१॥ तेषां नामग्रहणाद्विपत्तितां यान्ति सकलविपदोऽपि । ___ अहिदष्टमृत्य्वभावो विद्युदपातो भवेद् भविनाम् ॥ ५२ ॥ विस्फुरति कान्तिरतुला सुकला देहेऽपि मान्दरे सकला।। कमला विस्मयजननी वदने वाणी सुधोगिरणी ॥ ५३ ॥ श्रीअजयमेरुदुर्गे स्वर्गे गमनं च जातामिव येषाम् । स्तूपं तिलकसुरूयं प्राचीदिक्तरुणीभालतले ॥ ५४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003435
Book TitleKhartargaccha Pattavali Sangraha
Original Sutra AuthorN/A
AuthorJinvijay
PublisherBabu Puranchand Nahar
Publication Year
Total Pages76
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy